________________
पारच्छेदः) रुचिराख्यया व्याख्यया समेतः।
२८७ . रसनधर्मयोगित्वाद् भावादिग्वपि रसत्वमुपचारादित्यभिप्रायः । भावादय उच्यन्ते२७५ सञ्चारिणः प्रधानानि देवादिविषया रतिः ॥ २९० ॥
उबुद्धमात्रः स्थायी च भाव इत्यभिधीयते । 'न भावहीनोऽस्ति रसो न भावो रसवर्जितः। परस्परकृतासिद्धिरनयो रसभावयोः ॥' सन्धिः प्रशमोदययोरन्तरालावस्थेति भावः । प्रशमोदययोर्भावसम्बन्धित्वात्सन्धेरपि भावसम्बन्धित्वमित्यूह्यम् । तथा च-द्वयोस्त्रयाणां वा भावानामाविर्भावतिरोभावयोर्मध्यावस्था भावसन्धिरिति निर्गलितोऽर्थः । शबलता सङ्करता । अत्र वचनविपरिणामेन भावानामित्यनुषञ्जनीयम् । च (समुच्चयार्थमिदम् ) । इति इत्येते । सर्वे रसभावरसाभास
वाभासादय इत्यर्थः । अपि किं पुनरेको द्वौ वेति भावः । रसनात् 'रस्यते आस्वाद्यत' इति व्युत्पत्यवष्टम्भेनास्वादनधर्मादुपचारात्तद्योगादित्यर्थः । रसा रसपदेनापि व्यपदेश्या इति भावः ॥ २८९ ॥
उक्तमर्थं तात्पर्य्यतो ग्राहयति-रसनधर्मयोगित्वादित्यादिना।
रसनधर्मयोगित्वात् रसनरूपस्य धर्मस्य ( रसत्वस्य ) योगित्वात्सम्बन्धित्वात् । भावादिषु । भावरसाभासभावाभासादिषु । अपि किं पुनः शृङ्गारादिषु रसेवित्यर्थः । उपचारात् 'उपचारो हि नामात्यन्तं विशकलितयोः शब्दयोः सादृश्यातिशयमहिम्ना भेदस्थगनमात्रम्' इत्युक्ताद् व्यवहारविशेषात् तमवलम्ब्येत्यर्थः । अत्र ल्यपो लोपे पञ्चमी। रसत्वम् । इति । अभिप्रायः । इदम्बोध्यम्-शृङ्गारादीनां रसत्वं तु भवत्येव, किन्तु रसाभासभावभावाभासादीनामपि रसत्वं रसत्वाविशेषादौपचारिकम् । इति ।
ननु केषां भावत्वं केषां पुनराभासत्वमित्याशङ्कयोत्तरयितुं प्रतिजानीते-भावादय इत्यादिना।
भावादयो भावरसाभासभावाभासभावशान्तिभावोदयभावसन्धिभावशबलता इत्यर्थः । उच्यन्ते क्रमातू'इति शेषः । २७५ सञ्चारिणः..इत्यादिना । . २७५ प्रधानानि प्रधानभूता इत्यर्थः । अजहल्लिङ्गतयाऽस्य क्लीवत्वम् । सञ्चारिणो निर्वेदादयस्त्रयस्त्रिंशत् रत्यादयश्चानियते रसे नव दश वेति भावः । तथा-देवादिविषया देवादिपूज्यमात्रविषयेति मुनीन्द्रानुयायिनः, देवादिपूज्या पूज्यविषयेति प्रकाशकारानुयायिनः । रतिर्भक्तिव्यपदेश्या प्रीतिरिति मुनीन्द्रानुयायिनः । प्रीतिारत्येवेति तु प्रकाशकारानुयायिनः । उदबुद्धमात्रः । मात्रपदेन विभावादिभिः परिपोषितस्य रत्यादेर्भावत्वशङ्काऽपाकृतेति वेदितव्यम् । स्थायी रत्यादिरित्यर्थः । च (समुच्चयार्थमिदमव्ययम्)। भावः । इति । अभिधीयते । ननु रत्यादेः स्थायिनोऽपि भावत्वं पूर्वमभिहितम् । अथ कथमस्य भावत्वमपाक्रियते इति चेत् ? स्थायी भाव एव, यदि न विभावादिभिः परिपोषितः, तथात्वे तु तस्य रसत्वेनैवावस्थानात् । अत एव-'उद्बुद्धमात्रः' इत्युक्तमिति विभावनीयम् ॥ २९॥
ननु व्यभिचारिणां कथं प्रधानत्वं 'सञ्चारिणः प्रधानानि' इत्युक्त्वा दर्शितमिति चेत् ? एवभित्याह-'नभावहीनोsस्ति...'इत्यादिना ।
'भावहीनो भावेन निदाद्यन्यतमेन हीनः शून्य इति तथोक्तः । निर्वेदाद्यन्यतमेनाप्यसम्पर्कीति भावः । रसः शृङ्गाराधन्यतमः । न । अस्ति भवतीति शेषः । रसवर्जितो रसेन शृङ्गाराद्यन्यतमेन वर्जितः शून्य इति तथोक्तः । शृङ्गाराधन्यतमेन केनापि असम्पर्कीत्यर्थः । भावो निर्वेदाद्यन्यतमः । न । तस्मात्-अनयोः परस्परमाश्रितयोः । रसभावयोः । परस्परकृता परस्परं सिद्धसाधकाभ्यामिवान्योऽन्यं कृता रसभावाभ्यां सम्पादितेति तथोक्ता।