________________
[ चतुर्थः
३०८
साहित्यदर्पणः। २८३ भदौ ध्वनेरपि द्वा-वुदीरितो लक्षणाऽभिधामूलौ ।
अविवक्षितवाच्योऽन्यो विवक्षितान्यपरवाच्यश्च ।। १९९॥
('वलाका वकपङ्क्तिः स्याद्वलाका विषकण्टिका । वलाका कामुकी प्रोक्ता'इत्युक्तेर्वकानां पक्तिः ) विसिन्याः ( पनिन्याः) पत्रे निर्मले मारकते भाजने ( पात्रे) परिस्थिता शङ्खस्य शुक्तिरिव राजते इति पश्येति वाच्यार्थावतारो'निर्जनोऽयं देश'इति व्यनक्ति । स च 'स्वच्छन्दमिह चिरं विहर, पत्रे वलाकेव वलाका (कामुकी) भवन्ती त्वयि (त्वदक) निर्भयमवस्थास्थे । आवयोः परिष्वङ्गश्च मरकतस्य शुक्त्याश्च कामपि कमनीयतामाकलयिष्यतीति व्यङ्ग्यान्तरावतारायेति । अभिनवगुप्तपादा अप्यत एवाहुः 'व्यक्त इति द्विवचनेनेदमाह-यद्यप्यविवक्षितवाच्ये शब्द एव व्यञ्जकः, तथाऽपि-अर्थस्य सहकारिता न ट्यति । अन्यथा ज्ञातोऽपि शब्दस्तदव्यजकः स्यात् । विवक्षितान्यपरवाच्ये च शब्दस्यापि सहकारित्वं भवत्येव ।...तेन यद्भट्टनायकेन द्विवचनं दूषितं, तद्गजनिमीलिकयैव । अर्थः शब्दो वेति तु विकल्पाभिधानं प्राधान्याभिप्रायेण । काव्यं च तद्विशेषश्चासौ, काव्यस्य वा विशेषः । काव्यग्रहणाद्गुणालङ्कारोपस्कृतशब्दार्थपृष्ठपाती ध्वनिलक्षण आत्मेत्युक्तम् । तेनैतन्निरवकाशं 'श्रुतार्थापत्तावपि (“जीवी गृहे न तिष्ठती'त्यादावपि) ध्वनिव्यवहारः स्यादिति । यच्चोक्तं (भटनायकेन) 'चारुत्वप्रतीतिस्तर्हि काव्यस्यात्मा स्यादिति तदङ्गीकुर्म एवे' ति ।
उत्तमकाव्यमपि चमत्कारवैलक्षण्येन विभिद्यते इति दिदर्शयिषुराह-२८३ भेदावित्यादि। २८३ ध्वनेः पूर्वोक्तस्वरूपस्य काव्योत्तमत्वप्रयोजकस्य । अपि । लक्षणाऽभिधामूलौ। लक्षणामूलोऽभिधामूलश्चेतिः । यद्यप्यभिधापदस्य परत्वं नैव युज्यते । तथाऽपि तथा विवक्षाबलाद् 'अम्याहत च।' इति परवम् । द्वौ । 'द्वा विति नियमार्थम, द्विवचननिर्देशादेव द्वित्वप्रतीतिसिद्धेः । भेदौ । उदीरितौ कधितौ । तत्रैक:-अविवक्षितवाच्यः न विवक्षितमित्यविवक्षित, तथाभूतं वाच्यमभिधया प्रतिपाद्यं यत्र सः । अत्र सामान्याभिप्रायेण क्लीबत्वम् । अन्यथा तु अविवक्षितो वाधितस्वरूपो वाच्योऽभिधया प्रतिपाद्योऽथों यत्र स इति । च पुनः । अन्यो द्वितीयो भेद इत्यर्थः । विवक्षितान्यपरवाच्यः विवक्षितं वक्तुमीप्सितमन्यपरं वाच्यं यत्र सः । अन्यद् व्यञ्जनया यत् प्रतिपाद्यते तत्, तत्र परं निष्ठम् । अत्रापि सामान्याभिधायेन क्लीबत्वमन्यथा तु पुंस्त्वमेव सङ्गच्छते । इति ॥ १९९ ॥
