________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। तत्रान्तर्भावमर्हति, अतश्च नागानन्दादेः शान्तरसप्रधानत्वमपास्तम् । ननु
'न यत्र दुःखं, न सुखं, न चिन्ता, न देषरागौ न च काचिदिच्छा।
रसः स शान्तः कथितो मुनीन्द्रः सर्वेषु भावेषु समप्रधानः॥' इत्येवंरूपस्य शान्तस्य मोक्षावस्थायामेवात्मस्वरूपापत्तिलक्षणायां प्रादुर्भावात् तत्र सञ्चा-- दीनामभावात् कथं रसत्वमित्युच्यते
२७० युक्तवियुक्तदशायामवस्थितो यः शमः स एव यतः ॥
रसतामेति तदस्मिन् सञ्चार्यादेः स्थितिश्च न विरुद्धा ॥ २८० ॥ सद्भावं वक्तुमशक्यत्वात् । तत्र दयावीरादावित्यर्थः । न नैव । अन्तर्भावम् । अर्हति । अतोऽस्मात् साहङ्कारत्वनिरहङ्कारत्वकृतभेदजागरूकत्वाद्धेतोः। च ।नागानन्दादे दयावीरधर्मवीरशालिन' इति शेषः। आदिना चण्डकौशिकादीनां ग्रहणम् । शान्तरसप्रधानत्वम् । अपास्तमपाकृतं भवतीत्यर्थः ।
अस्य रसत्वमाक्षिपति-नन्वित्यादिना ।
ननु-'यत्र यस्मिन् रस इत्यर्थः । दुःखम् । न नास्ति । सुखं 'चेति शेषः । न । चिन्ता'चेति शेषः । न नास्तीत्यर्थः । द्वेषरागौ द्वेषो रागश्चेत्यर्थः । 'चेति शेषः । न नास्ति । काचित् केनचिद्विशेषेण विशेषिता । इच्छा । च । न नास्तीत्यर्थः । सः । सर्वेषु । भावेषु पदार्थेषु । समप्रधानः समं भेदरहितं प्रमाणं प्रतीतिर्थेन तथोक्तः । शान्तः । रसः । मुनीन्द्रैः भरतादिभिराचारित्यर्थः । कथितः । 'शमप्रधान' इति पाठान्तरम् , एतस्मिन्सत्येषोऽर्थः । सर्वेषु सर्वविधेषु अर्थानर्थकारणभूतेष्वित्यर्थः । भावेषु चेष्टितेषु सत्सु । ‘भावः सत्तास्वभावाभिप्रायचष्टाऽऽत्मजन्मसु ।' इत्यमरः । यत्र यस्मिन् प्रतीयमान इत्यर्थः । दुःखमहो आपदियमुपस्थितेति कष्टम् । न । सुखं च । न । चिन्ता कथमेषोऽनों निवय॑ते कथं वा समत्स्यतेऽर्थ इति चिन्तनम् । चना द्वेषरागौ द्वेषोऽर्थविघातपूर्वमनर्थोपस्थापकानामपचिकीर्षा, रागश्चानुरागोऽनर्थविघातपूर्वकमर्थोपस्थापकानामुपचिकीर्षा । च न । काचित । च । इच्छाऽभिलाषा । च । न । सः। शमप्रधानः शमः प्रधानं स्थायी यत्र तथोक्तः । शान्तः। रसः । मुनीन्द्रैः। कथितः ॥' इति अवेन्द्रवज्रोपेन्द्रवज्रयोरुपजातिदछन्दः । तल्लक्षणं चोक्तं प्राक् ॥'
इत्येवंरूपस्येत्येवम्प्रकारेण निदर्शितस्वरूपस्य । शान्तस्य । आत्मस्वरूपापत्तिलक्षणायामात्मनः स्वस्य ब्रह्मण इति यावत्। पारमार्थिकदशायां स्वस्य ब्रह्माभेदात्, खरूपं तस्यापत्तिर्बोधमहिना विस्मरणापनयनं सैव लक्षणं यस्यास्तस्याम् । मोक्षावस्थायाम् । एव 'न तु ततः पूर्वमपी'ति शेषः । प्रादुर्भावात् । तत्र तस्मिन् शान्तस्य प्रादुर्भाव इति यावत् । सश्चार्यादीनां व्यभिचारिभावादीनां हर्षादीनामिति यावत् । आदिना क्वचिदुद्दीपनविभावानां ग्रहणम् । अभावादसम्भवात् । कथम् । रसत्वम् । इतीत्येवं बुभुत्सायामिति भावः । उच्यते-२७०
२७० यतो यस्मात् कारणात् । यः। युक्तवियुक्तदशायाम् । युक्तो योगारूढः ‘यदा हि नेन्द्रियार्थेषु न कर्मखनुरज्यते । सर्वसङ्कल्पसन्न्यासी योगारूढस्तदोच्यते ॥'इत्युक्तलक्षणो ज्ञानिविशेष इति यावत् , वियुक्तो विशिष्टो युक्तः ‘योगिनामपि सर्वेषां मद्गतेनान्तरात्मना । श्रद्वावान् भजते यो मां स मे युक्ततमो मतः ॥' इत्युक्तलक्षणो युक्ततम इति यावत्, तयोर्दशाऽवस्था, तस्यां तथोक्तायाम् । दशा चान्तरालभवैवाऽत्र ग्राह्या, अत एवैकवचनं सङ्गच्छते । तथा च-युक्त( योगारूढ) दशात उत्कृष्टा, वियुक्त (युक्ततम) दशातः पुनरपकृष्टा या दशा तस्यामित्यर्थः । अवस्थितः। शमः। अत एवोक्त-'योगारूढस्य तस्यैव शमः कारणमुच्यते'इति । सः । एव न त्वन्यः । रसता. मास्वादनीयताम् । एति लभते । तत्तस्मात् कारणात् । अस्मिन् शमस्थायिके शान्ते रस इत्यर्थः । सञ्चार्यादेः । आदिपदेन विभावस्य ग्रहणम् । च। स्थितिः। विरुद्धा। न भवतीति शेषः । इदमुक्तम्-विषयेभ्यः समाकृष्य परमात्मनि मनसः प्रणिधीयमानत्वे शमः आलम्बनादिना सम्भूय रसत्वमुपपद्यते। तदस्मिन् निर्वेदादेः सम्भवो निर्बाधः, निर्विण्णस्यैव मनो विषयेभ्यो व्यावर्त्य परमात्मनि प्रणिधीयते । इति । अत्रार्याछन्दः, तल्लक्षणं चोकं प्राकू ॥ २८० ॥