________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः ।
३०९ तत्र अविवक्षितवाच्यो नाम लक्षणामूलो ध्वनिः । लक्षणामूलत्वादेवात्र वाच्यमविवक्षितं बाधितस्वरूपम् । विवक्षितान्यपरवाच्यस्त्वभिधामूलः । अत एवात्र वाच्यं विवक्षितम् । अन्यपरं व्यङ्ग्यानष्ठम् । अत्र हि वाच्योऽथः स्वरूप प्रकाशयन्नेव व्यङ्गयार्थस्य प्रकाशकः । यथा-प्रदीपो घटस्य । अभिधामूलस्य बहुविषयतया पश्चानिर्देशः । अविवक्षितवाच्यस्य भेदावाह,२८४ अर्थान्तरे सङ्क्रमिते वाच्येत्यन्तं तिरस्कृते ।।
अविवक्षितवाच्योऽपि ध्वनिविध्यमृच्छति ॥ २००॥
वाच्यस्य स्वप्रतिपाद्यत्वे क्वचित् पुनस्तस्य बाधितस्य प्रयोजनोद्भावकत्वे इति नातिरिच्यते ताभ्याम् । पूर्वत्र ह्यभिधामूलस्य ध्वनेः सञ्चारः, उत्तरत्र च लक्षणामूलस्येति विदितचरं विदुषाम् । अत एव ध्वनेद्वैविध्यम् । ध्वनिः पुनः शब्दार्थातिशायिनि सति व्यङ्गये सम्भवतोति क्वचित्तत्त्वानुदये प्रथम व्यङ्गयमात्रम् । अथ यदि तस्माद्भवेत्सातिशय व्यङ्गयान्तरं ध्वनिरपि तदा स्यात्, किन्त्वत्र वाच्यस्य विवक्षितत्वेनाभिधामूलत्वमेवेति न तस्य तृतीयत्वम् । इदमभिहितम्-व्यङ्गयाद् व्यङ्गयान्तरस्य ध्वनित्वेन व्यञ्जनामूल: पृथक् सम्भवन्नपि ध्वनिरभिधामूलेऽन्तर्भवति विवक्षितान्यपरवाच्याख्ये ध्वनाविति द्विविध एव ध्वनिरिति ॥ १९९ ॥ , अथ कारिकायाः पूर्व भागमदुर्बोध इत्युपेक्ष्योत्तरमेव भागं विवृणोति-तत्र तयोर्द्वविध्ये । “आद्य' इति शेषः । लक्षणामूलाभिधामूलध्वनिद्वयान्तराद्यो लक्षणामूल इति भावः । अविवक्षितवाच्यः । नाम प्रसिद्धः । बक्षणामूलो लक्षणा मूलं यस्य सः । ध्वनिः । कुतोऽत्र वाच्यस्य विवक्षितत्वाभाव इत्याह-लक्षणामूलत्वात् । एव केवलम् । वाच्यं मुख्यार्थ इत्यर्थः । क्लीबत्वं तु सामान्याभिप्रायेण । बाधितस्वरूपं बाधितं स्वरूपं यत्र तत् । तु पुनः । विवक्षितान्यपरवाच्यः । "ध्वनि रिति शेषः । अभिधामूलः । अतोऽभिधामूलत्वादिति भावः । एव । अत्रास्मिन्नित्यर्थः । वाच्यं वाच्योऽर्थ इति भावः । विवक्षितमबाधितस्वरूपम् । अन्यपरमन्यद् व्यङ्गयं तत्र परं निष्टम् । व्यङ्यनिष्ठम् । कथं वाच्यस्य व्यङ्गयपरत्वमित्याह-हि यतः । अत्रास्मिन् ध्वनौ । वाच्यः। अर्थः । म्वरूपम् । प्रकाशयन् । एव । व्यङ्यार्थस्य । प्रकाशकः। इति । तत्र सादृश्यं निदर्शयति-यथा। प्रदीपः। स्वरूपं प्रकाशयनिति पूर्वेणान्वयः । घटस्य । अपीति शेषः । प्रकाशक इति पूर्वेणान्वयः । अत्रायम्भावः-यथा प्रदीपः स्वयमपि प्रकाशते, घटमपि प्रकाशयति, न पुनः केवलं स्वं, न वा घटमेव; तथा ध्वन्यवतारावसरे वाच्यो भवतु गुणीभूतः, किन्तु तथासन्नपि स्वयं प्रकाशते, व्यङ्गयार्थ च प्रकाशयते । तस्य हि स्वोपस्थितिद्वाराऽन्यावबोधं प्रति कारणत्वम् । अत्र तत्पदेन प्रदीपो वाच्यार्थो वा बोध्यः । उक्तं च विवृतिकारैः-'अत्र हीति । वाच्यार्थस्य स्वोपस्थितिद्वारा शाब्दबोधं प्रति कारणत्वमित्यभिप्रायेणेदमिति । यद्यपि घटाभावस्थले प्रदीपः स्वयमेव प्रकाशते न पुनर्घटं प्रकाशयते, तस्थितेरेव तदानीमभावात् । तथाऽपीदं तत्सत्त्वमुद्दिश्यैवोक्तम् । यद्वा-घटपदेनोपस्थितं प्रकाश्यजातं वस्तु । अत एव 'न किञ्चिदवेदिष' मित्यत्राबोधावबोधकत्वं परस्वरूपस्येति । अथाभिधामूलस्य ध्वनेः पुनर्निर्देशाभिप्रायं स्वयं प्रकटयति-अभिधामूलस्य । ध्वनेरिति शेषः । बहुविषयतया बहवो विषयाः प्रतिपाद्या अर्था यत्र तस्य भावस्तत्ता तया । पश्चाल्लक्षणामूलानन्तरम् । निर्देशः । 'पीनो देवदत्तो दिवा न भुङ्क्ते' इत्यत्र 'रात्रौ' इतिवत् लक्षणामूलस्याल्पविषयतया प्रथमं निर्देश' इत्यपि स्फुटम् ।
अथ निर्दिष्टमेव क्रममाश्रित्य लक्षणामूलस्याविवक्षितवाच्यस्य भेदद्वयवत्तायां कारणं प्रदर्शयंस्तदन्वयव्यतिरेकानुविधायिनी काव्यद्वयोपपत्तिं च निदर्शयन्भेदद्वयप्रदर्शनं प्रतिजानीते-अविवक्षितवाच्यस्य अविवक्षितो वाच्यो मुख्याओं यत्र तस्य, अत एव लक्षणामूलस्येति भावः । ध्वनेरिति शेषः । भेदौ प्रकारौ । आह-२८४ अर्थान्तरे ऽन्योऽथ इत्यर्थान्तरं तत्र, अन्यस्मिन्नर्थे इत्यर्थः । अन्यो भिन्नः, सच वाच्यादेव, तथा च वाच्यापेक्षया भिन्नेऽर्थे इति भावः । सङक्रमिते सक्रमो जातो यस्य तास्मस्तथाभूते, प्रविष्ट इत्यर्थः । अत्यन्तं सर्वथैवेति भावः । तिरस्कते