________________
[तृतीयः
२८६
साहित्यदर्पणः। आद्यः शृङ्गारः । एषां च समावेशप्रकारो वक्ष्यते । २७३ कुतोऽपि कारणात्कापि स्थिरतामुपयन्नपि ॥ २८८ ॥
उन्मादादिर्न तत्स्थायी न पात्रे स्थैर्यमेति यत् । यथा विक्रमोर्वश्यां चतुर्थेऽङ्के पुरूरवस उन्मादः । अथ भावादीनामपि रसत्वमाह__२७४ रसभावौ तदाभासौ भावस्य प्रशमोदयौ ॥ २८९ ॥
सन्धिः शबलता चेति सर्वेऽपि रसनाद्रसाः।
सन्देहापनयनाय कारिकास्थमाद्यपदार्थ स्पष्टयति-आद्यः । शृङ्गारः। इति भावः । नन्वेषां क्वचित्समावेशोऽप्यनुज्ञेय इत्याशङ्कयाह-एषामित्यादिना ।
एषां विरुद्धतयाऽभिहितानां शृङ्गारकरुणादीनां रसानामित्यर्थः । च । समावेशप्रकारः। वक्ष्यते 'सप्तमे परिच्छेदे दोषाणां प्रतिप्रसवाभिधानावसरे'इति शेषः ।
ननु रत्यादेरिवोन्मादादेरपि क्वचित् सम्भवे उन्मादादेरापि स्थायित्वं मन्तव्यमिति चेनेत्याह-२७३ कुतोऽपीत्यादिना ।
२७३ यत् यस्मात् कारणात् । पात्रे आलम्बने तदभेदाध्यासाच्च सामाजिके इति भावः। 'योग्यभाजनयोः पात्रम्' इत्यमरः । उन्मादादिरुन्मादप्रमादादिः । उन्मादप्रमादयोर्भेदस्तु-'उन्मादश्चित्तविभ्रमः ।' 'प्रमादोऽनवधानता' इत्यमराद्युक्त्या बोद्धव्यः । स्थैर्य स्थिरतामव्यभिचारितया सर्वत्र सम्भवमिति यावत् । न । एति प्राप्नोति । तत् तस्मात् कारणात् । 'त्वि'ति त्वपपाठः । क्वापि कस्मिंश्चिदालम्बने । यद्वा-कस्याञ्चिन्मन्मथायुद्भेददशायामित्यर्थः । कुतोऽपि कस्मादपि अवितर्कितात् । कारणात् । स्थिरतामवस्थितताम् । उपयन् प्राप्नुवन् । अपि किं पुनरनुपयनिति तत्त्वम् । 'अपि सम्भावनाप्रश्नशङ्कागर्हासमुच्चये । तथा युक्तपदार्थे च कामचारक्रियासु च ॥' इति विश्वः । न । स्थायी स्थायिभावव्यपदेशाह इति भावः । इदमुक्तम्-यो यस्य रसस्य यावत्सत्त्वं सर्वत्रैव न तु कस्मिंश्चिदेवालम्बनेऽवतिष्ठते स तस्य स्यायीति वक्तुं शक्यते। उन्मादादिस्तु न तथाभूत इति नास्य स्थायिभावोचित्यम् । इति ॥ २८८ ॥
उदाहरति-यथेत्यादिना।
यथा । विक्रमोर्वश्यां तदाख्ये त्रोटके । चतुर्थे । अङ्के । पुरूरवसस्तदभिधेयस्य चन्द्रवंशभूषणस्य राजर्षेरित्यर्थः । उन्मादः । अयम्भावः-यथा भृङ्गारालम्बनस्य पुरूरवस एवोन्मादः, न त्वेवमपरस्य कस्यापीति नास्य स्थायित्वम् । इति ।
काव्यात्मतयाऽभिमतो रसो न केवलं शृङ्गारादिमात्रव्यपदेश्यः, किन्तु 'रस्यते रस इति व्युत्पत्तियोगाद् भावतदाभासादयोऽपि गृह्यन्ते' इति पूर्वोकं सिंहनिरीक्षणन्यायेन निरीक्षमाणो व्यभिचारिभावादयोऽपि रसव्यपदेश्या इति समर्थयितुं प्रतिजानीते-अथेत्यादिना । - अथोन्मादादीनां स्थायित्वनिराकरणानन्तरम् । भावादीनां व्यभिचारिभावादीनाम् । अपि किं पुनस्तथातथा पुष्यमाणस्य रत्यादेः स्थायिभावस्येत्यर्थः । 'गाँसमुच्चयप्रश्नशङ्कासम्भावनास्वपि।' इत्यमरः । रसत्वं रसस्वरूपत्वम् । आह-२७४ रसभावौ..इत्यादिना ।
२७४ रसभावौ रसश्च भावश्चेति तौ। रसः शृङ्गारादिरूपः, भावः पुनर्निर्वेदादिरूप इति बोध्यम् । तदाभासौ तयो रसभावयोराभासौ इति तथोक्तौ । रसाभासो भावाभासश्चेत्यर्थः । भावस्य निर्वेदादे रसान्तरे च रत्यादेरपीति भावः । प्रशमोदयौ प्रशमः शान्तिः, स चोदयश्चेति तथोक्तौ । तथा च-भावशान्तिर्भावोदयश्चेति निर्गलितोऽर्थः ।