________________
२८३
[ तृतीयः
- साहित्यदर्पणः। यथास्मिन् सुखाभावोऽप्युक्तः । तस्य वैषयिकसुखपरत्वान्न विरोधः । उक्तंच
'यच्च कामसुखं लोके यच्च दिव्यं महत् सुखम् । तृष्णाक्षयसुखस्यैते नार्हतः षोडशी कलाम् ॥' 'सर्वाकारमहङ्काररहितत्वं व्रजन्ति चेत् ।
अत्रान्तर्भावमर्हन्ति दयावीरादयस्तदा ॥' इति च । आदिशब्दात् धर्मवीरदानवीरदेवताविषयरतिप्रभृतयः । तत्र देवताविषया रतिर्यथा
'कदा वाराणस्यामिह सुरधुनीरोधसि वसन् वसानः कौपीनं शिरसि निदधानोऽञ्जलिपुटम्।
ननु शमस्य सुखरूपतया 'न सुखमिति कथं सङ्गमिष्यते इत्याशङ्कयाह-यश्चेत्यादिना ।
यः। च । अस्मिन् शान्तरसे सति । सुखाभावः। अपि । उक्तः 'न सुख'मित्यादिना उक्तः । तस्य शान्तोदये प्रत्याख्यातस्य सुखस्येति भावः । वैषयिकसुखपरत्वात् । न नैव । विरोधः। अयम्भावः-'न सुख' मित्यादिना प्रत्याख्यातं यत्सुखं तत् वैषयिकं, यच्च शमे सुखं तत्ततोऽतिरिक्तमितिन कश्चिद्विरोधः । इति ।
नन्वेवं कथमवगतमित्याह-उक्तम् । च । आचाय्यरिति शेषः ।।
किमित्याह-यत्। च । कामसुखं कामानां (भोगादिना) सुखमिति तथोक्तम् । लोके मर्त्यलोके सम्भवतीत्यर्थः । यत। च । दिव्यं दिवि भवं स्वर्गगतै ग्यमिति यावत् । महत् । सुखम् । 'श्रूयते'इति शेषः । एते 'ते' इति शेषः । तृष्णाक्षयसुखस्य तृष्णाया ऐहिकामुष्मिकविषयभोगविषयाया अभिलाषायाः क्षय एकान्ततोऽपनोदनं तस्य सुखमानन्दवल्लयादिषु ब्रह्मानुभवजन्य आनन्दस्तस्य । षोडशीम् । कलामंशम् । न । अर्हतः । अयम्भावः'तष्णाक्षयो हि विषया विनिवर्तन्ते निराहारस्य देहिनः । रसवर्जे रसोऽप्यस्य परं दृष्टा निवर्तते ॥' इत्युक्तदिशा परमात्मसाक्षात्कारानन्तर एवेति तस्मिन् सति ऐहिकं चामुष्मिकं च सुखं सर्व विरसायते । अत्र सर्वाऽऽनन्दवल्लीप्रमाणम् ॥'इति। अथ 'चेत् । सर्वाकारं सर्वाकारश्चेष्टा यत्र, तद् यथा भवेत्तथा। 'आकाराविगिता कृती।' इत्यमरः । सर्वं देहेन्द्रियादि आकार आश्रयो यस्य तद् यथा भवेत्तथेति वा । अहङ्काररहितत्वम् । व्रजन्ति 'दयावीरादिनायका' इति शेषः । तदा । अत्रास्मिन् शान्तरसे । दयावीरादयः । अन्तर्भावम् । अर्हन्ति ॥' इति । च ।
आदिशब्दोपादानप्रयोजनं दर्शयति-आदिशब्दादित्यादिना ।
आदिशब्दादादिशब्दमुपादायेत्यर्थः । धर्मवीरदानवीरदेवताविषयकरतिप्रभृतयः । ‘उपादीयन्ते' इति शेषः । प्रभतिशब्देन च धर्मविषयकरत्यादिनां प्रणम् । इदं च बोध्यम्-दयावीरादिनायका यदा देहेन्द्रियादिविषयकाभिमानशन्या भवन्ति, तदा तेषां दयावीरादयः शान्तरसखरूपा एव भवन्ति । तत्र यथा-दयावीरो बुद्धस्य, धर्मवीरो जनकस्य, दानवीरी दधीचः, देवतारातः प्रहादस्य इति ।
एतेषां शान्तरसस्वरूपत्वं दिङ्मात्रं निर्दिशन्नाह- तत्र तेषु निरहङ्कारनायकनिष्ठदयावीरादिषु मध्य इत्यर्थः । देवता. विषया। रतिः । यथा । 'कदा..' इत्यादौ।
'कदा कस्मिन् सुसमय इत्यर्थः । वाराणस्यां काझ्याम् , तदधिकरणक इति यावत् । इहास्मिन् । सुरधुनीरोधसि सुरधुन्या सुराणां धुनी नदी तस्या गङ्गाया रोधस्तटं तत्र। 'तटिनी हादिनी धुनी।' 'कूलं रोधश्च तीरं चेत्यमरश्च । बसना कौपीनं चीरं गुह्यं वा। वसानो दधान आच्छादन्वा। 'वस आच्छादने' इत्यस्मात् शानचिरूपमिदम् । शिरसि