________________
साहित्यदर्पणः।
[ तृतीयःअथ रसाभासभावाभासौ--
२७७ अनौचित्यप्रवृत्तत्व आभासो रसभावयोः ॥ २९२ ॥ अनौचित्यं चात्र रसानां भरतादिप्रणीतलक्षणानां सामग्रीरहितत्वे एकदेशयोगित्वोपलक्षणपरम्बोध्यम् , तच्च बालव्युत्पत्तये एकदेशतो दर्श्यते--
२७८ उपनायकसंस्थायां मुनिगुरुपत्नीगतायां च ।
बहुनायकविषयायां रतौ तथाऽनुभयनिष्ठायाम् ॥ २९३ ॥
अयम्भाव:-यद्यपि प्रपाणके खण्डमरिचादीनामेकीभावोऽवश्यं भवति, किन्तु यथा तत्र क्वचित् खण्डस्य, क्वचित् मरिचस्य, क्वचित् आमलक्याः , क्वचिल्लवणस्य; इत्येवं तदन्यतमस्यातिशयोऽनुभूयत एव, तथा-यद्यपि रसे विभावानुभावसात्त्विकभावसञ्चारिभावानामेकीभाव एव, तथाऽपि तत्र क्वापि विभावस्य, क्वापि सञ्चारिणः, क्वाप्येवमन्यस्य प्राधान्येन प्रतीतिरतिरोहितैव सहृदयानां जायते । इत्युक्तं-'सञ्चारिणः प्रधानानीति न काऽपि विप्रतिपत्तिः । इति ।
अथ रसाभासादिं लक्षयितुं प्रतिजानीते-अथेत्यादिना।
अथ सञ्चारिणां प्राधान्यनिरूपणानन्तरम् । रसाभासभावाभासौ । 'उच्यते'इति शेषः । २७७ अनौचित्यप्रवृत्तत्व इत्यादिना । ।
२७. अनौचित्यप्रवृत्तत्वेऽनौचित्यं भरतादिसिद्धान्तोल्लङ्घनप्रयुक्तयोग्यताविरहस्तेन प्रवृत्तौ कृतप्रवृत्तिको वर्तमानौ इति तयोर्भावस्तत्त्वं तस्मिंस्तथोक्ते सतीत्यर्थः । रसभावयोः । आभास ईषद्भासनमिति तथोक्तः, अप्राधान्येन स्फुरणमिति भावः ॥ २९२ ॥
ननु किन्नामानौचित्यमित्याशङ्कय तद्दर्शयति-अनौचित्यमित्यादिना ।
अनौचित्यं रसभावयोराभासमात्रत्वस्य कारणतया निरूपितमिति भावः । च पुनः । अत्रास्मिन् प्रस्ताव इत्यर्थः । रसानां रससम्बन्धिनाम् । भरतादिप्रणीतलक्षणानां भरतादिभिः प्रणीतानि प्रणीयप्रतिपादितानि लक्षणानि तेषामित्यर्थः । सामग्रीरहितत्वे विभावादियावत्कारणासत्त्वे सतीत्यर्थः । एकदेशयोगिरवोपलक्षणपरमेकदेशस्य यत्किञ्चिल्लक्षणस्य योग: सम्बन्धः सोऽत्रास्तीति तस्य भावस्तत्त्वं, तस्योपलक्षणं बोधनं तत्र परमिति तथोक्तम् । बोध्यं ज्ञेयम् । अयम्भाव:-भरतादिभी रसानां भावानां च यानि लक्षणानि प्रदर्शितानि तेषां तदेकदेशित्वेन वर्तमानत्वमनौचित्यम् । इति ।
ननु तत्सहसा कथं ज्ञेयमित्यत आह-तत् अनौचित्यमित्यर्थः । च । बालव्युत्पत्तये बालानां बोधसिद्धये । एक देशतः न तु सर्वतोभावेन, तथा दर्शयितुमशक्यत्वादिति भावः । दर्यते बोध्यते-२७८ उपनायक संस्थायामित्यादिना। .
२७८ उपनायकसंस्थायामुपनायक उपपतिः स संस्था सम्भवस्थानं यस्या: तस्यां तथोक्तायाम् । उपपतिश्च परिणेतुः पत्युर्भिन्नः सर्वोऽपीतरो लोकः । अत एव परप्रसङ्गः सर्वथाऽधर्म्य इति धर्मशास्त्रस्य सिद्धान्तः सङ्गच्छते । च । मुनिगुरुपत्नीगतायां मुनिश्च गुरुः ( पिता श्वशुर आचार्य्यस्तत्सदृशोऽन्यो वा पूज्यो वा ) चेति तयोः पत्नी तत्र गता तस्यां तथाभूतायाम् । मुनिगुरुविषयायां मुनिगुरुपत्नीसम्बन्धिन्यामिति भावः । एवम्-बहुनायकविषयायां बहवो नायका जारा एककालावच्छेदेन पतयो वा विषया यस्यास्तस्यां तथोक्तायामित्यर्थः । तथा। अनुभयनिष्ठायां नोभयं नायिकानायकरूपमालम्बन निष्ठाऽन्योऽन्यं कुत्रचिन्नायकसम्बन्धित्वाभावेन क्वापि पुननायिकासम्बन्धित्वाभावेने