________________
परिच्छेदः] रुचिराख्यया व्याख्यया समेतः ।
२९१ अत्र पार्वतीविषया भगवतो रतिः।
नन्वत्रं प्रागुक्तं प्रपाणकरसवद्धिभावादीनामेकोऽत्रावभासो रस इति,तत्र सञ्चारिणः पार्थक्याभावात् कथं प्राधान्येनाभिव्यक्तिरित्युच्यते
२७६ यथा मरिचखण्डादेरेकीभावे प्रपाणके ॥ २९१ ॥
उद्रेकः कस्यचित् क्वापि तथा सञ्चारिणो रसे ।
वसरे किञ्चित् निवृत्तधैर्य इवासीत् । एवं च महेश्वरस्य गाम्भीर्य धैर्य चातिशयिते, उमाया मुखं च चन्द्रोदय एव मनोरमायामासीदिति च सूचितम् । इति । उपमाऽत्रालङ्कारः । कुमारसम्भवस्येदं पद्यम् । इन्द्रवज्रीपेन्द्रवज्रयोरुपजातिश्छन्दः ॥१६१॥'
ननु कोऽत्रोदबुद्धमानः स्थायिभाव इत्याशङ्कयाह-अत्रेत्यादिना ।
अत्रास्मिन्नुदाहृते पद्ये इति यावत् । पार्वतीविषया । भगवतः शङ्करस्य । रतिः । अयम्भावः-पार्वत्याः प्राथमिके दर्शने महेश्वरस्य तद्विषयतयोज्जम्भमाणाऽपि रतिः, पार्वत्याः खकीयतयाऽगृहीतत्वेन शृङ्गारस्य स्थायित्व प्राप्ता; इत्यसावुदुद्धमात्रैव । इति । सरस्वतीकण्ठाभरणकारास्त्वेवमाहः-"अत्र बिम्बोष्ठादिभिर्मनोऽनुकूले पार्वतीमुखे विलोचनव्यापारानुमितो महेश्वरस्याभिलाषविशेषः सात्त्विको रत्युत्पादात्सुखानुभवस्योत्पत्तिमात्रमनुमापयति ।" इति । उ • द्धमात्रो हासो यथा-'कनककलशस्वच्छ पीने पयोधरमण्डले नवजलधरश्यामामात्मद्युतिं प्रतिबिम्बिताम् । असितसिचयांप्रान्तभ्रान्त्या मुहुर्मुहुरुत्क्षिपञ्जयति जनितव्रीडाहासः प्रियाहसितो हरिः॥' इति। अत्र व्रीडाप्राधान्येन हरेहाँसो न रसरूपताप्राप्तः । क्रोधो यथा-'समाधिभङ्गाय समीहमानं रतिप्रियं वीक्ष्य वसन्तमित्रम् । मनाङ् नतभ्रूलतिकोऽपि हन्त मुग्धोऽ. यमित्येव शमी शशाम ॥' इति । अत्र क्रोधो जायमानोऽपि शान्तेः साम्राज्येन रसत्वाधिकाराच्च्यावितः । शोको यथा'पविं पतन्तं परिलोक्य मूर्ध्नि हन्तेत्यनीचै रुरुवुः क्षणं ते । दैवानुकूल्येन चमूष्वरीणां च्युते तदा तत्र जहपुरारात् ॥' इति । अत्र शोकोऽपि उत्तरक्षण एव हर्षनिदानेन विकसत्कुड्मलतामेव नीतः । यथा वा शोक:-'हा सोह्म! अजउत्त ! कहिं सि' ?' इत्यत्र सीतायाः । जुगुप्सा यथा-"विणमूत्रे लेपयनङ्गे लालाभिः स्पृष्टभूतलः । हन्तेत्युद्माणमहाय वार्भकोऽङ्के समुद्धृतः ॥' इत्यत्र मातुः । भयं यथा-'व्योम्नः प्रपातेन विशीर्णवर्मणो दैत्यस्य दीव्यन्तमुरस्यवेक्ष्य तम् । सर्वेऽपि नष्टा व्रजवासिनः क्षणं शक्तिः समानेतुमभून्न कस्यचित् ॥' इति. अन तृणावर्त्तस्य मृतस्यापि शरीरपातेन गोपानां भयमुत्पद्यमानमपि श्रीकृष्णस्य कुशलितयोपलब्धौ न रसतां प्रतिपन्नः । विस्मयो यथा-'चित्रं महानेष तवावतारः क्व कान्तिरेषाऽभिनवैव भङ्गिः । लोकोत्तरं धैर्य्यमहो प्रभावः काऽप्याकृतिनूतन एष सर्गः ॥' इत्युदाहृतपद्ये । शमो यथा-मृत्कुम्भवालुकारन्ध्रपिधानरचनार्थिना । दक्षिणावर्तशृङ्खोऽयं हन्त चूर्णीकृतो मया॥'इत्युदाहृतपूर्वे । एवमन्यत्रापि ।
सञ्चारिणः प्राधान्याङ्गीकारे पूर्वापरविरोधं दर्शयति-नन्वित्यादिना ।।
ननु । अनास्मिन्नेव ग्रन्थ इति यावत् । प्रपाणकरसवत् प्रपाणकन्नाम खण्डमरिचादीनां सम्मेलनं तदेव तस्य वा रसः स इवेत्यर्थः । विभावादीनां विभावानुभावसात्त्विकभावव्यभिचारिभावानामित्यर्थः । एकोऽपृथग्भूत इति भावः । अवभासः प्रतीतिः । रसः । इति । उक्तम।प्राक (३९) ३८१३९ इत्यादिना निरूपितमिति भावः । तत्र तस्मिन् तथा प्रतिपादिते रसत्वे इति यावत् । सञ्चारिणः । पार्थक्याभावात् । कथम् । प्राधान्येन । अभिव्यक्तिः ? इत्येवमाशङ्कायाम् । उच्यते-२७६ यथेत्यादिना ।
२७६ यथा । प्रपाणके । मरिचखण्डादेः। आदिनाऽऽमलक्यादीनां ग्रहणम् । एकीभावे एकत्वं प्राप्तत्वे सति कस्यचित् मरिचाद्यन्यतमस्य । क्वापि कस्मिन्नपि प्रपाणके मारचस्य कुत्रापि खण्डस्येत्येवमिति भावः । उद्रेकः । तथा । रसे शृङ्गाराद्यन्यतमे । 'कस्यचित् क्वापि उद्रेक'इति पूर्वतोऽन्वेति । सश्चारिणः । उद्रेकप्राधान्येन भानम् इति । भावः ॥ २९१ ॥
१ हा सौम्य ! आर्यपुत्र ! क्वासि' इति संस्कृतम् ।