________________
परिच्छेदः]
२९३
रुचिराख्यया व्याख्यया समेतः।। प्रतिनायकनिष्ठायां तद्वदधमपात्रतिर्यगादिगतौ । शृङ्गारेऽनौचित्यं, रौद्रे गुर्वादिगतकोपे ॥ १९४ ॥ शान्ते च हनिनिष्ठे गुर्वाद्यालम्बने हास्ये । ब्रह्मवधाद्युत्साहे-ऽधमपात्रगते तथा वीरे ॥ १९५ ॥ उत्तमपात्रगतत्वे भयानके ज्ञेयमेवमन्यत्र ।
त्येवं कृत्वा नियतं स्थानं यस्यास्तस्यां तथोक्तायाम् । प्रतिनायकनिष्ठायां प्रतिकूलो नायकः प्रतिनायक: प्रधाननायकस्य प्रतिपक्षी धृष्टशठान्यतरो वा निष्ठा यस्यास्तस्याम् । 'प्रतिनायकनिष्ठत्वे' इति पठान्तरे तु 'रते'रित्यध्याहा. य॑म् । तद्धत् । अधमपात्रतिर्यगादिगतावधमो जघन्यः स्वस्ववर्णापेक्षया निकृष्टो यत् पात्रं नायकस्तच्च तिर्यगादिश्च तौ गती आश्रयभूतौ यस्यास्तस्याम् । 'अधमपात्रतियंगादिगत' इति पाठान्तरे तु 'प्रेम्णि' इत्यध्याहृत्य कथमपि समर्थनीयम् । रतौ 'सत्या'मिति शेषः । शृङ्गारे। अनौचित्यम् । एवम्-गुर्वादिगतकोपे गुर्वादिगतो गुरुपितृमुनिसुराउदिविषयोऽसौ कोपस्तस्मिन् सतीत्यर्थः । रौद्रे। 'अनौचित्य' मिति पूर्वतोऽन्वेति । हीननिष्ठे। हीनोऽनुत्तमप्रकृतिनिष्ठा यस्य तस्मिंस्तथोक्ते। च । शान्ते 'अनौचित्य' मिति शेषः । तथा-गुर्वाद्यालम्बने गुर्वादिगुरुमुनिनुपादिरालम्बनं यस्य तस्मिन् तथोक्त । हास्ये। सतिसप्तमीयम् । 'अनौचित्य'मिति शेषः । तथा। ब्रह्मवधायुत्साहे ब्रह्मणो ब्राह्मणस्य वेदस्य वा वधो हिंसनमनर्थोपपादनं वा स आदिर्येषां (गोवधादीनां पाखण्डप्रवर्तनादीनां वा) तेषूत्साहस्तस्मिन् सतीत्यर्थः । अधमपात्रगते निकृष्टालम्बनके। वीरे। 'अनौचित्य'मिति शेषः । उत्तमपात्रगतत्त्वे 'भयस्येति शेषः । यद्वा-उत्तमपात्रगं तत्त्वं स्वरूपं यस्य तस्मिंस्तथोक्ते इत्यर्थः । भयानके 'अनौचित्य'मिति शेषः । एवं यथा शृङ्गारादौ दर्शितं तथेत्यर्थः । अन्यत्रान्यस्मिन् बीभत्सादावित्यर्थः । ज्ञेयम् । तथा च-बीभत्से, कर्मठस्याश्वमेधादौ, युद्धवीरस्य वा सङ्ग्रामे घृणायाः सद्भावे, अद्भुते, करुणे च मृषाज्ञानस्यानौचित्यम्,. वत्सले पूज्याद्यालम्बनेऽप्येवम् । इति दिक् ॥ १९३ ॥ १९४ ॥ १९५॥
अयम्भावः-“अनौचित्याहते नान्यद्रसभङ्गस्य कारणम् । प्रसिद्धौचित्यबन्धस्तु रसभङ्गस्य कारणम् ॥” इत्युक्तदिशा यावताऽनौचित्येन रसस्य भावस्य वा न पुष्टिः स्यात् पुष्टिर्वाऽपहीयेत तावत्तत्रानौचित्यं परिहरणीयं, प्रतिकूलतायाः सर्वथा निषेध्यत्वात् । तथा सति-रतिरुपपतिविषया न वर्णनीया, एतेन- स्वामी निःश्वसितेऽप्यसूयति, मनोजिघ्रः सपत्नीजनः, श्वश्रूरिङ्गितदैवतं, नयनयोरीहालिहो यातरः । तद्रादयमजलिः, किमधुना दृग्भङ्गिभावेन ते, वैदग्धीमधुरप्रबन्धरसिक! व्यर्थोऽयमत्र श्रमः ॥' इत्यादौ शृङ्गाराभास एवेति सूचितम् , न चात्रापि शृङ्गार एवेति शङ्कयम् , उपपतिविषयाया रतेः शृङ्गारस्थायित्वानौचित्यात् । अन्यथा 'उत्तमप्रकृतिप्रायः..' इत्याद्युक्तमेव न सङ्गच्छेत । एवम्-मुनीनां गुरूणामुत्तमदेवानां पितॄणां ज्यायःसहजादीनां च स्वस्वपत्नीविषयाऽपि रतिर्न वर्णनीया, जघन्यताप्रत्यायकतया वैरस्योल्लासे रसोच्छेदस्यैवं दुर्वारत्वात् । अत एव गङ्गाधरकारा अप्याहुः--'रतेः सम्भोगरूपाय! मनुष्येष्विवोत्तमदेवतासु स्फुटीकृतसकलानुभाववर्णनमनुचितम् ।' इति । तथा-'१५ एषु त्वनेकमहिलासमरागो दक्षिण: कथितः ॥ ५९ ॥' इति प्रागुक्तनयेन दक्षिणस्य यथैककालावच्छेदेनानेकत्रानुरागौचित्यं, तथा न स्वकीयेषु अपि नायकेषु नायिकायाः । अतः-'युधिष्ठिरं मोदयति स्म सुस्मितैः, कलेन भीमं परिरम्भतोऽर्जनम् । भ्रुवा प्रणीतैनकुलं च सान्त्वनैः पदोश्च तैः सा सहदेवमञ्चितैः ॥' इत्यत्र द्रौपद्या अनुरागः पतिविषयकोऽपि न शृङ्गारव्यपदेशाहः । 'वारोऽयं नृपतेस्तथा तदनुजो मान्योऽद्य मानङ्गतः सङ्गम्य: समयावहोरुपगतो जिष्णुश्च जित्वा रिपन् । द्यूतै रात्रिरियं जिता च युगपन्माद्रीसुताभ्यामतः किंकर्तव्यविमूढया बत तया द्विनाः स्थितं नाडिकाः ॥' इत्यादौ च भावाभास एव । तथा'आक्रान्ता रमयति हन्त ! कान्तमेकं सन्दष्टाऽधरसुधयाऽपरौ प्रियौ द्वौ । प्रेयांसावुरसिजयोर्निपीडिताऽन्यौ धन्येयं युगपदनेकधाऽर्दिताऽपि ॥' इत्यत्र वाराङ्गनाया रतिरनेकविषयेति न शृङ्गारव्यपदेशारे । एवम्-अधमनायकगतोत्तमनायिकायाः, अधमनायिकागतोत्तमनायकस्याप्येवं रतिर्न शृङ्गारपदं भजते । अत्रापि उत्तमायामधमस्य नितान्तं