________________
परिच्छेदः ।
रुचिराख्यया व्याख्यया समेतः। वाच्यात् । अत्रापि वाध्यपदं लक्ष्यपूर्वव्यङ्गयार्थयोरप्युपप्राहकम् । तथा च वाच्यार्थलक्ष्यार्थपूर्वव्यङ्गयार्थापे क्षयेत्यर्थः । अधिकचमत्कारिणि । अधिकं स्फुटं सातिशयं वा चमत्कारीति तस्मिन् । यद्यपि गुणीभूताभ्यां शब्दा
भ्यामभिव्यज्यमानस्यार्थस्य प्रायः सर्वत्रैव चारुत्वमवगम्यते तथाऽपि तत् कचित् प्रहेलिकादौ व्यभिचरति, क्वचिच्च तत्साधारण्यम् , न ततस्तत्तथात्वमात्रे काव्यत्वोत्तमत्वं सङ्गच्छते । इत्येव 'अधिकचमत्कारिणी'त्युक्तम् । व्यङ्गयार्थ व्यङ्गयोऽसावर्थस्तस्मिन् । व्यङ्गयो व्यञ्जनया बोध्यः । पूर्वव्यङ्गयार्थापेक्षया यत्राधिकचमत्कारी चरमो व्यङ्गयार्थस्तत्र । ध्वन्यते स्फुटं सातिशयमभिव्यज्यते । अस्मिन् । 'भावोऽर्थो वे'ति शेषः ।' इति। व्युत्पत्त्या। 'हेतौ' ।२।३।२३॥ इति तृतीया :। तथा च-इत्याकारव्युत्पत्तिहेतोरित्यर्थः । ध्वनिः । नाम प्रसिद्धम् । उत्तमम् । निरवद्यत्वात् कवितापरिपाकनिकषभूतत्वाच्च सहृदयानां नितरां दयितमित्यर्थः । वाच्यार्थापेक्षया लक्ष्यार्थापेक्षया वा पूर्वव्यङ्गयार्थापेक्षया वाऽतिशयितचमत्कारे व्यङ्गयार्थे समुदीयमाने ध्वनिरिति व्यपदेशाहमुत्तमं काव्यमिति भावः । यत्तूक्तं ध्वन्याचार्य:-यत्रार्थः शब्दो वा, तमुपसर्जनीकृतस्वार्थों । व्यक्तः काव्यविशेषः स ध्वनिरिति सूरिभिः कथितः ॥' इति । तत्र 'त'मिति 'चमत्कार'मिति, 'व्यङ्क्तः' इति च 'स्फुटं ध्वनतः' इति 'काव्यविशेषः' इति च 'उत्तमसः कान्यभेदः' इति । यद्यप्येवं 'काव्यस्यात्मा ध्वनि रिति ध्वनिमात्रस्य काव्यात्मत्वमङ्गीकुर्वतां तेषां नये 'काव्यविशेष'इत्यभिधानं विरुध्यते। तथाऽपि-चमत्कारसाधारण्येन ध्वनिमात्रस्य काव्यात्मत्वाङ्गीकारेऽपि तदतिशायितत्वेन तस्यैवास्योत्तमत्वमनवद्यम् । अत एव-ध्व. निप्राधान्येन काव्यस्य ध्वनि रित्येव व्यपदेशः स्वीकृतः । अन्यथा 'ध्वनिम' दित्येवाभिहितं स्यात् । एतेन ध्वनेश्वमत्कारातिशयशालित्वे काव्योत्तमत्वाङ्गीकारेण चमत्कारसाधारण्ये काव्यस्यापि साधारण्य, चमत्कारस्य कथञ्चित्सम्भवे कथञ्चिद् वा काव्यत्वचमत्काराभासे काव्याभासः, चमत्कारस्य सर्वथा सम्भवाभावे काव्यस्यापि सर्वथा सम्भवाभाव एवेति स्फुटं सूचितं भवति । शब्दार्थयोश्चमत्कारतारताम्येन काव्यस्यापि तारतम्यमिति स एव जीवातुः काव्यस्वस्येति सिद्धान्तवादे सर्वेषां प्राचामर्वाचांच मतानि तानि लक्षणानि च भवन्त्योतप्रोतत्वेनावस्थितानीति । 