________________
परिच्छेद: ]
•
भयानकाभासो यथा
रुचिराख्यया व्याख्यया समेतः ।
" अशक्नुवन्सोडुमधीरलोचनः सहस्त्ररश्मेदिव यस्य दर्शनम् ।
प्रविश्य हेमाद्रिगुहागृहान्तरं निनाय बिभ्यदिवसानि कौशिकः ॥ १६७ ॥” atatafaषयमेव हि भयं रसप्रकृतिः ।
२९९
हरिं पश्यन्तमनादृत्येत्यर्थः । धृतधनुर्बाणो धृतौ धनुर्बाणौ वा येन तादृशः । धनुश्च वाणश्चेति धनुर्बाणौ, धनुषि व बाण इति धनुर्बाणः । कटुकोक्तिभिः कटुवचनैस्तद्रूपैरनलैरिति यावत् । आध्मात आध्मानं नीतः । असकृत् वारंवारम् । स्वं स्वकीयम् । दोर्विक्रमं दोषोर्भुजयोर्विक्रमः पराक्रमस्तं तथोक्तम् । 'भुजबाहू प्रवेष्टो दो:' इत्यमरः । कीर्त्तयन् | अंसास्फोटपटुरंसयोः स्कन्धयोरास्फोट आस्फालनं तत्र पटुः परस्तं कुर्वन्निति भावः । असौ । अर्जुनः । युधिष्ठिरं तन्नामानमात्मनोऽग्रजम् । हन्तुम् । प्रविष्टः । 'सभा' मिति शेषः । अत्र शार्दूलविक्रीडितं वृत्तम्, तल्लक्षणं चोक्तं यथा-- 'शार्दूलविक्रीडितं मुसो जूसौ तौ गादित्यऋषयः ।' इति ॥ १६६ ॥
अत्रायमभिसन्धिः-कर्णेन पराजितोऽतिखेदितो युधिष्ठिरः कर्णेन युध्यन्तं तं निहन्तुमप्रभवन्तं ' यो मे गाण्डीवं निन्दिष्यति तस्याहं शिरः कायादपहरिष्यामीति प्रतिज्ञावन्तमप्यर्जुनं तस्य गाण्डीवं निन्दन् कटुकोक्ती: श्रावयामास, अथ तां प्रतिज्ञां सत्यां विधित्सुरर्जुनः स्वाग्रजमपि हन्तुं समुद्यतः । इति यद्यपि पुराणेषु नेयमेककालिका, न वेत्थमेव तथाsपि नाटकानुरोधेन किञ्चिदन्यथा कृता कथा । अर्जुनस्य च तथा प्रतिज्ञां स्मरतोऽपि ज्यायसि कोपोऽनुचित इति रौद्राभासः । इति । अथ शान्ताभासो यथा - " अन्त्यज एष इतीमे हन्त यथेष्टं ब्रुवन्तु देहं मे । सन्नहमनुपम एकः शुद्धश्विन्मात्ररूपोऽस्मि ॥” इति, अत्र हि अन्त्यजनिष्ठत्वान्न शमो रसरूपतां प्राप्तः । हास्याभासो यथा - उत्तररामचरिते, " सौधातकिः - हुं वसिहो ! मए उण जाणिदं कोवि वग्घो विअ एसोत्ति... जेण परावडिदेन एव्व सा वराई कविला कल्लाणी बलामोडिअ मडमडाइओ ।" इति । वीराभासो यथा - ' ब्राह्मीं पूजां सर्वथोन्मूल्य सद्यः सर्वान् विप्रान् सत्यमापादये । नाहं वज्रान्नैव कालस्य दण्डान्नो वा किञ्चिदुद्रशूलाद्विभेमि ॥' इति ।
अथ भयानकाभासं समुदाहरति-भयान काभासस्तदाख्यों रस इत्यर्थः । यथा- 'अशक्नुवन्नित्यादौ । "अधीरलोचनो न धीरे लोचने यस्य स तथोक्तः । भयात् 'नेहः कदाचिदायमायाया' दिति परितः सञ्चरन्नेत्र इत्यर्थः । अन्यत्र - अधीर्न धीस्तिर्य्यगधमत्वाद्द्बुद्धिर्यस्य तथोक्तः, अलोचनो न लोचने उपचारात्तत्सामर्थ्य. यस्य तथोक्तः, तथा च- मूढोऽन्धभूतश्चेत्यर्थः । यस्य रावणस्येत्यर्थः । सहस्ररश्मेः सहस्रांशोः सूर्यस्येति यावत् । इव । दर्शनं प्रतापं प्रकाशं वा । सोढुम् । अशक्नुवन् अपारयन्नित्यर्थः । हेमाद्रिगुहागृहान्तरं हेमाद्रिरतिदवीयान् सुमेरुस्तस्य गुहा कन्दरा सैव गृहं तस्यान्तरमवकाशो मध्यमिति यावत् तत् । प्रविश्य । कौशिक इन्द्र उलूको वा । ' महेन्द्रगुग्गुलू लुकव्यालप्राहेषु कौशिकः । ' इत्यमरः । बिभ्यद् भयं दधानः कम्पमान इति यावत् । अत्र' भी भये ' इत्यतः 'लटः शतृशानचावप्रथमासमानाधिकरणे । ३।२।१२४ इति शतरि कृते 'नाभ्यस्ताच्छतुः । ७।१।७८ इति नुमभावः । दिवसानि दिनानि । 'वा तु क्लीबे दिवसवासरौ ।' इत्यमरः । निनाय । उलूकः सूर्यस्य भीत्या गाढान्धकारे गुहायां प्रविश्य दिनान्यपनयति, तथैव शक्रोऽपि यत्पदवाच्यस्य रावणस्य भीत्या हेमाद्रेरन्तः प्रविश्येति भावः । अत्र ' कौशिक' इत्यभिधायाः प्रस्तुतैकगोचरत्वेनोभय श्लेषेऽपि विशेष्यश्लेषासम्भवादुलुकविषयशक्तिमूलो ध्वनि: । ' सहस्ररइमेरि’वेत्युपमानिर्वाहकतया वाघ्यसिद्धयङ्गम् ।' इति मलिनाथाः । शिशुपालबवस्येदं पद्यम् । शुद्धविराट् छन्दः, “जतौ जरौ शुद्धविराडिदं मतम् । " इति च तलक्षणम् ॥१६७॥”
इदम्बोध्यम्-अत्रेन्द्रस्य भयमनुचितं सन्न रसतां प्रतिपन्नः । अत एवाह-स्त्रीनी चेत्यादि ।
'हुं वसिष्ठः ? मया पुनर्ज्ञातं कोऽपि व्याघ्र इवैष इति येन परा पतितेनैव सा वराकी कपिला कल्याणी बलाकृत्य मडमडायिता ।' इति संस्कृतम् ।