________________
साहित्यदर्पणः।
[तृतीयः
एवमन्यत्र
___ २७९ भावाभासो लज्जाऽऽदिके तु वेश्या ऽदिविषये स्यात् ॥ १९६ ॥ स्पष्टम्
२८० भावस्य शान्तावुदये सन्धिमिश्रणयोः क्रमात् ।
भावस्य शान्तिरुदयः सन्धिः शबलता मता ॥ १९७ ॥
हि यतः । स्त्रीनीचविषयं स्त्रीनीचौ विषयावालम्बनं यस्य तत्तथोक्तम् । एव'न तु देवार्यादिविषय'मिति शेषः । भयम् । रसप्रकृतिः रसस्य प्रकृतिः कारणं तत्खरूपभूतमिति यावत् । 'प्रकृतिर्योनिलिङ्गे चे'त्यमरः । अयम्भावः-स्त्रीनीचालम्बनमेव भयं भयानकस्य स्थायी भाव इति।
एवं बीभत्सादावपि यथायथं स्वयमनौचित्यमवगम्योदाहरणान्तराण्यन्वेषणीयानीत्याह-एवमित्यादिना।
एवं निर्दिष्टेनैव नयेनेत्यर्थः । अन्यत्र बीभत्सादा विति शेषः । अयम्भावः-बीभत्साद्भुतकरुणवत्सलानामपि रसानामेवमेव खयं यत्रयत्रानौचित्यं स्यात्तत्र सर्वत्रैव तस्यतस्याभासः । एतत्तु दिनिदर्शनमात्रम्, अत एव-एतेषां देशकालावस्थाऽऽदिनौचित्यानौचित्ये प्रतीयेते । इति । तत्र बीभत्साभासो यथा-"वैदिकोऽयं क्रमो हन्त ! सौनकाचारतोऽधिकः । नान्यत्रार्द्धमृतं कृत्वा शनैरेवं निकृन्तनम् ॥" "शिरःप्रततयः क्वचित् क्वचिदुरांसि दोषः क्वचित्, क्वचिन्मनुजपुङ्गवा गजतुरङ्गमाश्च क्वचित् । किमद्य बत पाप्मना विहितमत्र घिडमामिमं न कस्य हृदि वेदना मयि च हिंस्रधीः स्यान्न हा ॥' इति । अमू हि वैदिकवीरयोरुक्की अद्भुताभासो यथा-"चित्रं महानेष तवावतारः क्व कान्तिरेषाऽभिनवैव भङ्गिः । लोकोत्तरं धैर्य्यमहो प्रभावः काऽप्याकृतिर्नूतन एष सर्गः ॥” इत्यादौ । करुणाभासो यथा-"मृत्कुम्भवालुकारन्ध्रपिधानरचनाऽर्थिना । दक्षिणावर्त्तशङ्खोऽयं हन्त चूर्णीकृतो मया ॥” इत्यादौ । इयं यदि भृते लक्ष्मणे रामस्योक्तिः । वत्सलाभासो यथा-“अम्बां तां जनकं तं वा कदा सुस्मितभाषिणम् । कदा मृषन्भविष्यामि सुसमाहितमानसः ॥” अत्र हि भक्केः साम्राज्येन वत्सलताया अपाकृतत्वम् ।
एवं रसाभासं लक्ष्यलक्षणाभ्यां व्यवस्थाप्य भावाभासं व्यवस्थापयन् तत्खरूपं दर्शयति-२७९ भावाभासइत्यादिना।
. २७९ लज्जाऽऽदिके । आदिना भयादीनां ग्रहणम् ।तु पुनः । वेश्याऽदिविषये । आदिनाऽननुरागिण्यादीनां ग्रहणम् । सतिसप्तमीयम् । भावाभासः। स्यात् ॥ १९६॥
अयम्भावः-लज्जा "रतमस्यां सुदुर्लभम्" इत्युक्तदिशा च रतिर्भयं चेत्यादयो भावा वेश्याऽऽदौ आभासमात्रात्मानः । वीरस्य च सन्त्रासः, कुपितस्य धृतिः, मुनिप्रभृतीनामुद्वेगादयश्च न खरूपसन्तः । औचित्यभङ्गे ह्यनौचित्यस्य साम्राज्यम् , तदेवाभासमूलम् । इति ।
अस्याः कारिकायास्तात्पर्य तदुदाहरणं च किमित्याह-स्पष्टम् । इति । लज्जाऽऽभासो यथा-हास्यार्णवे मृगाङ्कलेखायाः । चिन्ताऽभासो यथा-"राकासुधाकरमुखी तरलायताक्षी सा स्मेरयौवनतरङ्गितविभ्रमाङ्गी । तत् किं करोमि ? विदधे कथमत्र मैत्री? तत्स्वीकृतिव्यतिकरे क इहाभ्युपायः?॥" इयं हि सीतामननुरक्तामपि चिन्तयतो रावणस्योक्तिः । स्मृत्याभासो यथा-"सर्वेपि विस्मृतिपथं विषयाः प्रयाताः, विद्याऽपि खेदकलिता विमुखीबभूव । सा केवलं हारणशावकलोचना मे नैवापयाति हृदयादधिदेवतेव ॥” इयं हि गुरुपुत्र्यां खयमेवानुरागं गतवतः कस्याप्युक्तिः । भामिनीविलासस्येदं पद्यम् । एवमन्यत्र ।
एवं भावाभासं लक्षयित्वा भावशान्त्यादीन् लक्षयति-२८० भावस्येत्यादिना ।
२८० भावस्य निर्वेदादेः सञ्चारिणः । अत्र जातावेकवचनम् , सन्धौ द्वयोः शबलतायां बहूनामुपयोगित्वात् । शान्तौ प्रशमे विरुद्धसामग्रीमहिम्नोत्पत्तिकाल एव विलयावस्थायामिति यावत् । उदये आविर्भावे खानुकूलसामग्री. महिनाऽऽखादावस्थायामिति यावत् । तथा-सन्धिमिश्रणयोः सन्धौ मिश्रणे चेत्यर्थः । तत्र सन्धिः अनुकूलाननुकूलोभयसामग्रीमहिना परस्परं विमर्देऽपि अन्योन्याभिभावनयोग्यत्वेनान्योऽन्यानभिभावेन सामानाधिकरण्यावस्था,