________________
२८५
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । एतेषां रसानां च परस्परविरोधमाह२७२ आद्यः करुणबीभत्स-रौद्रवीरभयानकैः ॥ २८४ ॥
भयानकेन करुणे-नापि हास्यो विरोधभाक् । करुणो हास्यशृङ्गार-रसाभ्यामपि तादृशः ॥ २८५ ॥ रौद्रस्तु हास्यशृङ्गार-भयानकरसैरपि । भयानकेन शान्तेन तथा वीररसः स्मृतः ॥ २८६ ॥ शृङ्गारवीररौद्राख्य-हास्यशान्तैर्भयानकः । शान्तस्तु वीरशृङ्गार-रौद्रहास्यभयानकैः ॥ २८७ ॥ शृङ्गारेण च बीभत्स इत्याख्याता विरोधिता।
नुयाहि न मां प्रयाहि । हा हन्त ! लक्ष्मण ! किमित्यनुयासि तात ! स्वेदाञ्चितं मुखमिदं श्रमितोऽसि कष्टम् ॥' इति । प्रजाऽऽलम्बनो यथा-'आर्य्य ! ननु रामभद्र ! इत्येव मां प्रत्युपचारः शोभते तातपरिजनस्य ।' इति । इदम्बोध्यम्-यदि पुत्रादेः पित्रादौ प्रेम तर्हि न तस्य वत्सलस्थायित्वम्, तत्र भक्तरेव साम्राज्यात् । यदि तु पित्रादेः पुत्रादौ तदैव तस्य वात्सल्यात्मनाऽवतारः, युज्यते च वत्सलस्थायिभावत्वम् । ननु तर्हि 'रामभद्र..' इत्यादौ कथं कञ्चुकिनो रामालम्बनः, रामस्य वा कञ्चुक्यालम्बनोऽयं रस इति चेत् ? अत्रापि कञ्चुकिनो रामबाल्यं, रामस्य च कञ्चुकिदीनप्रजात्वं मत्वैवेति प्रतिभासते । यद्यपि रामस्य कञ्चुकिनं प्रति 'आर्येति सम्बुद्धथा पूज्यत्वप्रत्यायनमिति वक्तुं सुशकम् । तथाऽपि तस्य तं प्रति तद्भीतिं निवर्तयितुमेव 'आर्य' इति सम्बुद्धिः । अत एव-'यथाऽभ्यस्तमभिधीयताम्' इत्युत्तरग्रन्थः सङ्गच्छते । परिपालनीयमनुचरमपि 'आर्य' इति सम्बुद्धिः परिपोषयति रामगतं तद्विषयकं वात्सल्पम् । इति मुनीन्द्रमतानुमन्तारः । इति ।
रसानामेकत्र समावेशो विभाव्य विधेय इत्यनुषङ्गतो बोधयन् वत्सलस्य मतान्तरेणैव रसत्वमिति निर्दिशश्च तेष कस्य केनैकत्र न समावेशौचित्यमिति सन्देहमपाकर्तुं प्रतिजानीते-एतेषामित्यादिना ।।
एतेषामभिहितानां नवानामित्यर्थः । एतेन-वत्सलस्य मतान्तरेणैव रसत्वमिति सूचितम् । रसानां शृङ्गारादिशान्तान्तानामित्यर्थः। च। परस्परविरोधं परस्परं विरोधो विरुद्धसत्ताकत्वं तमिति तथोक्तम्। आह-२७२आद्यः...इत्यादिना।
२७२ आद्यो मुख्यः प्रथममभिहितो वेत्यर्थः । शृङ्गारो नाम रस इति भावः। करुणबीभत्सरौद्रवीरभयानकैः वृद्धो यूने'त्यादिनिर्देशात् । अत्र सहाथै तृतीया । एवं पुरस्तात् 'विरोधभाक्'इति परेणान्वेति । हास्यः तन्नामा रस इत्यर्थः । भयानकेन । करुणेन । अपि । विरोधभाक् । करुणः । अपि पुनारत्यर्थः । हास्यशङ्गाररसाभ्याम् । तादृशो विरोधभागित्यर्थः । रौद्रः । तु पुनः । हास्यशृङ्गारभयानकरसैः । अपि विरोधभाक् सम्भाव्यत इत्यर्थः । — गाँसमुच्चयप्रश्नशङ्कासम्भावनास्वपि ।'इत्यमरः । वीररसः । भयानकेन । तथा । शान्तेन । 'विरोधभाग्'इति पूर्वतोऽनुवृत्तम् । स्मृतः । भयानकः। शृङ्गारवीररौद्राख्यहास्यशान्तैः शङ्गारवीररौद्रहास्यशान्तैस्सममित्यर्थः । “विरोधभाक् 'इति पूर्वतोऽन्वेति। शान्तः। तु पुनः । वीर हास्यभयानकैः। 'विरोधभा'गिति पूर्वतोऽन्वेति । बीभत्सः। च। शडारेण विरोधमा गिति शेषः । इति । एवमिति शेषः । विरोधिता। आख्याता अभिहितेति भावः । इदम्बोध्यम्-अत्र शहारादीनामेव रसानामन्योऽन्य विरोधः प्रदर्शितः, तस्मात् वत्सलस्य रसत्वं न कविराजाभिमतम् । एषां च यथा एकत्र विरोधिनोर्न भवेत् समावेशस्तथा यतितव्यम् । मुनीन्द्रमतानुयायिनस्त्वाहुः-शृङ्गारादीनामेव रसानां विरोधदर्शनात् वत्सलस्य च तदभावान्न कविराजानुमतो वत्सलो रस इति मन्दमुक्तम् । एवं सति अद्भुतस्यापि रसत्वं कविराजाननुमतं स्यात्, तदिति-यथाऽद्भुतस्य न केनापि विरोधः, तथा वत्सलस्यापि । शृङ्गारेण यद्यपि विरोधः, किन्त्वसावपि अद्भतस्य शान्तेनेवाभासमात्रः । इति ।