'काव्यस्ये ति 'राहोः शिरः' इतिवदौपचारिका षष्ठी। नन्वेवं भवतु नाम वाक्यचमत्कारतारतम्यभेदेन काव्यत्वस्यापि तारतम्यव्यवस्था, किन्तु ग्रन्थकृतां का गतिः । उत्तममध्यमसञौ द्वौ भेदाविति तैर्निरूपितत्वात् । इति चेत् ! उच्यते। प्रथमतस्तु उत्तममध्यमत्वप्रयुक्तकाव्यद्वैविध्याभिधानमेव, अथ यत् काव्यस्यावरत्वं तदप्युत्तमत्वादप्युत्तमत्वं च न निवर्त्तयितुमीशः । प्रत्युत तस्य तथा समर्थयितुं विहितावष्टम्भवम् । यत्प्रत्यभिधातुं किञ्चित् प्रयतेवहि, पुनस्तत्केवलं रसस्य स्फुट प्रतीत्यनुबन्धि । यावदुत्तमत्वं मध्यमत्वमपि वा तावदेव स्फुटं रसस्य प्रतीतिरित्यभिप्रायमूलमिति गृहाण । कथमन्यथा विभिन्नरूपचमत्कारावस्थिकध्वनिप्रपञ्चस्थ काव्यात्मत्वाङ्गीकारः, कथं वा 'रस्यते इति रसः ।' इति .. भावतदाभासादयोऽपि...,इत्यभिहितं सङ्गच्छेत । अत एवोक्तं रसगङ्गाधरकारैः-'तच्चोत्तमोत्तमोत्तममध्यमाधमभेदाच्चतुर्धा । शब्दार्थों यत्र गुणीभावितात्मानौ कमप्यर्थमभिव्यक्तस्तदाद्यम् । ....तारतम्यस्य स्फुटमुपलब्धः । कोह्येवं सहदयः सन् विमिर्गतं मानदमात्ममन्दिरात ! 'सच्छिन्नमलः क्षतजेन रेणः' इत्यादिभिः काव्यैः स्वच्छन्दोच्छलद ...' इत्यादीनां पामरलाध्यानामविशेषं ब्रूयात् । सत्यपि तारतम्ये यद्यकत्वं कस्तर्हि ध्वनिगुणीभूतयोरीषदन्तरयोविभिन्नभेदत्वे दुराग्रहः । यत्र च शब्दार्थचमत्कृत्योरैकाधिकरण्यं तत्र तयोर्गुणप्रधानभावं पर्यालोच्य यथालक्षणं व्यवहर्तव्यम् । समप्राधान्ये तु मध्यमतैवै'ति । यत्तुक्तं ध्वन्याचायः-'यत्रार्थः शब्दो वा ... यत्रार्थो वाच्यविशेषः, वाचकविशेषः शब्दो वा..' इति । तत्र वाचकवाच्यरूपशब्दार्थाभिधानं तत्प्राधान्याभिप्रायेणैव, न तु लाक्षणिकव्यजकलक्ष्यव्यङ्गयव्यावृत्तिपरकत्वेन । कथमन्यथा-अविवक्षितवाच्यत्वे ध्वन्यवतारः सम्भवेत् । वाचकवाच्ययोस्तदानीं स्थगितप्रायत्वात् । उदाहरणं च तत्र'सुर्वणपुष्पां पृथिवीं चिन्वन्ति पुरुषास्त्रयः । शूरश्च कृतविद्यश्च यश्च जानाति सेवितुम् ॥' इत्याद्येव । कथं पुनर्वा'उअ णिश्चलणिप्पंदा भिसिणीपत्तम्मि रेहइ वलाआ । णिम्मलमरगअभाअणपारहिआ संखसुत्तिव्ये ॥ इत्याद्युहारणान्यगतिकानि न स्युः । अत्र हि व्यङ्गयावतारस्य स्फुटं रमणीयत्वम् । तथाहि-'निश्चला निष्पन्दा च पलाक
१ 'पश्य निश्चलनिष्पन्दा बिसिनीपत्रे राजते वलाका । निर्मलमरकतभाजनपरिस्थिता शङ्खशुक्तिरिव ॥' इति संस्कृतम् । पद्यमिदं च हालकविवरविरचितायाः श्रीशालिवाहनसप्तशत्या गाभाकोषस्य प्रथमशतकस्य चतुर्थम् ।