________________
२९०
साहित्यदर्पणः ।
[ तृतीय:
राजविषया रतिर्यथा मम'वद्वाजिराजिनिर्धूतधूलीपटलपङ्किलाम् । न धत्ते शिरसा गङ्गां भूरिभारभिया हरः ॥ १६० ॥ ' एवमन्यत् । उद्घुद्धमात्र ः स्थायिभावो यथा
' हरस्तु किञ्चित् परिवृत्तधैर्य्यश्चन्द्रोदयारम्भ इवाम्बुराशिः । उमामुखे बिम्बफलाधरोष्ठे व्यापारयामास विलोचनानि ॥ १६९ ॥'
'युगपर्याप्तयोः कृतम् ।' इत्यमरः । कृतः । अस्मि । किं पुनः प्रार्थयसे ? इत्याह- तथाऽपि यद्यपि अहं सर्वतोभावेन सिद्धसर्वार्थस्त्वदवलोकनमात्रेण कृतोऽस्मि, तत् पुनरपीति भावः । तव । गरीयसीरत्यन्तं महनीया इत्यर्थः । गिरो वाचः । शुश्रूषुः श्रोतुमिच्छुः । शृणोतेः सन्नन्तात् 'सनाशंसभिक्ष उः ।' ३।२।१६८ इत्युः । अहम् । किमपि त्वदीयमगरीयो वचः श्रोतुमिच्छुरस्मीति भावः । अथवा । श्रेयसि उपचारात् तलाभे । केन । तृप्यते ? न केनापीति भावः । शिशुपालवधस्येदं पद्यम्, श्रीकृष्णचन्द्रस्य नारदमुनिं प्रत्युक्तिरियम् । वंशस्थावृत्तम्, तलक्षणं यथोक्तम्' वंशस्था तौ ज्रौ ॥' इति ॥ १५९ ॥
राजविषयां रतिन्निदर्शयन्नाह - राजविषयेत्यादि ।
राजविषया राजा राजते स्वातन्त्र्येण शासनाद्यधिकारितया प्रकाशत इति तथोक्तः ( कश्चित् सम्राट् इत्यर्थः ), स विषयो यस्याः सेति तथोक्ता । रतिः प्रीतिः । यथा । मम - ' त्वद्वाजि.' इत्यादी ।
'हरः शङ्करः । त्वद्वाजिराजिनिर्धूतधूलीपटलपङ्किलां तव नृपतेर्वाजिराजिर्वाजिनामश्वानां राजिः पङ्क्तिस्तया निर्धूतो यो धूलीपटलस्तेन पङ्किला पङ्कवती तां तथोक्ताम् त्वयि सैन्ये प्रयाति अश्वानां खुरक्षोदैरुत्थितेन धूलीपुजेन पङ्किलतां नीतामिति भावः । गङ्गाम् । भूरिभारभिया भूरिभूयान् असौ भारो धूलीपुजवर्धितो भारस्तस्य भीर्भयं तया । न । शिरसा । धत्ते अत एव कपर्दात्तांनिःसारयतीति भावः । अत्र स्वतो जगन्ति पवित्रयितुं समुलसन्त्या भगवत्या गङ्गाया अन्यथा वर्णनेन राजोत्कर्षस्य सूचनाद्राजविषया कवे रतिरभिव्यज्यते ॥ १६० ॥'
एवं गुरुप्रभृतिविषयाया अपि रतेरुदाहरणमवसेयमित्याह - एवं यथोदाहृतं तथेत्यर्थः । अन्यगुरुप्रभृतिविषयाया तेरपि उदाहरणमवधेयमित्यर्थः । तत्र गुरुविषया दशरथस्य रतिर्यथा - 'अस्मद्रोत्र महत्तरः क्रतुभुजामद्यायमाद्यो रविर्यज्वानो वयमद्य ते भगवती भूरय राजन्वती । अद्य स्वं बहु मन्यते सहचरैरस्माभिराखण्डलो येनैता वदरुन्धतीपतिरपि स्वेनानुगृह्णाति नः ॥ इति, पितृविषया श्रीरामस्य रतिर्यथा - ' जीवत्सु तातपादेषु न वे दारपरिग्रहे । मातृभिश्चिन्त्यमानानां ते हि नो दिवसा गताः ॥' इति, मित्रविषया यथा - 'अय राज्यं मया प्राप्तमद्य वाली हतो मया । हरीणामय पूज्योऽस्मि यद्भवान् मित्रतां गतः ॥' इति अत्र श्रीरामगता सुग्रीवविषया रतिः । अत्रके - 'आदिशब्दात्पुत्रादेरपि ग्रहणम् । तन्मते - स्वार्थलाभानुमोदिताया एव रतेर्यथा कथञ्चित् सञ्चारितयोदाहरणीयम् नतु स्वाभाविक्या अपि तत्र वात्सल्यस्यैव साम्राज्यात्, वस्तुतस्तु - देवादिविषयेत्यत्रादिपदेन पूज्यानामेव ग्रहणं युक्तम्, नतु अपूज्यस्यापि; आदिपदस्य तत्सदृशस्यैव ग्राहकत्वात् । अत एव नीचजनेषु न रती रतिः, किन्तु दयैव । इति ।
उद्बुद्धमात्र स्थायिनमुदाहर्तुमुपक्रमते - उद्बुद्धमात्र इत्यादिना ।
उबुद्धमात्र नतु रसत्वं प्राप्त इति शेषः । स्थायिभावः । 'रत्याख्य ' इति शेषः । यथा- 'हरस्तु.. ' इत्यादौ ।
'हरः क्षणं त्यक्तसमाधियोंगिराजः शङ्कर इत्यर्थः । तु पुनः पार्वत्याः सपर्या ग्रहीतुं क्षणं समाधित्यागावसरे मदनस्यामोघशरसन्धानानन्तरमिति यावत् । चन्द्रोदयारम्भे चन्द्रस्योदयः प्रकाशस्तस्यारम्भस्तस्मिन् । सतिसप्तमीयम् । अम्बुराशिः सागरः । इव । किञ्चित् नतु सर्वथे 'ति शेषः । एतेन - इतरजनेभ्यो वैलक्षण्यं सूचितम् । परिवृत्तधैर्यः परिवृत्तं निवृत्तं धैर्य्यं यस्य तथोक्तः । ' परिलुप्तधैय्र्य इति पाठान्तरम् । बिम्बफलाधरोष्ठे विम्बफलवदधरोष्ठो यस्य तादृशे । उमामुखे उमायाः पार्वत्या मुखं तत्रेति तथोक्ते । विलोचनानि नेत्राणि । व्यापारयामास । इदं बोध्यम्- 'समुद्र इव प्रकृतितो गभीरधीरोऽपि महेश्वरः चन्द्रोदयस्यैव उमामुखस्य विलोकना