________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
प्रतिनायकनिष्ठत्वे यथा - हयग्रीववधे, हयग्रीवस्य जलक्रीडावर्णने ।
अधमपात्र गतत्वे यथा
" जघनस्थलनद्धपत्रवल्ली गिरिमल्लीकुसुमानि काऽपि भिल्ली । अवचित्य गिरौ पुरो निषण्णा स्वकचानुत्कलयाञ्चकार भर्त्रा ॥ १६४ ॥”
२९७
सन्दर्शनात् अन्योऽन्यं सन्दर्शनं सागरिकावत्सराजयोरभिमुखीभूय सम्यग्दर्शनं तस्मात् । भाक् पूर्व 'वर्तमाने 'ति शेषः । वत्सराजे । रतिरनुरागः । 'अनुचिता' इति शेषः । इदन्तु बोद्धव्यम्, यदि कन्यात्वेऽभिलषन्तमनादृत्याभिलषन्तमाद्रियते, तं वाऽप्राप्यानादृतमभिलषन्तमेव लभते काऽपि तदा पश्चादपि न शृङ्गारार्हा, यदि तु पूर्व कुत्राप्यन्यत्रैवानुरागः, परिणयश्वोदासीनयोः, तदा परिणयात् प्राग्वर्त्तमाना रतिरनुचितैव, अथ यदि परतोऽप्येवमनुरक्तत्वाभाव एव तदा परिणयात्पश्चादपि न शृङ्गाराह । अत एव भ्रातृकृते शाल्वानुरतां काशिराजसुतां स्वयंवरादपनीयापि शाल्वान्तिक एव प्रहितवान् तेन च प्रत्याख्यातां स्वयमपि प्रत्याख्यातवान् शान्तनवः । इति दिक् । ] एतावान् पाठः प्रक्षिप्त इवाभासते, तत्रास्यांन्वेषणेऽपि अनुपलभ्यमानत्वात् । इति । स्वात्मनः प्रतिकूलः शठो धृष्टो वा नायकः तत्र नायिकाया रतिर्न शृङ्गाराह । यथा- 'मामेति निषेधमिषाज् झटिति परस्यानिशम्य सञ्चारम् । नीवीविमोकविमुखे स्वामिनि चकितेक्षणा तस्थौ ॥' ' अयि तव यदि हरति मनः कोकनदाभं मुखं ममेति किं चित्रम् | अपि तनु परोत्तरीयं हरति यदा मे धृतं भवता ॥' इत्यादौ । इत्येतत्सर्वं विदुषामतिरोहितम् ।
अथ प्रधाननायकस्य निर्भयताऽऽदिप्रत्यायकं रत्याद्यवर्णयित्वा प्रतिनायकस्य वर्ण्यमानं न रसतामावहतीति निदर्शयितुमाह-प्रतिनायकनिष्ठत्वे इत्यादि ।
प्रतिनायकनिष्ठत्वे 'रतेरनौचित्य' मिति शेषः । हयग्रीववधे विष्णुना कृतं हयग्रीवस्य दैत्यस्य वधमुपजीव्य श्रीमता काश्मीरकेण भर्तृमेण्ठेन प्रणीते महाकाव्ये इत्यर्थः । यथा । हयग्रीवस्य प्रतिनायकस्य । जलक्रीडावर्णने 'ललनाजनेन सम' मिति शेषः । अयम्भावः - निश्चितान्तिकान्तकस्येव प्रतिनायकस्यापि हन्तुमुपस्थितेऽन्यस्मिन् उद्वेगमवर्णयित्वा रतेर्वर्णनं प्रकृतिविरुद्धम्, अतः - वर्णिताऽपि ललनारतिर्न शृङ्गारपदं प्रतिपन्ना । इति ।
अधमपात्रगतत्वेऽपि रतेर्न शृङ्गारत्वं समुज्ज्वलस्य हि शृङ्गारस्य तदानीं तिरस्कारादित्याह - अधमपात्रगतत्वे
इत्यादि ।
अधमपात्र गतत्वेऽधमं जात्या वर्णतो वा निकृष्टं पात्रं नायकरूपं नायिकारूपं नायकनायिकोभयरूपं वाऽलम्बनं तत्र गता तस्या भावस्तत्त्वं तत्र । 'त्वतलोर्गुणवचनस्य ।' इति हस्वत्वम् । ' रतेरनौचित्यम्' इति शेषः । यथा" जघन...." इत्यादौ ।
“ जघनस्थलनद्धपत्रवल्ली जघनस्थले नितम्बभागे नद्धा बद्धा पत्रवल्ली वल्ल्याकारा प्रथिता पत्रावली यया तादृशी । 'हू' बन्धने, इत्यतः 'निष्ठा ।' ३।२।१०२ इति कः । काऽपि काचित् | अविज्ञातनाम्नीत्यर्थः । भिल्ली किरातपत्नी । गिरिमल्लीकुसुमानि गिरिमल्ल्याः कुटजस्य कुसुमानि पुष्पाणीति तानि तथोक्तानि । 'कुटजो गिरिमल्ली स्यात्' इति गोपालः । अवचित्य सञ्चीय । गिरौ पर्वते । पुरोऽग्रतः 'स्वामिनः' इति शेषः । निषण्णोपविष्टा सतीत्यर्थः । भर्त्रा स्वामिना तद्द्वारेति यावत् । स्वकचान् निजकेशान् । उत्कलयाञ्चकार बन्धयामास । ' भर्त्तु' रिति पाठान्तरे तु बबन्धेत्यर्थः । अत्र ग्राम्यत्वं दोषो न दोषः, प्रत्युत गुणः, 'गिरिमल्ली' ति समुदितं पदमिति 'गिरौ' इत्यभिधानेऽपि न पुनरुक्तम् । स्वभावोक्तिश्चालङ्कारः । उदारराघवस्येदं पद्यम्, मालभारिणी छन्दः, तथोक्तम्'विषमे सजसा गुरू अनोजे सभरा यश्व तु मालभारिणीयम् ।' इति ॥ १६४ ॥ "
इदम्बोद्धव्यम्-जात्यानिकृष्टयो : रतेरनौचित्यमुदाहृतपूर्वम्, वर्णतो निकृष्टत्वं पुनर्द्विविधम्, नायिकाऽपेक्षातो नायकस्य, नायकापेक्षातो वा नायिकायाः; अत्रोभयथाऽपि रतेरधर्म्यत्वान्न रसत्वम् । अथाऽपि सुतरां नायिकाsपेक्षया नायकस्य । अत एव - खस्ववर्णापेक्षया निकृष्टवर्णाया अपि नायिकायाः पाणिग्रहणमाम्नातम्, निकृष्टवर्णस्य पुनर्नायकस्य
३८