________________
२८८ साहित्यदर्पणः। .
तृतीयःइत्युक्तदिशा परमालोचनया परमविश्रान्तिस्थानेन रसेन सहैव वर्तमाना अपि राजानुगतविवाहप्रवृत्तभृत्यवदापाततो यत्र प्राधान्येनाभिव्यक्ता व्यभिचारिणो देवमुनिगुरुनृपादिविषया च रतिरुः । दुद्धमात्रा विभावादिभिरपरिपुष्टतया रसरूपतामनापद्यमानाश्च स्थायिनो भावा भावशब्दवाच्याः।
तत्र व्यभिचारी यथा--
सिद्धिः स्वरूपसत्ता भवतीत्यर्थः ।' इत्युक्तदिशा । इत्येवं प्रदर्शितेन भरतादिनयेनेत्यर्थः । परमालोचनया परमा सिद्धान्तरूपा याऽऽलोचना मीमांसा तया तथोक्तया। परमविश्रान्तिस्थानेन परमा स्वप्नावस्थातोऽपि विलक्षणाऽसौ विश्रान्तिर्विश्रामश्चेतसः स्वव्यापारतः पराङ्मुखत्वमिति, सैव स्थानं स्वरूपस्थितिर्यस्य तेन तथोक्तन । यद्वा-परमा भावानां परिपाककालीनतयोत्कृष्टा विश्रान्तिरात्मनो विश्रामः ब्रह्मणीव चेतःसमाधिरिति यावत्, सैव स्थानं यस्य तेनेति पूर्ववत् । रसेन । 'सहयुक्तेऽप्रधाने ।' २।३।१९ इति तृतीया । एतेनात्र रसस्याप्राधान्यमभिव्यनितम् । सह । एव न त्वेकाकित्वेनेत्यर्थः। वर्तमानाः। अपि किं पुनरवर्त्तमाना इत्यर्थः । राजानुगतविवाहप्रवृत्तभृत्यवत् राजानमनुगता इति राजानुगताः, ते च विवाहे विवाहनिमित्तककार्यसम्पादने प्रवृत्ता इति विवाहप्रवृत्ताः, ते चेति राजानुगतविवाहप्रवृत्ताः, तेऽमी भृत्यास्ते इवेत्यर्थः । यथा राजपुरुषा विवाहनियुक्ता वा पुरुषास्तथेति भावः । आपाततः। यत्र यस्मिन् प्रबन्धे इत्यर्थः । प्राधान्येन रसोपकारमन्तरेणैवेति भावः । अभिव्यक्ता अभितो व्यक्ताः । व्यभिचारिणो निर्वेदादयोऽनियते रसे रत्यादयश्चेत्यर्थः । देवमुनिगुरुनृपादिविषया। आदिपदेन पूज्यान्तरग्रहणम् , प्रयोजनवशात् क्वचिदपूज्येऽपि कृतविषयेत्यर्थः । एवं च-'आदिशब्दान्मुनिगुरुनृपपुत्रादिविषया' इति प्रकाशोऽप्यनुकूलः । रतिः। च ( इदं व्यभिचारिणामपि समुच्चायकम् )। उद्धद्धमात्रा उबुद्धा किञ्चिदुद्भता मात्रा येषां तथोक्ताः, अत एव-विभावादिभिः। अपरिपुष्टतया परिपुष्टत्वाभावेनेत्यर्थः । रसरूपताम् । अनापद्यमाना अलभमानाः । स्थायिनो रत्यादय इत्यर्थः । च । भावा । भावशब्दवाच्याः।
अयम्भावः-'किं रसेभ्यो भावानां निर्वृत्तिः? उत भावेभ्यो रसानाम् ? आहोखित् परस्परसम्बन्धादेषामभिनिर्वृत्तिः? इति, दृश्यते हि भावेभ्यो रसानामभिनिर्वृत्तिः, न रसेभ्यो भावानाम् ; नानाऽभिनयसम्बद्धान् भावयन्ति रसानिमान् । यस्मात्तस्मादमी भावा विज्ञेया नाट्ययोक्तभिः ॥ न भावहीनोऽस्ति रसो न भावो रसवर्जितः । परस्परकृता सिद्धिस्तयोरभिनये भवेत् ( रतयो रसभावयोः)॥ व्यञ्जनौषधिसंयोगो यथाऽन्नं स्वादुतां नयेत् । एवं भावा रसाश्चैव भावयन्ति परस्परम् (एवमेव रसान् भावा भावयन्ति सचेतसः)॥ यथा बीजाद्भवेदवृक्षो वृक्षात्पुष्पं फलं ततः । तथा मूलं रसाः सर्वे ततो भावा व्यवस्थिताः॥' इत्यादि भरतायुक्तनयेन रसानां भावानां चान्योऽन्यं, निःसन्देहमुपकार्योपकारकत्वम् ।' अथाप्यत्र रसस्याप्राधान्यं भावस्य पुनः प्राधान्यमभिप्रेतम् , अत एव-सहयोगे रसशब्दस्य तृतीयाऽन्तत्वेन निर्देशो युज्यते । यद्यपि रसो नृपतिरिव विवाह इवेति प्रधानतया निर्देश्यः, तथाऽपि-भाव एव तथा निर्दिष्टः, अन्यथा तत्पुरुषसमास एव न सङ्गच्छेत, 'राजपुरुष' इत्यादौ पुरुष इवात्रापि भाव एव प्रधानभूतः । इदमुक्तम्-राजानमनुगता अपि तदीया जनाः यथाऽऽपाततः प्रधानभूताः, यथा वा विवाहे भृत्यतया प्रवृत्ता अपि जना अध्यक्षाः प्रतीयन्ते तथा रसमुपजीव्य वर्तमानोऽपि भाव आपाततः प्रधानभूतः । इति । अत एवोक्तं भरतेन-'योऽर्थों हृदयसंवादी तस्य भावो रसोद्भवः । शरीरं व्याप्यते तेन शुष्ककाष्ठमिवाग्निना ॥' इति सर्वमवदातमितरत् ।' इति ।
क्रमात् व्यभिचाऱ्यादिरूपं भावमुदाहर्तमुपक्रमते-तत्रेत्यादिना ।
तत्र तेषु व्यभिचाऱ्यांद्यनेकभेदभिन्नेषु भावेषु मध्य इति यावत् । व्यभिचारी तत्सझको भाव इत्यर्थः । यथा-'एवंवादिनि..' इत्यादौ।