________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः ।
२८९
' एवंवादिनि देवर्षो पार्श्वे पितुरधोमुखी । लीलाकमलपत्राणि गणयामास पार्वती ॥ १५७ ॥' इत्यत्रावहित्था | देवविषंया रतिर्यथा मुकुन्दमालायाम्
' दिवि वा भुवि वा ममास्तु वासो नरके वा नरकान्तक ! प्रकामम् । अवधीरितशारदारविन्दौ चरणौ ते मरणेऽपि चिन्तयामि ॥ १५८ ॥ ' मुनिविषया रतिर्यथा-
'विलोकनेनैव तवामुना मुने ! कृतः कृतार्थोऽस्मि निबर्हितांहसा । तथापि शुश्रूषुरहं गरीयसी - गिरोऽथवा श्रेयसि केन तृप्यते ॥ १५९ ॥
' एवंवादिनि..' उदाहृतपूर्वमत एव व्याख्यातपूर्व च पद्यमिदम् ॥ १५७ ॥ इत्यत्र । अवहित्था तन्नामा भावः । एवमन्येऽपि व्यभिचारिणो भावा उदाहृता अवगम्या इति दिकू ।
देवविषयां रतिं भावत्वेनोदाहरति- देवविषयेत्यादिना ।
देवविषया देवो दीव्यति स्वयं स्वातन्त्र्येण विकाशते इति, देवयति प्रकाशयतीति वा तथोक्तः, स्वप्रकाशात्मा सर्वप्रकाशको विष्णुरित्यर्थः, स विषयो यस्याः सेति तथोक्ता । रतिः प्रीतिर्भक्तिरिति यावत् । यथा । मुकुन्दमालायां तदाख्ये स्तोत्रे इति भावः । 'दिवि वा..' इत्यादिना ।
'हे नरकान्तक नरकासुर निहन्तः ! यद्वा नरकस्य तन्नाम्नो लोकविशेषस्योपचारात्तदीयक्लेशजातस्येत्यर्थः । अन्तको विनाशको निवर्त्तक इति यावत् तत्सम्बुद्धौ तथोक्त ! 'नरकः पुंसि निरये देवारातिप्रभेदयोः ।' इति मेदिनी । दिवि खर्गे । 'यदि मया किमपि सुकृतमुपासित' मिति शेषः । वा । भुवि पृथिव्याम् । 'यदि प्रारब्धमवशिष्टं भोक्त' मिति शेषः । वा । नरके निरये 'यदि पापमाचरित' मिति शेषः । वा ( अत्र निपाताधिक्यं सर्वथा क्लेशाभावं द्योतयति । प्रकामं यथेष्टं चिरकालं यावदिति यावत् । मम त्वच्चिन्तन दृढव्रतस्यास्येति भावः । वासो निवासः । अस्तु । अन्ये त्वेवमपि व्याचक्षते - 'दिवि मम वासः प्रकाममस्तु अथवा दिवि वा दिवीव स्वर्गे इवेति यावत् मम वासः प्रकाममस्तु, अथवा दिवि वा (दिवीव ) भुवि वा ( भुवीव ) नरके प्रकामं मम वासोऽस्तु । ' उपमायां विकल्पे वा' इत्यमरः ।' इति । अवधीरितशारदारविन्दौ अवधीरितौ तिरस्कृतौ स्वप्रभया पराजिताविति यावत् शारदारविन्दे शरत्काल विकाशिनी कमले याभ्यां तौ तथोक्तौ । ते तव । चरणौ । मरणे उपचारात् तदासन्नायामस्यामवस्थायाम् । अपि किं पुनः पूर्व समर्थावस्थायाम चिन्तयमितीत्यर्थः । चिन्तयामि । एतेनाजन्मनो मरणान्तं भक्तस्य परमात्मविषयिणी रतिः प्रतीयते । अत्र प्रतीपमलङ्कारः, उपमानस्यारविन्दस्यावधीरितत्वाभिधानात् । वैतालीयं छन्दः, तलक्षणं यथोक्तम्'वैतालीयं द्विखरा अयुक्पादे, यग्वसवोऽन्ते लगः । इति ॥ १५८ ॥'
यथा वा - 'चित्रं महानेष तवावतारः क्व कान्तिरेषाऽभिनवैव भङ्गिः । लोकोत्तरं धैर्य्यमहो प्रभावः काऽप्याकृतिनूतन एष सर्गः ॥ इति । अत्र हि - 'पश्यामि देवांस्तव देव ! देहे सर्वास्तथा भूतविशेषसङ्घान् ।' इत्यादाविव विस्मयस्य यज्यमानत्वेऽपि महापुरुषविषयायाः स्तोतृगतभक्तेरेव प्राधान्येनाभिव्यक्तिः ।
मुनिविषयां रतिमुदाहर्त्तुमुपक्रमते - मुनिविषयेत्यादिना ।
मुनिविषया मुनिर्नारदः सविषयो यस्याः सा तथोक्ता । रतिः प्रीतिर्भक्तिरिति यावत् । यथा-विलोकनेनैवेत्यादिना ।
'हे मुने नारदमुने ! अत्र नामानुच्चार्य सम्बुद्धिः । ' आत्मनाम गुरोर्नाम... न गृह्णीयात्... ' इत्युक्तदिशा तत्र गुरुत्वं सूचयति । अमुना । निबर्हितांहसा निबर्हितानि विनाशितान्यहांसि पापानि अस्मादृशां दुरितानि येन तादृशेन, नतु सम्प्रति पापानि निवर्त्तयितुं प्रार्थनीयेनेति भावः । एतेन तस्यातिश्ायितं महत्त्वं सूचितम् । 'अंहो दुरितदुष्कृतम् ।' इत्यमरः । विलोकनेन सानुकम्पं दृष्टिपातेनेति भावः । एव । किं पुनरातिथ्यग्रहणेनैतेनेति भावः । कृतार्थः कृतः पर्याप्तः सम्पन्न इति यावत् अर्थः धर्मादिचतुर्वर्गरूपं प्रयोजनं यस्य तथोक्तः । परिपूर्णसर्वार्थ इत्यर्थः ।
३७