________________
२९८
[तृतीयः
साहित्यदर्पणः। .. तिर्यग्गतत्वे यथा"मल्लीमतल्लीषु वनान्तरेषु वल्यन्तरे वल्लभमाह्वयन्ती । चश्चद्धिपश्चीकलनादभङ्गीसङ्गीतमङ्गीकुरुते स्म भृङ्गी ॥१६५॥" आदिशब्दात्तापसादयः। रौद्राभासो यथा
"रक्तोत्फुल्लविशाललोलनयनः कम्पोत्तराङ्गोमुहुमुक्त्वाकर्णमपेतभीधृतधनुर्वाणो हरेः पश्यतः । आध्मातः कटुकोक्तिभिः स्वमसकृद्दौर्विक्रम कीर्तयसास्फोटपटुयुधिष्ठिरमसौ हन्तुं प्रविष्टोऽर्जुनः ॥१६६॥"
तदपि निषिद्धम् । ननु कथं-देवयान्या ययातिना साकं परिणयः, रतिश्च न दूषितेति चेत् ! कचशापेन देवयान्या निकृष्टतां नीतत्वात् इत्यवधेयम् । अन्यथा राजर्षेस्तस्य तत्र प्रवृत्तिरेव न सम्पद्येत । अतितरां च वर्णनिकृष्टोत्कृष्टयो रतिरिति नोदाहृतम् । एवं-द्वयोनिकृष्टयोरपि न तथाऽनुचिता, किपुनः जात्या निकृष्टयोरेव, अथापि उज्ज्वलस्य शृङ्गारस्य स्वरूपापकारात् अनौचित्यम् । वर्णतो निकृष्टौ च शुदौ । उदाहरणं च स्पष्टम् । इति ।
अथ तिर्यग्गतत्वेऽनौचित्यं दर्शयितुमाह-तिर्यग्गतत्वे इत्यादि।
तिर्यग्गतत्वे तिर्यञ्चः पक्षिण उपलक्षणेन पशवश्च तान् गता प्राप्ता तस्या भावस्तत्त्वं तस्मिन् । 'सति रतेरनौचित्यम्' इति शेषः । यथा-"मल्लीमतल्लीषु..' इत्यत्र ।
"मल्लीमतल्लीषु मल्लीभिर्मल्लिकाकुसुमतरुभिर्मतल्ल्यः प्रशस्तास्तासु । अत्र नियतलिङ्गत्वेन स्त्रीत्वम् । 'मतल्ली स्त्री मतल्लिका ।' इति गोपालः । वनान्तरेषु खाधिष्ठितभिन्नेषु वनेषु इत्यर्थः । वल्लयन्तरे वल्ल्या अन्तरे मध्ये । ‘स्थित' मिति शेषः । 'अथान्तरेऽन्तरा । अन्तरेण च मध्ये स्युः' इत्यमरः । यद्वा-अन्या वल्लीति तत्र तथोक्ते । वल्लभं प्रियं भ्रमरमित्यर्थः । आह्वयन्ती तदाह्वानं कुर्वतीब । भृङ्गी भ्रमरी । चश्चद्धिपश्चीकलनादभङ्गीसङ्गीतं चश्चन्ती खनन्ती या विपञ्ची वीणा तस्याः कलो मधुरास्फुटः शब्दस्तस्य भङ्गी वैदर्भी सुरचना तद्वत्तत्सदृशं सङ्गीतं तत्तथोक्तम् । 'व्याजच्छलनिभे भङ्गी वैदर्मी तनमीलिका।' इति रभसः । भङ्गिशब्दात् 'कृदिकारादक्तिनः' इति गणशास्त्रेण डीए । अडीकुरुते स्माङ्गीचकार प्रारब्धवतीत्यर्थः । अत्र रतेराभासमात्रतया प्रतिकूलवर्णत्वं न दुष्टम् । उत्प्रेक्षा च द्योत्या । उदारराघवस्येदं पद्यम् । इन्द्रवज्राछन्दः, तथोक्तम्-"स्यादिन्द्रवज्रा तभजा जगौ गः।" इति ॥१६५ ॥"
तिरश्चामपि रतिवर्णनीया, न पुनः कदाऽपि तापसानामित्याशयेन-"तियंगादि" इति कारकाऽऽदिपदार्थ स्पष्टयति-आदिशन्दादित्यादिना ।
आदिशब्दात् । तापसादयः । तापसो ब्रह्मचारी संन्यासी वा अत एव-मुनिगुरुभ्यो व्यवच्छिद्याभिधानम् । स आदिर्येषां ते तथोक्ताः । अत्रादिपदेन-खप्ने विधवाया योषितो, मृतजानेर्वा नरस्य, रतिरप्यनुचितेति तयोः, उपरागादौ च गृहमेधिप्रमुखाना ग्रहणम् । “ गृह्यन्ते"इति शेषः ।
एवं दिडमात्रेण शृङ्गारेऽनौचित्य दर्शयित्वा रौद्रे तदर्शयितुमाह-रौद्राभास इत्यादि। रौद्राभासः। 'अग्रजगतत्वेन क्रोधस्यानोचित्ये'इति शेषः । यथा-"रक्तोत्फुल्ल...''इत्यादौ ।
"रक्तोरफलविशाललोलनयनो रक्त अथ च उत्फुल्ले अत एव-विशाले अथ च लोले चञ्चले नयने यस्य स तथोक्तः । मुहुः पुनःपुनः । कम्पोत्तराङ्गः कम्पत इति कम्पं कम्पमानमिति भावः, तादृशमुत्तराङ्गमु. परितनमङ्ग(ओष्ठं)यस्य कम्पया वोत्तरमितस्ततः पतदङ्गं करादि यस्य तथोक्तः । उत्तरतीत्युत्तरम् । उभयत्र पचादित्वादच् । कर्णम् । तदभिधेयं प्रतिनायकमिति भावः । मुक्त्वा परित्यज्य तदयुद्धतो निवृत्त्येति यावत् । अपेतभीरपेता विनष्टा भीर्भयं यस्य तथोक्तः । हरेः श्रीकृष्णस्य । पश्यतः। 'षष्ठी चानादरे।' २१३१३८ इति षष्ठी। तथा व