________________
[ तृतीयः
.
साहित्यदर्पणः। तत्र रतेरुपनायकनिष्ठत्वे यथा मम
'स्वामी मुग्धतरो, वनं घनमिदं, बालाऽहमेकाकिनी, क्षोणीमावृणुते तमालमलिनच्छाया तमस्सन्ततिः । तन्मे सुन्दर ! मुश्च कृष्ण ! सहसा वत्मेति गोप्या गिरः श्रुत्वा, तां परिरभ्य मन्मथकलासक्तो हरिः पातु वः॥ १६२ ॥'
धर्मशास्त्रस्योच्छेदापत्तेः । आचार्याणां तथात्वेऽपि यद्रतेमहत्त्वं तत्तेषां महिमा ! तथा-तिरश्चामुपलक्षणेन पश्चा दीनां परस्परं या रतिः सा न शृङ्गारस्वरूपार्दा । अत एव-'मधुद्विरेफ: कुसुमैकपात्रे पपौ प्रियां स्वामनुवर्तमामः । शृङ्गेण च स्पर्शनिमीलिताक्षी मृगीमकण्डयत कृष्णसारः ॥' इत्यादौ शृङ्गाराभास एवेति दर्शितपर्वम् । एवं गुरौ मुनौ पित्रोर्वाऽन्यत्राप्तजने कोपो न रौद्रपदार्हः, तत्र कोपस्यानौचित्यात् । एवमन्यत्रापि यथायथमनौचित्यं लोकतोऽनुभवतश्च स्वयं विमृग्यम्, एतत् परं दिङ्मात्रेण निदर्शनम् । अत एव-'एवमन्यत्रे'ति कविराजैरुक्तम् । ननु काव्यनाट्यश्रवणदर्शनाभ्यां विभावादिसाधारण्यज्ञाने सति सामाजिकानां जायमानस्यालौकिकस्य रसस्य कथमाभासरूपत्वम् ? इति चेत् ! सत्यम्, तथाऽपि असाधारण्यप्रतीतिप्रयोजककाव्यवर्णिते यत्रानौचित्यप्रतिसन्धानं तत्र व्यङ्गयेऽपि रसे आभासव्यपदेशः सङ्गच्छते । इति दिक् ।
तदेव क्रमेणोदाहरन्नाह-तत्रेत्यादिना ।
तत्र तेष्वनौचित्येष्विति भावः । रतेः । उपमायकनिष्ठत्वे उपनायक उपपतिर्निष्टा नियतं स्थानं यस्याः तस्या भावस्तत्त्वं तस्मिन् । 'अनौचित्य' मिति प्रकृतप्राप्तम् । यथा । मम-'पद्ये' इति शेषः । 'स्वामी..' इत्यादौ ।
'हे सुन्दर ! (अनेन स्वात्मनो मनोहरणक्षमत्वमावेद्यते)। स्वामी पतिः न तु प्रियः । 'वामिन्नैश्वर्थे ।' ५।२।१२६ इति निपातनात् साधु (एतेन-तत्र खाननुरागः सूचितः)। मुग्धतरोऽत्यन्तं मुग्धो मूढ इति तथोक्तः । 'मुग्धस्तु सुन्दरे मूढे'इति मेदिनी। 'द्विवचनविभज्योपपदे तरबीयसुनौ । ५।३।५७ इति तरप् (एतेन-कालापयाने तद्भयं तस्य च रत्यनभिज्ञत्वेन रमणायोग्यत्वं चावेद्यते)। वनं न तु नगरम् , ग्रामो वा (एतेन-जनान्तरासञ्चाराद्भयं रमणौचित्येन च देशस्य निभयत्वं बोध्यते)। इदं न तु तत्पदवाच्यम् (एतेन-इहावस्थानं नोचितमिति, अत्रैव मया रमख, नान्यत्र गन्तुमावश्यकतेति च द्योत्यते) । घनं निबिडमनेकानेकवृक्षजालग्रथितमिति भावः ( एतेन-तस्य भयङ्करत्वं मदनोद्दीपकत्वं चावेद्यते, अनुषङ्गतश्च-अत्र न कश्चिदागन्तुं प्रभविष्यति, प्रभवेदपि कदाचित् कश्चिदागन्तुं, किन्तु आवयोः सङ्गं नै सूचितम् ज्ञातुं प्रभविष्यतीति)। अहम् (एतेन-आत्मनो भयाश्लेषयोरुचितावस्थाकत्वमनुषङ्गतश्च मनोरमत्वमावेद्यते) । बालाऽल्पवयस्का कान्तेत्यर्थः । 'वालोऽज्ञेऽश्वेभपुच्छयोः । वाला तु त्रुटियोषितोः ।'
(एतेन न चिरमिह स्थातं शक्नोमीति पत्याऽपि अनपभक्तपर्वत्वं चात्मनः सच्यते)। एकाकिनी एकैव । असहाया सख्यादिविरहितेति यावत् । 'एकादाकिनिच्चासहाये।' ५।३।५२ इत्याफिनित् । ततो डीप् (एतेनअत्रैवम्भूताया अत्यन्तं गर्हितमागमनमिति निरपराधत्वेऽपि यदा तस्माद्विभेमि, किं पुनरेवमपराधे, तस्मात्त्वरितं गन्तव्यम् इति; यथेष्टं मयैव रमख नात्र काऽपि सपत्नीशकोपनायिकाऽन्तरप्रतिनायिकयोश्चाशङ्केति घोत्यते)। तमालमलिनच्छाया तमालैर्मलिनाऽत्यन्तं कृष्णत्वं नीता छाया कान्तिः खरूपप्रतीतिर्यस्यास्तथोक्ता। यद्वातमालवन्मलिना छाया यस्यास्तथाविधा (एतेन-दृष्टिप्रतिबन्धौचित्यं भयग्रस्तत्वं च, अन्यत्र-एतैरुद्दीपितमदनाऽस्मि संवृत्तेति च बोध्यते)। तमस्सन्ततिस्तमसां तिमिराणां सन्ततिः पुञ्ज इति तथोक्ता (एतेन-वनस्य खतो भयङ्करस्यातिशयितत्वेन स्थानायोग्यत्वं निर्जनत्वादिना च रमणौचित्यातिशयश्च द्योत्येते)। क्षोणी पृथिवीम् । 'क्षोणी ज्या काश्यपी क्षितिः ।'इत्यमरः । आवृणुते आच्छादयति (एतेन तमखिनी निशेयं प्रवृत्ता अतो नाधिकं स्थातुं शक्तेति, तमखिन्याः सर्वतः प्रभूतत्वेन कसा गतेति बान्धवभीतिरिति च द्योत्येते, अनुषङ्गतः कालवैशिष्टयं च )। तत् तस्मात् कारणादित्यर्थः । हे कृष्ण ! मे मम । वम मार्ग तदवरोधमिति यावत्, यद्वा-नेत्रच्छदमुपचारान्नेत्रवि