________________
.
साहित्यदर्पणः।
[बतुथ:
२८२ वाच्यातिशायिनिव्यङ्गये ध्वनिस्तत् काव्यमुत्तमम् ॥ १९८॥ वाच्यादधिकचमत्कारिणि व्यङ्गयार्थे ध्वन्यतेऽस्मिन्निति व्युत्पत्त्या ध्वनिर्नामोत्तमं काव्यम्।
गादभिव्यज्यमानेन विप्रलम्भेन ध्वनित्वं को निवारयेदिति शङ्कयम् । कवितापरिपाकस्य वाच्यसिद्धयाभूते तादृशे व्यङ्गय एव विश्रान्तेः । तथा कथमपि ध्वनित्वोज्जीवनेऽपि तादृशचमत्कारस्य तत्र पुनरप्युदयाभावात् ।
ननु को नाम काव्यत्वोत्कर्षसमर्पको ध्वनिरिति पृच्छन्तं प्रत्याह-तत्रेत्यादि । तत्र तयोर्मध्ये इत्यर्थः । ध्वनिगुणीभूतव्यङ्गययोर्मध्ये इति भावः ।
२८२ वाच्यातिशायिनि । वाच्यपदं लक्ष्यव्यङ्गययोरप्युपग्राहकम् । व्यङ्गयशब्देनापि पौर्व एव व्यङ्गयो बोध्यः । तथा च-वाच्यमतिशयितुं शीलमस्यास्तीति तस्मिन् । वाच्यलक्ष्यपूर्वव्यङ्गयार्थापेक्षया सातिशयं चमत्कारशालिनीत्यर्थः । क्वचिद्वाच्यापेक्षया वापि लक्ष्यापेक्षया कापि पुनः पूर्वव्यायापेक्षया स्फुटं सातिशयं चमत्कारसम्भारभाजनभूत इति भावः । अत्र 'स्फुट'मिति 'अतिप्रकट' मित्यर्थकपरं नावगन्तव्यम्, किन्तु 'असंशय' मित्यर्थपरम् । अतिप्रस्फुटत्वे चमत्कारस्यैव निवृत्तिप्रसङ्गात् । 'सुप्यजातौ णिनिस्ताच्छील्ये। ३।२।७८' इति णिनिः । यत्र तु 'वाच्यातिशायिनीति पाठः । तत्र, वाच्यादत्तिशायीति समासः पुनयोगविभागात् । व्यङ्ये व्यञ्जनया बोध्येऽर्थे चमत्कारे वा। सतीति शेषः । ध्वनिः। 'ध्वनि'रिति व्यपदेशः । तत्तस्मात्कारणादित्यर्थः । काव्यम। पूर्वोक्तलक्षणाक्रान्तं सदिति शेषः । पूर्वोक्तं च लक्षणं 'वाक्यं रसात्मकं काव्य' मित्येव । तथा च-रसात्मकवाक्यस्वरूपं काव्यं ध्वनिविशिष्टत्वेन ध्वनिरिति व्यपदिश्यमानमित्यर्थः । 'तत्काव्य'मिति समस्ते पाठे तु 'तस्य ध्वनेः काव्य' मित्यर्थः । उत्तमम् । श्रेष्ठमित्यर्थः । वस्तुतया सहृदयहृदयदयितमिति भावः । एवं च-गुणीभूतवाचकादिशब्दवाच्याद्यर्थसत्त्वे सति कस्मिन्नपि सहृदयवास्तविकदयिते कस्मिन्नपि चमत्कारभूमावर्थे च परिस्फुरति रसात्मकवाक्यस्वरूपं काव्यं ध्वनिप्राधान्येन 'ध्वनि' रित्येव व्यपदिश्यमानमुत्तममिति निष्कर्षः । कस्मिन्नपि सहृदयहृदयेतरभाग्यविषये। तथोक्तं भगवता-'कश्चिन्मां वेत्ति तत्त्वतः ।' इति । यद्वा-'रस्यते इति रसः' इति पूर्वोक्त