________________
३०२
[तृतीयः
साहित्यदर्पणः । इत्यत्र विषादस्योदयः। "नयनयुगासेचनकं मानसवृत्त्याऽपि दुष्प्रापम् । रूपमिदं मदिराक्ष्या मदयति हृदयं दुनोति च मे ॥१७०॥" इत्यत्र हर्षविषादयोः सन्धिः । .. 'वाकार्य ! शशलक्ष्मणः क्व च कुलं ! भूयोऽपि दृश्येत सा, दोषाणां प्रशमाय नः श्रुतमहो कोपेऽपि कान्तं मुखम् । कि वक्ष्यन्त्यपकल्मषाः कृतधियः, स्वप्नेऽपि सा दुर्लभा, चेतः स्वास्थ्यमुपेहि, कः खलु युवा धन्योऽधर धास्यति ॥१७१॥'
'कान्तयेति शेषः । नयनसलिलच्छन्नाऽश्रुपूर्णा । दृष्टिः । सखीषु । निवेशिता 'स्वविषादप्रत्याययितु' मिति शेषः । अमरुशतकस्येदं पद्यम् । हरिणी छन्दः। यथोक्तम्-'रसयुगहयैन्सौ म्रौ म्लौगो यदा हरिणी तदा।' इति॥१६॥'
अत्र कस्य भावस्योदय इत्याशवायामुत्तरयति-इत्यत्रेत्यादिना ।
इत्यत्रेत्यस्मिन्नुदाहृते पद्य इति भावः । विषादस्य तदाख्यस्य भावस्य । उदयः। अयम्भावः-हृदये हस्तनि' धानेन 'हृदयं विदीयंत' इति सूच्यमानो विषादः साश्रुद्दशाऽऽविर्भूतः प्रतिभासते । इति । यथा वा-“वीक्ष्य वक्षसि विपक्षकामिनी हारलक्ष्म दयितस्य भामिनी। अंसदेशवलयीकृतां क्षणादाचकर्ष निजबाहुवल्लरीम् ॥” इत्यत्र भुजाकर्षणेन रोषस्याविर्भावः ।
भावसन्धिमुदाहरति-"नयन..' इत्यादौ।
“नयनयुगासेचनकं नयनयोयुगं द्वन्द्वं तस्यासेचनकमतिसन्तृप्तिकरमिति तथोक्तम् । “तदासेचनकं तप्ते - स्त्यन्तो यस्य दर्शनात् ।" इत्यमरः । मानसवृत्त्या चित्तवृत्त्या । अपि 'किं पुनर्वाचः' इति शेषः । दुष्प्रापम् । इदम् । मदिराक्ष्या मदिरस्येव खजनस्येवाक्षिणी यस्यास्तस्याः । 'मदिरः खजनः'इति तर्कवागीशाः । मदिरे उपचारान्मत्ते अक्षिणी यस्याः तस्या इति वा । अत्र 'सौष्ठवेनापरित्यक्ता स्मेरापानमनोहरा । वेपमानान्तरादृष्टिर्मदिरा परिकीर्तिता ॥' इत्युक्तो मदिराशब्दार्थस्तु न युक्तः, विशेषणविशेष्यभावानुपपत्तेः । 'मधुराक्ष्या'इति पाठान्तरम् । रूपम् । मे मम । हृदयमन्तःकरणम् । मदयति आनन्दयति 'नयनयुगासेचनकत्वात्' इति शेषः । दुनोति व्यथयति सन्तापयतीति यावत् 'मानसवृत्त्याऽपि दुष्प्राप्यत्वा'दिति शेषः । च । अत्रोद्गीतिश्छन्दः, यथोक्तम्-'आर्य्याद्वितीयकेऽऽदै यद्गदितं लक्षणं तत्स्यात् । यद्युभयोरपि दलयोरुपगीतिं तां मुनिर्भूते ॥' इति ॥१७०॥"
लक्ष्यं दर्शयति-इत्यत्रेत्यादिना ।
इत्यत्रेयस्मिन्नुदाहृते पद्य इति यावत् । हर्षविषादयोः । सन्धिरेककालावच्छेदेनैकत्यैव कान्तारूपस्यात्यन्तसन्तर्पकत्वेन दुष्प्राप्यत्वेन चोपस्थानमिति भावः । यथा वा-'यौवनोद्गमनितान्तशङ्किताः शीलशौर्यबहुकान्तिलोभिताः ॥ सङ्कुचन्ति विकसन्ति राघवे जानकीनयनवारिजश्रियः ॥' इत्यत्र वीडोत्सुक्ययोः सन्धिः ।
भावशबलतामुदाहरति-"क्वाकार्य..” इत्यादिना।..
"अकार्य गर्दभीमनु गर्दभस्येव तदनुधावनरूपमकरणीयस्यार्थस्य करणमिति भावः । व? शशलक्ष्मणः चन्द्रस्य । च । कुलं वंशः । क ? चन्द्रवंशे प्रभूतस्य ममैवमकायें नोचितमिति भावः । सोर्वशी । भूयः। अपि । दृश्येत । अतः क्षणमुत्सुकेनापि मया विश्रान्तव्यम् । अहो दोषाणां प्रियविरहादिना विषादादीनामित्यर्थः । प्रशमाय । नोऽस्माकम् । श्रुतं शास्त्रं, तबैर्य्यमवलम्बनीयमिति भावः । अहो । कोपे क्रोधावसरे क्रोधे वा जाते इत्यर्थः । अपि । कान्तं कमनीयम् । मुखं 'तस्या' इति शेषः । अपकल्मषा अपगतानि कल्मषाणि पापानि येषां ते पापशून्यतयैवंविधदुःखभाजनतामप्राप्ता इति भावः । अत एव-कृतधियः कृताऽनुद्विग्ना धीर्येषां ते तथोक्ताः । किम् । वक्ष्यन्ति ? सा उर्वशीत्यर्थः । स्वप्ने । अपि किं पुनरवस्थान्तर इति शेषः । दुर्लभाऽप्राप्येति भावः । हे चेतः! स्वास्थ्यम् । उपेहि । कः कोऽपि । खल नूनम् । युवा। धन्यः 'ननु अहमिवाधन्य' इति शेषः । अधरम् ।