________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । अये गौरीनाथ ! त्रिपुरहर ! शम्भो ! त्रिनयन !
प्रसीदेति क्रोशनिमिषमिव नेष्यामि दिवसान् ॥ १५५॥' अथ मुनीन्द्रसम्मतो वत्सलः
२७१ स्फुटं चमत्कारितया वत्सलं च रसं विदुः।
स्थायी वत्सलतास्नेहः पुत्राद्यालम्बनं मतम् ॥ २८१ ।। उद्दीपनानि तच्चेष्टा-विद्याशौर्य्यदयाऽऽदयः। आलिङ्गनाङ्गसंस्पर्श-शिरश्चुम्बनवीक्षणम् ॥ २८२ ॥ पुलकानन्दबाष्पाद्या अनुभावाः प्रकीर्तिताः ।
भाल इति भावः । अञ्जलिपुटम् । निदधानः। अये (प्रेमामन्त्रण इदम् ) । 'अये अयि चानुनये' इति गोपालः । गौरीनाथ गौUः पार्वत्याः शुद्धाया विद्याया वा नाथो वल्लभस्तत्सम्बुद्धौ तथोक्त ! त्रिपुरहर त्रिपुरस्य तदाख्यासुरस्य त्रिपुराणां स्थूलसूक्ष्मकारणभेदात् त्रिविधानां शरीराणां वा हरस्तत्सम्बुद्धौ तथोक्त ! शम्भो शक्कर ! त्रिनयन सूर्य्यचन्द्र पावकात्मकनेत्रत्रयशालिन्! त्रिषु कालेषु लोकेषु वा नयनं दृष्टिज्ञानमिति यावत् , यस्य तत्सम्बुद्धौ तथोक्त ! प्रसीद प्रसन्नो भव । इतीत्येवम् । क्रोशनुच्चै?षन् । निमिषं निमेषोन्मीलनपरिमितं कालम् । इव (इदमुत्प्रेक्षार्थम् ) । दिवसान् प्रारब्धभोगावसरव्यजकान् वारान् । नेष्यामि अपनेष्यामि । कस्यचिच्छेवस्येयमुक्तिः । अत्र शार्दूलविक्रीडितं छन्दः । तल्लक्षणं चोक्तं प्राक् ॥ १५५॥'
इदं बोध्यम्-अत्र हि-गङ्गातटनिवासपूर्वकं कौपीनाच्छादनमात्रेच्छयाऽहकारराहित्यं व्यज्यते इत्यस्य शान्तत्वानतिरेकित्वम् । इति । इदमपि बोध्यम्-यदि तु देवताविषया रतिरभिमानपुरस्कृता, तदा तु न शान्तव्यपदेशाहीं । यथा'सुरस्रोतखिन्याः पुलिनमधितिष्ठन्नयनयोर्विधायान्तर्मुद्रामथ सपदि विद्राव्य विषयान् । विधूतान्तन्तिो मधुर मधुरायां चिति कदा निमग्नः स्यां कस्याश्चन नवनभस्याम्बुदरुचि ॥' इति ।
यद्यपि न सकलसम्मतो वत्सलो रसः, किन्तु केवलं मुनीन्द्रसम्मतः, तथाऽपि तदनिरूपणे तावता त्रुटिारति तन्निरूपयितुमुपक्रमते-अथेत्यादिना ।
__ अथ सिद्धान्ततयाऽभिमतानां शृङ्गारादीनां निरूपणानन्तरमित्यर्थः। मुनीन्द्रसम्मतः मुनीन्द्रः कश्चित् प्रागालङ्गारिको जातस्तस्य सम्मतः । एतेन अत्र खसम्मतेरपि अभावः सूचितः । वत्सलस्तन्नामा रसः । 'निरूप्यते' इति शेषः । २७१ स्फुटं..इत्यादिना।
२७१ स्फुटं न तु सन्दिग्धमिति भावः । चमत्कारितया चमत्कारः काव्यजीवातू रसत्वमिति यावत् सोऽस्मिन् अस्तीति तस्य भावस्तत्ता तया, यद्वा-चमत्कुरुते सहृदयानुभवतया प्रकाशते सहृदयान् वाऽऽहादयतीति एवम्भूततयेत्यर्थः । वत्सलम् । च अपीत्यर्थः । रसम् । विदुः। 'मुनीन्द्रप्रभृतय इति शेषः । अस्य च-वत्सलतास्नेहो वत्सलताऽभिनिविष्टः स्नेह इत्यर्थः । असमस्तपाठाङ्गीकारे तु-वत्सलता नाम स्नेह इत्यर्थः । स्थायी स्थायिभावः । पुत्रादि । आदिपदेन कनिष्ठभ्रात्रादीनां ग्रहणम् । आलम्बनम आलम्बनविभाव इत्यर्थः । मतम् । तच्चेष्टाविद्याशौर्य्यदयाऽऽदयः तस्य पुत्रादेश्चेष्टाविद्याशौर्यदयाऽऽदयः । चेष्टा च विद्या च शौर्य च दया चेति ता आदौ येषां ते । आदिना दाक्षिण्यादीनां प्रहणम् । उद्दीपनानि तदाख्या विभावाः। आलिङ्गनाङ्गसंस्पर्शशिरश्चुम्बनवीक्षणम् । अत्र समाहारेण क्लीबत्वमेकवचनान्तत्वं चेति बोध्यम् । तथा। पुलकानन्दबाष्पाद्या पुलकश्च (रोमोद्मश्च) आनन्दवाष्पमानन्दहेतुकमच चेति ते आया येषाम् ( अभिनन्दनादीनां) ते तथोक्ताः । अनुभाषाः । प्रकीर्तिताः।