निर्वचनवशाचमत्कारापरपर्याय एवं रसः । तस्य च सहदयदयितत्वे स्वाभाविकेऽपि वाच्याद्यतिशायित्वे सुतरामिति ध्वनिरेव काव्यं, तच्चोत्तममिति बोध्यम् । अस्मिन् पक्षे व्यङ्गयस्य वाच्याद्यतिशायित्वे स्वतः सम्भवति रसात्मकत्वोत्कर्षः, न तदर्थं पूर्वोक्तलक्षणशवलताभ्युपगमप्रयास इति लाघवम् । एवमुभयथैव प्रहेलिकादिषु यथा कथञ्चिद्ध्वनिमतीष्वपि चमत्कारानुदयान काव्यत्वं, ध्वनिकाराणामपि मते ध्वनीनां चमत्कारशालिनामेव काव्यात्मकत्वाङ्गीकारस्य स्फुटं तत्रत्यग्रन्थपर्यालोचनया प्रतीतेः । चमत्कारमन्तरा काव्यत्वमपि नोदयत इति हि निर्विवादम् । अथैवं 'शयिता सविधे' इति निरुक्तपण्डितरामोदाहरणे तथा कथमपि ध्वनिप्रसङ्गावतारेऽपि ग्राम्यताप्राधान्यवशाच्चमत्कारविशेषस्य स्थगनानोत्तमोत्तमत्वम् । किन्तु काव्यत्वमाग्रम् । नन 'वाक्यं रसात्मकं काव्य' मित्यत्र रसपदं शृङ्गारादीनामेव ग्राहकमवगन्तव्यम् , 'रसखरूपं निरूपयिष्यामः' इति पुरस्तादेव तत्र तत्रभवता ग्रन्थकृता प्रतिज्ञातत्वात् । इति चेन्न । तदनन्तरं पुनस्तेनैव 'रस्यते इति रसः । इति व्यत्पत्तियोगाद भावतदाभासादयोऽपि गृह्यन्ते' इत्यस्याप्यभिहितत्वात् । न च तावता 'रसभावरसाभासदिभावाभासादीनामेव ग्रहणमुपपद्यते न पुनर्वस्तुध्वन्यादीनामपी' ति वाच्यम् । तस्या व्युत्पत्तेरादिपदार्थस्य च विपुलोदरत्वेन प्रतिहतत्वासम्भवेन च तत्र तत्र सर्वत्र चमत्कारशालिनि वाक्ये सुकुचितप्रसारत्वाभावात् । अत एव तृतीये परिच्छेदे रसस्वरूपनिरूपणानन्तरं 'चमत्कारप्राण' इति विवरणावसरे 'चमत्कारश्चित्तविस्ताररूपो विस्मयापरपर्यायः । तत्प्राणत्वं च .. तदाह... रसे सारश्चमत्कारः सर्वत्राप्यनुभूयते । तचमत्कारसारत्वे सर्वत्राप्यद्भतो रसः ॥...'इत्युक्तं तत्रभवता तेनैव । रसाना तथा निरूपणं तु तत्र स्फुटं चमत्कारप्रतीत्यनुवन्धीति बोध्यम् । तत एव रसस्याभूतत्वोद्धोषणमपि सङ्गच्छते । एतेन 'काव्यात्मभूतस्य ध्वन देनैव ध्वनिकाव्यप्रभेदानाह-भेदाविति । इह यद्यपि वस्त्वलङ्कारध्वनीनां काव्यात्मत्वं नाङ्गीकृतं तथाऽपि रसादिप्रकर्षकत्वेनैव तेषां काव्यात्मत्वमित्यभिप्रायेण तत्साधारणं ध्वनिप्रभेदनिरूपणं प्रक्रमते इति भावः । इति तकवागीशपादानां समाधान नातिरुचिरमित्यवगम्यम् ॥१॥
अथ कारिकाया निर्गलितमर्थ समासेनाह-वाच्यादित्यादिना ।