________________
साहित्यदर्पणः।
[ तृतीयःअनुभयनिष्ठत्वे यथा-मालतीमाधवे नन्दनस्य मालत्याम् । ["पश्चादुभयनिष्ठत्वेऽपि प्रथममेकनिष्ठत्वे रतेराभासत्वम् इति श्रीमल्लोचनकाराः। तत्रोदाहरणं यथा-रत्नावल्याम् , सागरिकाया अन्योऽन्यसन्दर्शनात प्राग्वत्सराजे रतिः।]
तदाभासताम् , इति पूर्वस्मिन्नुदाहृते । परकीयासु पुनः कन्यैव, यदि तदैव नायकेनाप्यनुमतसङ्गमा, यदि तु तयोरेकतरस्यैव रतिः न तदा तस्या रसभाक्त्वम् । अन्योऽन्यमनुरागे हि गान्धर्वपरिणयः । अत एव-राधाकृष्णयो रति भासरूपा किन्तु रसरूपैवेति व्यवस्था । एवं च-कन्यायां नायकस्यानुरागः, नायके वा कन्याया अनुराग: केवलो न रसरूपतां भजते, यदि तु यथा कन्यायां नायकस्यानुरागः तथा कन्याया अपि तत्र तदा न तस्याभासतेति केवलेन व्यवच्छेदः । कन्याया अनुरागाविषयस्य नायकस्यानुरागोऽत एवाननुरक्तायां कन्यायामनुचित इति तत्र तावत् दर्शयति-'इति ।
क्रमप्राप्तमनुभयनिष्ठत्वेन रतेराभासतामुदाहर्तुमुपक्रमते-अन्वित्यादिना।
अनुभयनिष्ठत्वे नोभयी निष्ठा यस्याः तस्या भावस्तत्त्वं तस्मिन तथोक्ते । उभौ नायिकानायकौ अवयवौ यस्याः सा उभयी । “सख्याया अवयवे तयप् ।' ५।२।४५ इति तयप् । 'उभादुदात्तो नित्यम् । ५।२।४५ इति तयपोऽ. यच् ‘टिड्ढाणञ्..।' ४।१।१५ इति डीप । 'स्त्रियाः... ।' ६।३।७४ इति पुंवद्भावः। 'सति रतेरनौचित्यमिति शेषः । यथा-मालतीमाधवे तदाख्ये मालतीमाधवयोरनुरागवर्णनमुपजीव्य श्रीभवभूतिमहाकविना विरचिते प्रकरणे इत्यर्थः । 'प्रथमेऽ३'इति शेषः । नन्दनस्य तदाख्यस्य राजनर्मसुहृदः । मालत्याम् 'माधवानुरक्तत्वमात्रेण खात्मन्यननुरक्तायाम्' इति शेषः । इदमुक्तम्-कामन्दकी (अवलोकितां प्रति) तां याचते नरपतेर्नर्म सुहन्नन्दनो नृपमुखेन तत् साक्षात् प्रतिषेधः कोपाय, शिवस्त्वयमुपायः । अवलोकिता (कामन्दकी प्रति) 'अच्चरीय ! अच्चरीय ! ण क्खु अमच्चो माहवस्स णाम पि जाणदित्ति णिरवेक्खदाए लक्खीअदि । कामन्दकी (अवलोकितां प्रति) संवरणं हि तत् । 'विशेषतस्तु बालत्वात्तयोर्विवृतभावयोः । तेन माधवमालत्योः कार्यः स्वमतिनिहवः ॥' अपि च-'अनुरागप्रवादस्तु वत्सयो: सार्वलौकिकः । श्रेयोऽप्यस्माकमेवं हि प्रताय? राजनन्दनौ ॥' इत्युक्तदिशा कविना कामन्दकीमुखेन नन्दनस्य मालत्यां दर्शितः । अयं च मालत्या अनुरागेण नार्चित इति अनुचितः सन् शृङ्गारतां न प्रतिपद्यते । इति । अयम्भावः-अयं तथा कविना कथमपि वर्थमानोऽपि अनुभावादिना न स्फुटीकृतः, अतः-नन्दनस्यापि नानुरागः किन्तु-तयोः परिणयार्थ त्वरितुं केवलं किमपि सूचितः । एवम्भूतस्य स्फुटमनौचित्यं शृङ्गारानहत्वं च । इति । इदमत्र बोद्धव्यम्-दैत्याचा-- त्मजाया देवयान्याः खपितुरन्तिकं मृतसञ्जीविनी विद्या ग्रहीतुमागते देवगुरोरात्मजे कचेऽनुराग: पुराणप्रसिद्धः, कचस्य च गुरुं पितरं चाभेदेन गुरुपुत्री च पितृपुत्रीं चाभेदेन पश्यतस्तस्यां स्वसृस्नेह एवासीत् , इत्येवं व्यतिकरे देवयान्या अनुरागः प्रवृद्धोऽपि न रसतामापन्नः । इत्येवमन्यत्रापि । इति ।
नायिकानायकयोर्यावदेकतरस्यैवानुरागस्तावत्तस्य भविष्यदुभयसम्बन्धित्वेऽपि न शृङ्गारार्हत्वम् । इत्याशयेन परमतमुपन्यस्यति-'पश्चात्...' इत्यादिना ।
["प्रथमं पूर्वम् । 'परिणयात् , उभयोर्वा गुणश्रवणात् , अन्योऽन्यं वा दर्शनादेरिति शेषः । एकनिष्ठत्वे एकतरनिष्टत्व इत्यर्थः । पश्चात् 'परिणयादे' रिति शेषः । उभयनिष्ठत्वे नायिकानायकोभयगतत्वे इत्यर्थः । अपि । रतेः 'प्रथममेकनिष्ठाया' इति शेषः । आभासत्वम् ।" इत्येवम् । श्रीमल्लोचनकाराः श्रीमन्तो लोचनकाराः । लोचनं नाम ध्वन्यालोकव्याख्या नाट्यशास्त्रव्याख्या वा तत्कुर्वन्तीति लोचनकाराः, अभिनवगुप्तपादाचार्य्या इत्यर्थः । 'आहुः' इति शेषः ।
ननु किमिह उदाहरणमित्याशङ्कथाह-तत्रोदाहरणमित्यादिना ।
तत्र तस्मिन् रतेरौचित्याभाव इत्यर्थः । उदाहरणम् । यथा। रत्नावल्यां तदाख्यायां रत्नावल्यां वत्सराजविषयकमनुरागमुपजीव्य श्रीहर्षकविना प्रणीतायां नाटिकायामित्यर्थः । सागरिकाया रत्नावल्या इत्यर्थः । अन्योऽन्य
१ 'आश्चर्य्यम् ! आश्चर्यम्! ! न खलु अमात्यो माधवस्य नामापि जानातीति निरपेक्षतया लक्ष्यते।' इति संस्कृतम् ।