________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः ।
३०१
क्रमेण यथा'सुतनु ! जहिहि कोपं पश्य पादानतं मां न खलु तव कदाचित् कोप एवंविधोऽभूत् । इात निगदात नाथे तिर्यगामीलिताक्ष्या नयनजलमनल्पं मुक्तमुक्तं न किञ्चित् ॥" इत्यत्र हि बाष्पमोचनेन ईष्याऽऽख्यसञ्चारिभावस्य शमः। "चरणपतनप्रत्याख्यानात्प्रसादपराङ्मुखे निभृतकितवाचारेत्युक्त्वा रुषा परुषीकृते । ब्रजति रमणे निःश्वस्योच्चैः स्तनस्थितहस्तया नयनसलिलच्छन्ना दृष्टिः सखीषु निवेशिता॥"
मिश्रणं पुनः उत्तरोत्तरवाधकसामग्रीमहिम्ना पूर्वपूर्वोपमर्दैन अन्यथा वा परपदोदयः, उपमर्दनीयोपमर्दकतामापन्नानामुदासीनानां वा भावानां सङ्घर्ष इति यावत् । क्रमात निर्देशानुसारेण । भावस्य । अत्र जातावेकवचनम् । शान्तिः । उदयः। सन्धिरेककालं द्वयोराखादः । तथा-शबलता। पूर्वपूर्वोपमर्दैन परपराविर्भावः । मता । यथाः-"यद्यपि शान्तेर्भावान्तरोदय एव चमत्कारित्वम् उदयस्य च शान्तिपूर्वकत्व एव चमत्कारित्वम्, अत एव भावाद् भावोदयः पृथग्गणितः, एवं च एतद्भेदद्वये शबलता आवश्यकी, तथाऽपि तदनुभावाद्यनुपादानादनाखाद्यत्वाच न सा, पूर्वपूर्वोपमर्दैन परोदयस्याखाद्यत्वे एव तत्स्वीकारात् । तदेतदुक्तं सइक्षेपेण काव्यप्रदीपे-“न च भावस्य शबलतायाः शान्त्युदयाभ्यामविशेषः शान्तेरुदयस्य वा एकैकस्याखादे तद्भेदद्वयोपगमात् ।" इति । एवं शान्त्युदयावुत्कालावच्छिन्नावेव चमत्कारिणाविति बोध्यम् । स्थायिनां त्वेते ( शान्त्यादयः ) न सम्भवति, तेषां सन्ततमविच्छेदात् ।" इति ॥१९॥ • उदाहर्तुमुपाक्रमते-क्रमेणेत्यादिना।
क्रमेण निर्देशानुसारेणेत्यर्थः । यथा-'प्रथमं शान्तिः' इति शेषः । “सुतनु !.." इत्यादौ ।
"हे सुतनु सुन्दरि! कोपं मानं परप्रसङ्गावगमजनितामीर्ष्यामिति यावत् । जहिहि परित्यज । “ओहाक। त्यागे" इत्यस्य लोटि मध्यमवचनस्येदं रूपम् । माम 'तवापराधिन'मिति शेषः । पादानतं पादयोरानतः प्रणतः तम् । पश्य दृष्टिविषयं कुरु । प्रेम्णा कृतार्थयेति भावः। एवंविधः यादृशः साम्प्रतं तादृश इत्यर्थः । कोपः । कदाचित कस्मिन्नपि प्राक्समय इति भावः । तव । न। खलु । अभूत् । इत्येवम् । निगदति निवेदयतीति भावः । नाथे प्राणनाथे सतीत्यर्थः । तिर्यक । क्रियाविशेषणमिदम् । आमीलिताक्ष्या आमीलिते अक्षिणी नेत्रे यस्या यया वा
ति तथोक्तया । 'तया' इति शेषः । अनल्पं भूरि । क्रियाविशेषणमिदम् । नयनजलमश्रु । मुक्तम् । किन्तुन नैव । किश्चित् । उक्तं वचसा प्रत्युत्तरं दातुं प्रभूतमिति भावः । अत्र 'कोप' इति द्विरुक्तमपि न पुनरुक्तत्वमावहति, प्रत्युत "उदेति सविता ताम्रस्ताम्रमेवास्तमेति च ।" इत्यत्रेव गुणत्वम् , तस्यैव प्रत्यायकत्वात् । अमरुशतकस्येदं पद्यम् । मालिनीछन्दः, यथोक्तम्-'ननमयययुतेयं मालिनी भोगिलोकैः ।' इति ॥ १६८ ॥"
अत्र कस्य भावस्य कथं शान्तिारत्याशङ्कयोत्तरयति- इत्यत्र हीत्यादिना।
इत्यत्रेयस्मिन् उदाहृते पद्य इत्यर्थः । हि । बाष्पमोचनेन 'लिङ्गेने' ति शेषः । ईर्ष्याख्यासश्चारिभावस्य । शमः शान्तिः । 'प्रतीयत' इति शेषः । अयम्भावः-ईय॑या हृदयकाठिन्यं, तच्छान्तौ च पूर्ववत् हृदयस्य सारल्य, तच्चाश्रुपातन प्रतीयते । इति कान्तस्य कान्ताचरणयो: पतनरूपेण सामग्रीमहिम्नाऽत्रेयाभावस्य शान्तिः । इति । यथा चा-'अधुना तु निधेहि दृशं बाले ! सविधे न ते वयस्याऽपि । इति मुहरनुनयमानं कान्तमपश्यन्मृगेक्षणा किमपि ॥' इत्यत्र व्रीडायाः शान्तिः ।
भावोदयमुदाहरति-"चरण.." इत्यादौ ।
"चरणपतनप्रत्याख्यानाचरणयोः पतनमपराधक्षमापनार्थं नमनं तस्य प्रत्याख्यानं सावज्ञं निषेधस्तस्मात्तलब्ध्वा । प्रसादपराङ्मुखे प्रसादादनुनयात्पराङ्मुखो विरतस्तस्मिंस्तथाविधे । हे निभृतकितवाचार निभृतो मूढोऽत्यन्तं वा कितवाचारः कपटिव्यवहारो यस्य तत्सम्बुद्धौ तथोक्त! इत्येवम् । उक्त्वा । रुषा कोपेन । परुषीकृते कठोरतां नीते । अत एव-व्रजति खसन्निधिमपहाय गन्तुमुद्यत एवेत्यर्थः । रमणे प्रिये । 'सती'ति शेषः । उच्चैः । निःश्वस्य । स्तनस्थितहस्तया स्तनयोरुपचारात् (ताम्यतः) हृदयस्योपरि स्थितो हस्तो यस्यास्तया तथोक्तया।