अत्रायम्भावः-लक्षणा तावद् द्विविधा रूढिः प्रयोजनबती च तत्र रूढिमूलस्तु ध्वनिर्न सम्भवति तत्र व्यञ्जनीयत्वस्य सर्वथाऽभावात् । अथ प्रयोजनवत्येव ध्वनेर्मूलं भवितुमर्हतीति नातिरोहितम् । यद्यपि लक्षणातः प्राथमिक्यभिधावृत्तिस्ततस्तन्मूल एव ध्वनिः प्रथम निर्देश्यस्सम्भवति, तदपि तस्य बहुविषयतया, लक्षणामूलस्याल्पविषयतया सूचीकटान्यायेन प्रथमं लक्षणामूल एव निर्दिष्टः । वक्ष्यन्त्यत एव वृत्तिकारा अपि 'अभिधामूलस्य बहुविषयतया पश्चानिर्देशः ।' इति । लक्षणा च मुख्यार्थबाधाऽनन्तरभाविनीति तन्मूलेऽपि ध्वनौ मुख्यार्थो बाधितस्वरूप एवावस्थास्यते इति निर्विवादम् । मुख्यार्थश्च वाच्यार्थ एवेत्यसावविवक्षितवाच्यः । अभिधया तु वाच्य एवोद्भाव्यते इति कथंखित् स्यात्तन्मूलस्य तथात्वम् । किन्तु प्रयोजनवत्या लक्षणायाः प्रयोजनं व्यञ्जनैकगम्यमिति स्वत एव तन्मूलस्य व्यङ्ग्यपरत्वं, न पुनस्तथासमर्थनोपयोगित्वम्, अथाभिधाया न व्यञ्जनोपकृतत्वं किञ्चिदिति तत्प्रतिपाद्यस्य (वाच्यस्य ) व्यङ्गयपरत्वमन्तरा ध्वनित्वं न सङ्घटत इत्यभिधामूलस्य तस्य विवक्षितान्यपरवाच्यस्वरूपत्वं निर्बाधम् । नन्वेवं व्यञ्जनामूलोऽपि ध्वनिः प्रतिपादनीयः । व्यञ्जनाया अपि वृत्तित्वात् । त्वयाऽपि पूर्व पूर्वव्यङ्गयस्य चरमव्यङ्गय प्रति हेतुत्वं प्रदर्य तत्सातिशयत्वे चरमव्ययस्य ध्वनिवाभिहितत्वात् । कथङ्कारं ग्रन्थकारैलनेद्वैविध्यमेव पुनरभिहितम् । इति चेत् ! उच्यते । अभिधा तावत्स्वतन्त्रा वृत्तिः, तयैव शब्दस्यार्थः प्रथममुद्भाव्यते । किन्त्वसौ यदि सङ्केतितः । अतः सङ्केतितार्थोद्भावनानन्तरं तस्यां विरतायां तन्मात्रावष्टम्भा तद्वाधस्थले लक्षणा समुदयते। चन्द्रस्य सूर्यप्रकाशमात्रावष्टम्भत्वेऽपि सूर्यस्यैव प्रकाशबाधे यथा सम्भवस्तथातस्या अपीति । ताभ्यामप्येवं प्रत्येक शब्दार्थ उद्भाव्यते, न पुनर्वाक्यार्थतात्पर्यमिति तात्पर्याऽऽख्याया वृत्तेरवतारः । अथ व्यञ्जना तासु विरतासु तासां पुनर्व्यापाराभावेऽपि यः कश्चित्सचमत्कारोऽर्थः सहृदयहृदयमात्रसाक्षिकोऽवतारोन्मुखोऽवतिष्ठते तन्मात्रोपजीव्या, पामरैः प्रत्याख्याताऽपि सहृदयैरभिनन्दितोन्मोदते । अखौ च न केवलं शब्दशक्तिरर्थशक्तिरेव वा किन्तु प्रकृतिप्रत्ययादीनामपि शक्तिः । किन्त्वसौ क्वचिदभिधेया प्रतिपाद्यस्य