________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। बहुनायकनिष्ठत्वे यथा'कान्तास्त एव भुवनत्रितयेऽपि मन्ये येषां कृते सुतनु ! पाण्डुरयं कपोलः ॥ १६३ ॥'
षयीकरणम् इत्यर्थः । 'वर्त्म नेत्रच्छदेऽध्वनि ।' इत्यमरः । सहसा। मुश्च (एतेन-गमनविलम्बासहिष्णुत्वं दृष्टि. मात्रपातेन कृतार्थतालाभाभावश्चावयेते ) । यद्वा-(अन्यत्र पक्षे ) ई सुन्दर लक्ष्मीकान्त ! ई विषादेऽनुकम्पायां लक्ष्म्यां पुनरनव्ययम् ।' इति मेदिनी। मा नैव । 'मा वारणे विकल्पे च..' इति मेदिनी। वर्त्म सहसा मुञ्च, किन्तु अत्रैव चिरं मां निरुध्योपभुझ्वेति भावः । अथवा-हे कृष्ण ! ई अनुकम्पस्व सहसा वर्त्म हसतीति हसो नर्मज्ञो भवानिति यावत् तेन सह वर्तत इति सहसा, तस्या वर्मेति तथोक्तम् । मा मुञ्चेत्यर्थः । नर्मज्ञेन त्वया सह रह आगतेति यथेष्टं रमस्व न त्वया गमनानुज्ञा दातव्येति भावः । इत्येवम् । गोप्या गोपिकाया विदुष्या वेत्यर्थः । गां सौरभेयीं सरस्वती वा पाति रक्षतीति तस्याः तथोक्तायाः। 'स्वर्गेषुपशुवाग्वज्रदिइनेत्रघणिभूजले।' इत्यमरः । गिरो वचांस्यनेकार्था इति यावत् । श्रुत्वा । तां गोपीम् । परिरभ्यालिङ्गय वक्षसा वक्ष आहत्येति यावत् । मन्मथकलासक्तो मन्मथः कामस्तस्य कला कौशलं तत्रासक्त आसक्तिं गत इति तथोक्तः । मतो बुद्धेर्मथो व्याकुलताविधातेति मन्मथः, मननं मत्, सम्पदादित्वात् क्विप् । 'गमादीनामिति वक्तव्यम् ।' * इति नलोपः । 'हस्वस्य पिति कृति तुक् ।' ६।१७१ इति तुक् । मथतीति मथः । पचादित्वादच् । यद्वा-मनसो मथ इति मन्मथः । ‘पृषोदरादीनि यथोपदिष्टम् ।' ६।३।१०९ इति साधु । हरिविष्णु: । वो युष्मान् भक्तानिति भावः । पातु रक्षतु । अत्र गोप्या रहस्यपक्षे अनन्यदयितात्वेऽपि 'स्वामी' त्यादिना गोलोकाधिपतौ भगवति मानवनाटयेनोपनायिकत्वस्य बोधनान्न शृङ्गारः, किन्तु तदाभासः । तथाअत्रैव 'पातु वः' इत्येवं कविभक्तिविषयतया गुरुप्रभृत्यन्यतमत्वेऽपि तथा वर्णनमनुचितमित्यतोऽपि शृङ्गाराभासः, कविरतिः पुनर्न भावः, किन्वाभास इति बोध्यम् । अत एव-मुन्यादिविषयिण्यां रतौ शृङ्गाराभासो नोदाहरिष्यत इति बोध्यम् । अस्य शुद्धोदाहरणं तु-"स्वामी निःश्वसितेऽप्यसूयति मनोजिघ्रः सपत्नीजनः..॥' इत्येव । एतेन नात्र शृङ्गाराभास इति सिद्धान्तयन्तस्तर्कवागीशाः परास्ताः । शृङ्गारे परनायिकोदाहरणमनर्थकं स्यादिति तु हेत्वाभासः । अत्र शार्दूलविक्रीडितं वृत्तम् , तथोक्तम्-'शार्दूलविक्रीडितं म्सौ सौ तौ गादित्यऋषयः ।' इति ॥ १६२॥'
