________________
-
२८५ ..
साहित्यदर्पणः।
[तृतीयःसञ्चारिणोऽनिष्टशङ्का-हर्षगर्वादयस्तथा ॥ २८३ ॥
पद्मगर्भच्छविर्वों दैवतं लोकमातरः । 'यदाह धाच्या प्रथमोदितं वचो ययौ तदीयामवलम्ब्य चाङ्गुलीम् । अभूच्च नम्रः प्रणिपातशिक्षया पितुर्मुदं तेन ततान सोऽर्भकः ॥ १५६ ॥'
यथा
अनिष्टशङ्काहर्षगर्वादयोऽनिष्टस्य शङ्केति अनिष्टशङ्का, सा च हर्षश्च गर्वश्चेति ते आदौ येषां (जाड्यादीनाम् ) ते । सञ्चारिणो व्यभिचारिभावाः । 'प्रकीर्तिता' इति पूर्वतोऽन्वेति। तथा-पद्मगर्भच्छविः पद्मगर्भस्येव छविर्यस्येति तथोक्तः । वर्णः। एवम्-लोकमातरः । दैवतम्। 'प्रकीर्तिता' इत्येव लिङ्गवचनविपरिणामेनान्वेति ॥ २८१ ॥ २८२ ॥ २८३ ॥
अत्र प्राचः-'वत्सलो' रसोऽप्यपरोऽवश्यमङ्गीकार्यः। रसत्वापरपायाश्चमत्कारितायाः स्फुटं प्रतीयमानत्वात् ।' इत्याहुः । नव्याः पुनः-(यदाह धाच्या..) इत्यादौ वात्सल्यलक्षणा रतिरेव जागर्ति, न तेन वत्सलो रसोऽङ्गीकरणीयः,
तार्थत्वात् । यदि स च रसव्यपदेशमर्हति तदा भगवदालम्वनो रोमाञ्चाद्यनुभाविनो हर्षादिसञ्चारितो भागवतादिश्रवणसमये भगवद्भत्तौः स्फुटमनुभूयमानो भक्तिरसः कुतो न स्यात् । भगवदनुरागरूपा भक्तिश्चात्र स्थायिभावः। नचायं शान्तेऽन्तर्भावमर्हति, अनुरागस्य वैराग्यविरुद्धत्वात् । नन्वसौ अपि रसत्वव्यपदेशं लभतां, का क्षतिः ? इति चेत्, न; अन्यथैव उपपत्तौ मुनेः शासनातिक्रमेण रसानां नवत्वाधिककल्पने मानाभावात् ।' इति । अन्ये तु-'एषोऽपि रस इति व्यपदेशमर्हति, 'करुणवात्सल्य (वत्सल) भयानकेष्वनुदात्तस्वरितकम्पितवर्णैः पाठ्यमुपपादयती'त्यभिदधता मुनिनाऽस्यापि प्रकारान्तरेण खीकृतत्वात् । न च वात्सल्यमपि रतिः, मनसः प्रवणायितत्वाविशेषात् । इति वाच्यम् , दयाऽऽद्युत्साहस्याप्येवं रतित्वोपपत्तौ काव्यमार्गस्याकुलीभावप्रसङ्गात् । ‘रतिर्देवादिविषया व्यभिचारी तथाजितः । भावः प्रोक्तः'इति नयेन भक्तेर्व्यभिचारित्वेन कण्ठतः स्वीकृतत्वात्तस्या रसव्यपदेशस्तु सम्भवत्येव, न च 'आदिशब्दात गुरुनृपपुत्रादिविषयाया अपि रतेय॑भिचारित्व'मिति नयेन वात्सल्यस्यापि व्यभिचारित्वमेव मन्तव्यमिति वाच्यम्, तत्र 'पुन्नाम्नो नरकात् घोरात् त्वमेव त्रातुमीश्वरः। आयुष्मानेधि दयया तातं तस्य परात्मनः ॥'इत्यायुदाहरणाया एव पुत्रविषयाया रतेर्व्यभिचारित्वेनाभिमननात् । न च 'यदाह धात्र्या..'इत्यादावपि रतेरिति वाच्यम् , अन ततो वैलक्षण्यस्य सहृदयहृदये जागरूकत्वात् । इति व्याचक्षते ।
उदाहरति-यथा-'यदाह..'इत्यादिना।
'स रघुनामेत्यर्थः । अर्भको बालः । 'पोतः पाकोऽर्भको डिम्भः पृथुकः शावकः शिशुः । इत्यमरः । धाच्या स्तन्यपानार्थं नियुक्तयोपमात्रेत्यर्थः । 'धात्री स्यादुपमाताऽपि..'इत्यमरः । प्रथमोदितं प्रथममुदितमुक्तम् । यत 'अयि तात ! शिशुरेष प्रणमति'इत्यादिरूपमित्यर्थः । वचः। आह । तदीयां तस्या धाश्या इयं तां तथोक्तां, धात्रीसम्बन्धिनीमिति भावः । अङ्गलीम् । अवलम्ब्य गृहीत्वेत्यर्थः । च । ययौ प्राप्तवानभूत् । प्रणिपातशिक्षया प्रणिपातस्य पूज्यानां पुरतः प्रणामस्य शिक्षा एवं प्रणामः कर्त्तव्य इति शिक्षा तया । च । नम्रः । अभूत् । तेन । पितुर्दिलीपस्थेत्यर्थः । मुदं हर्षम् । ततान वर्धितवान् । रघुवंशस्थेदं पद्यम् । अत्र वंशस्थं वृत्तम् , तल्लक्षणं चोक्तं यथा-'जतौ तु वंशस्थमुदीरितं जरौ ।' इति ॥ १५६ ॥
इदम्बोध्यम्-अत्र दिलीपवात्सन्यस्य बाल्यावस्थो रघुरालम्बनम् , तदीयमीहितमुद्दीपनं विभावः, आक्षेप्यो मुखविकाशादिग्नुभावः, तेन तद्विषयकौत्सुक्यादयः सञ्चारिणवेषां संयोगाद्वत्सलो व्यज्यते । इति । यथा वा-'एह्येहि वत्स ! रघुनन्दन। पूर्णचन्द्र ! चुम्बामि मूर्धनि चिरं च परिध्वजे त्वाम् । आरोप्य वा हृदि दिवानिशमुद्वहामि वन्दे चरणपुष्करकद्वयं ते ॥' इति, अत्र हि दशरथवात्सल्यस्य राम आलम्बनं तन्मधुरमधुरदर्शनमुद्दीपनमत्युत्कण्ठयाऽऽह्वानाद्याक्षिप्तौत्सुक्याद्यनुभाव आवेगादिः सञ्चारी चेत्येतैरभिव्यक्तं वात्सल्यं वत्सलरसतामापद्यमानस्तदभेदाध्यवसायेन सचेतसां वात्सल्यं तदात्मना तैरमुभूयते । अथ भ्रात्रालम्बनोऽयं यथा-'बालोऽसि मुग्धमधुरोऽसि सुखोचितोऽसि दूरं प्रयान्तम