________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। इत्यत्र वितौत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां शबलता।
इति साहित्यदर्पणे रसादिनिरूपणो नाम तृतीयः परिच्छेदः ॥
धास्यति यःकिल पास्यति स एव धन्य इति भावः। 'धेरै पान' इत्यस्य लुटि प्रथमैकवचनमिदम् । स्वं परित्यज्य गच्छन्ती मुवंशीमनुगच्छतः पुरूरवसः प्रलापोऽयम् । शार्दूलविक्रीडितं वृत्तम् , तलक्ष्म यथोक्तम्-"सूर्य्याश्वैर्मसजस्तत: सगुरवः शार्दूलविक्रीडितम् ।” इति ॥"
लक्ष्य दर्शयति-इत्यत्रेत्यादिना ।
इत्यत्रेत्यस्मिन्नुदाहृते पद्य इति यावत् । वितीत्सुक्यमतिस्मरणशङ्कादैन्यधृतिचिन्तानां 'सञ्चारिणा' मिति शेषः । शबलता मिश्रणम् । अयम्भावः-प्रथम क्वद्वयेन शान्तसञ्चारी वितर्कः, तस्य च 'भूयोऽपी'ति व्यङ्गथेन शृङ्गारसञ्चारिणौत्सुक्येन बाधः, 'दोषाणां प्रशमायें'त्यनेन शान्तसञ्चारिणी मतिस्तया चौत्सुक्यस्य बाधः, 'कोपेऽपि' इत्यनेन व्यङ्गया शृङ्गारिसञ्चारिभावरूपा, तया च मतेर्बाधः । 'किं वक्ष्यन्ती'त्यनेन शान्तसञ्चारिण्या व्यज्यमानया शङ्कया स्मृतेर्बाधः । ‘स्वप्नेऽपी'ति व्यङ्गयेन दैन्येन पुनः शङ्काया बाधः । 'चेतः !' इति शान्तसञ्चारिण्या धृत्या तस्य बाधः । 'कः खलु' इत्यनेन शृङ्गारसञ्चारचिन्तया शान्तसञ्चारिण्या धृतेर्बाधः; इत्येवं पूर्वपूर्वोपमर्दैन परपरोदनैयेकस्मिन्नेव काव्ये वितर्कादीनां शाबल्यम् । इति । यथा वा-"पश्येत् कश्चिन्चल चपल रे, का त्वरा,ऽहं कुमारी, हस्तालम्बं वितर हहहा व्युत्क्रमः कासि यासि । इत्थं पृथ्वीपरिबृढ ! भवद्विद्विषोऽरण्यवृत्तेः कन्या कञ्चित् फलकिसलयान्याददानाऽभिधत्ते ॥" इत्यत्र शङ्काऽसूयाधुतिस्मृतिश्रमदैन्यविबोधौत्सुक्यानांशावल्यम् । पूर्वपूर्वोपमर्दमन्तराऽपि शाबल्यम् ।
प्राकरणसमाप्ति सूचयति-इतीत्यादिना। .
इत्येवं समाप्त इत्यर्थः । साहित्यदर्पणे । रसादिनिरूपणो । रसभावादेर्निरूपणं यत्र तादृशस्तथोक्तः । नाम । तृतीयः । परिच्छेदः । शुभम्भूयात् ।।
सहृदयैर्विहितानुभवं सुधामपि जयन्तमलौकिकवैभवम् ।। सकलवृत्तिलयेऽपि विकाशिनं पदमुदारमुदाश्रयमाश्रये ॥ १॥ इति श्रीभारद्वाजगोत्रप्रभूतेन सहृदयशिरोमणि श्रीशिवनाथसूनुना श्रीशिवदत्तकविरत्नेन
रचितायां रुचिराख्यायां साहित्यदर्पणव्याख्यायां तृतीयः परिच्छेदः ॥