मुन्यादिविषयिण्या रतरत्यन्तमनौचित्यमिति तत्साक्षादनुदाहृत्य-'स्वामी मुग्धतरः..' इत्यादिनानुषङ्गत उदाहृतं मन्यमानो बहुमायकनिष्ठत्वे रतेरनौचित्यं दर्शयति-बहुनायकनिष्ठत्व इत्यादिना ।
बहुनायकनिष्ठत्वे बहवो नायका इति ते निष्ठा यस्यास्तस्या भावस्तत्त्वं तस्मिंस्तथोक्त (सतिसप्तमीयम् ) · रतेरमौचित्यम् इति शेषः । यथा-'कान्ताः ...' इत्यादौ ।
"हे सुतनु ! शोभनं तनुः शरीरं यस्यास्तत्सम्बुद्धौ तथोक्ते ! शोभनाङ्गीति भावः ( एतेन-तस्या मनोहरण. क्षमत्वं सूच्यते)। येषाम् । “ दूरङ्गतानाम् 'इति शेषः । कृतेऽनुरागेण रतिलाभाद्यर्थमित्यर्थः (अव्ययमिदम् ) । अयं प्रत्यक्षं प्रस्फुरन्माधुर्य इत्यर्थः । कपोलो गण्डस्थलम् । पाण्डुः किञ्चित्पीतत्वविशिष्टः श्वेतः । “ हरिणः पाण्डुरः पाण्डः" इत्यमरः (एतेन-वियोगावस्थाऽऽवेद्यते) । अतः-मन्ये जाने । भुवनत्रितये त्रिषु वर्गपृथिवीपातालेषु लोकेष्वित्यर्थः । अपि “किं पुनरेकस्मिन्नस्मिन् भूतले" इति शेषः । ते । एव'नान्ये मादृशाः' इति शेषः । कान्ताः सुन्दराः 'सन्ती'ति शेषः । अस्य च पूर्वार्द्धम्-“ सङ्केतितेषु सुभगेषु रता त्वमेव भूत्वाऽप्यहो धनवधूरत एव नूनम् ।' इति । अत्र त्वमेवे' त्यस्य त्वमिव त्वमेवे'त्यन्ततोऽवसानादनन्वयः, ‘भूत्वाऽप्यहो धनवधू रित्यस्य च 'अन्या धनवधूरिव त्वमसि, किन्तु सा न कुत्राप्यभिरता, त्वं च नियतेषु किल निरता'इत्यन्ततोऽवगमे व्यतिरेको व्यज्यते । 'नूमं मन्ये इत्युत्प्रेक्षा कपोलपाण्डिन्ना कान्तास्त एवेति समर्थनात् काव्यलिङ्गं च वाच्ये। 'एवेत्यस्य पुनरुक्तावपि न दुष्टत्वम्, वाचकस्यैव पुनरुक्तौ दुष्टत्वाङ्गीकारात्। वसन्ततिलका नामेदं वृत्तम् ,यथोक्तम्-“वसन्ततिलका भौ जौ गौ।"इति॥१६३॥
अत्रेदम्बोद्धव्यम्-उपपतिविषयिण्या स्तेरनौचित्येन रसाभासत्त्वम् ‘स्वामी मुग्धतरः..'इत्यादिनोदाहृतम् , पतिविषयिण्या अपि रतेरेककालावच्छेदेनानौचित्यं तेन च रसाभासो व्याख्यायामुदाहृते पूर्वपये, उत्तरस्मिन् भावाभासश्च । अथ धनवध्वाः पत्यसम्भवे एकत्र रतिः शृङ्गारः, अनेकत्रास्या अपि न रतिः शृङ्गारतां भजते, किन्तु