________________
साहित्यदर्पणः ।
[ चतुर्थ:
अविवक्षितवाच्यो नाम ध्वनिरर्थान्तरसङ्क्रमितवाच्योऽत्यन्त तिरस्कृतवाच्यश्चेति द्विविधः । यत्र स्वयमनुपयुज्यमानो मुख्योऽर्थः स्वविशेषरूपेऽर्थान्तरे परिणमति तत्र मुख्यार्थस्य स्वविशेषरूपार्थान्तरसङ्क्रमितत्वादर्थान्तरसङ्क्रमितवाच्यत्वम् । यथा, -
'कदली कदली, करभः करभः, करिराजकरः करिराजकरः । भुवनत्रयेऽपि विभर्ति तुलामिदमूरुयुगं न चमूरुदृशः ॥ १७२ ॥'
३१०
त्यक्त । सतीति शेषः । “चातितिरस्कृते" इत्येव पाठो वा । वाच्ये वाच्यार्थे । अविवक्षितवाच्यः । अपि । ध्वनिः । द्वैविध्यं द्विविधस्य भाव इति तत् । ऋच्छति प्रतिपद्यते । अत्रायम्भावः - ध्वनिस्तावद् द्विविधः, लक्षणामूलोऽभिधामूलच; तत्र लक्षणामूल एवाविवक्षितवाच्यः । तत्वे हि वाच्यार्थस्याविवक्षितत्वं प्राधान्येनानभिमतत्वमन्यथाऽनुपयोगित्वं वा सङ्गच्छते । लक्षणा चोपादानाख्या, लक्षणाख्या; च । उपादानम जहत स्वार्थेति, लक्षणं च जहस्वार्थेत्युच्यते । तत्रोपादानेन वाच्यार्थस्य लक्ष्यताऽवच्छेद के उपयोगिन्यर्थे आश्रयरूपेणैव सङ्क्रमितत्वं परिणमितत्वस्थित्वं वा, लक्षणेन तु न तत्, किन्तु तत्र वाच्यार्थस्य सर्वथैवानुपस्थितत्वं लक्ष्यताऽवच्छेदकस्यैवार्थस्यावस्थानं न च वाच्यार्थस्य योगोऽभिमतः । तदेवं लक्षणाद्वैविध्ये तदन्वयव्यतिरेकानुविधायिनो ध्वनेरपि द्वैविध्यं निर्विवादम् । अत्रैतावानेव विशेषः, पूर्वत्राविवक्षितवाच्यत्वं वाच्यार्थानुपयोगित्यात, उत्तरत्र तु स्फुटमेवेति । ध्वनिस्वरूपं च निदर्शितं प्रागिति व्यङ्गयस्यास्फुटत्वे सन्दिग्धप्राधान्ये तुल्यप्राधान्येऽसौन्दर्ये काक्काक्षिप्ते च नितान्तं गूढत्वेऽगृढत्वे चापराङ्गत्वे च न ध्वनिरूपत्वम् । इति बोध्यम् ॥ २०० ॥
तत्र तावत् कारिकाऽर्थं सुगमयितुमाद्यप्रभेदतात्पर्यं विवृणोति अविवक्षितवाच्यः । नाम प्रसिद्धः । ' नाम कामे (कोपे) ऽभ्युपगमे विस्मये स्मरणेऽपि च । सम्भाव्यकुत्साप्राकाश्यविवल्पेष्वपि दृश्यते ॥' इति मेदिन्युक्तेः । ध्वनिः । अर्थान्तरसङ्क्रमितवाच्यः। तथा अत्यन्ततिरस्कृतवाच्यः । इतीत्यस्मात् कारणात् । द्विविधः । यत्र यस्मिन् प्रकृतान्वये इति शेषः । मुख्यः । मुखे आदौ भव इति सङ्केतितार्थस्यैव प्राथमिकत्वात्तत्र चाभिधाया नियामकत्वादभिधया प्रतिपाद्यमान एव मुख्यः, आद्य इति भावः । अर्थः । स्वयम् । मुख्यता ऽवच्छेदकरूपेणोपस्थित इत्यर्थः । अनुपयुज्यमानो नोपयुज्यमानः प्रकृतोपयोगितामनुपपद्यमान इति भावः । स्वविशेषरूपे स्वस्य विशेषः प्रकारस्तद्रूप इत्यर्थः । अर्थान्तरे प्रकारान्तरभूतेऽर्थे इत्यर्थः, येन रूपेण मुख्यार्थः प्रकृतान्वयानुपयोगी तद्भिन्नप्रकारभूतेऽर्थे इति भावः । परिणमति परिणामं गच्छन्निवेति भावः । यत्र मुख्योऽप्यर्थः प्रकारान्तरेण लक्ष्यार्थत्वमुपपद्यत इति तु समुदायतात्पर्यम् । तत्र | मुख्यार्थस्य । स्वविशेषरूपार्थान्तरसङ्क्रमितत्वात् । अर्थान्तरसङ्क्रमितवाच्यत्वम् । अत्रायम्भावः - यथा “कः केभ्यो दधि रक्ष्यता" मित्यत्र वाच्योऽपि काको दभ्युपघातकरूपेण लक्ष्योऽर्थस्तथा यत्र यद्रूपेण प्रकृतान्वयानुपयोगी तदितरप्रकारेण स्वयं परिणमन्निव लक्ष्यः सोऽर्थान्तरसङ्क्रमितवाच्यो नाम ध्वनिः । अत्र च मुख्यार्थस्य साक्षाद्रूपेण प्रकृतानुपयोगित्वं बाधः । अस्यैव पुनः प्रकारान्तरेणोपयोग इतीयमुपादानलक्षणेति । अत्र तर्कवागीशा: " यत्रेति । प्रकृतान्वये ' इति शेषः । स्वयं मुख्यताऽवच्छेदकरूपेण स्वविशेषरूपे स्वकीयमुख्यताऽवच्छेदकरूपेण स्वविशेषरूपे स्वकीय मुख्यतावच्छेदकव्याप्यधर्मे पारं मति विशेष्यतया भासते अर्थान्तरे सङ्क्रमि तत्वाद् विशेष्यतया भासमानत्वात् । एतेन मुख्यार्थस्य मुख्यताऽवच्छेदकरूपेण प्रकृतान्वयानुयोगित्वं भावस्तस्यैव विशेषणान्तररूपेण बोध इतीयमुपादानलक्षणेति सूचितम् ।"
इत्याहु: ।
उदाहरति यथा । कदली रम्भा नाम वृक्षविशेषो न तु तन्नामा मृगविशेषः । तस्योरुसादृश्यासम्भवात् । ' रम्भा वृक्षेऽथ कदली पताका मृगभेदयोः ।' इति मेदिनी । कदली। करभः । मणिबन्धमारभ्य कनिष्ठापर्यन्तं हस्तस्य बाह्यो भागो न तूष्ट्र