________________
[तृतीयः
साहित्यदर्पणः। अस्य दयावीरादेः सकाशाद्भेदमाह---
२६९ निरहङ्काररूपत्वाद् दयावीरादिरेष नो ॥ २८२ ॥ दयावीरादौ हि नागानन्दादौ जीमूतवाहनादेरन्तरा मलवत्याद्यनुरागादेरन्ते च विद्याधरचक्रवर्तित्वाद्यप्तिदर्शनादहङ्कारोपशमो न दृश्यते । शान्तस्तु सर्वाकारणाहङ्कारप्रशमैकरूपत्वात्र एवंविध एष इत्युद्वेगपूर्वकमिति यावत् । च । सकौतुकं सोत्सवम् , दिष्टयाऽयमेवंविध इति सप्रेम यथा भवेत्तथेत्यर्थः । च । सदयम् । दृष्टस्य । नियाजीकृतचित्सुधारसमुदा निर्व्याजीकृतः कामक्रोधादिक्षयेन निष्प्रतिवन्धकीकृती यश्चित्सुधारसश्चिदेवसुधा तस्या रस आखादस्तस्य मुदानन्दस्तयेति तथोक्तया । कामादीनपहाय चिदानन्देऽ. नुभूयमान जायमानन प्रमोदेनत्यर्थः । निद्रायमाणस्य निद्रां नाटयत इत्यर्थः । मे ममत्यर्थः । भिक्षां याशयालब्धमन्नमित्यर्थः । कदा कस्मिन्सुसमय इत्यर्थः । करपुटोभिक्षां करौ हस्तावेव पुटी पत्ररचितं द याद्याधानयोग्यं पात्रं तत्र भिक्षा तां, करयुगलात्मिकायां पुठ्यां स्थितां भिक्षामित्यर्थः । विलठिष्यत्यपहरिष्यतीतस्ततो वा विकिरनापनेष्य. तीत्यर्थः । कस्यापि निर्विण्णस्येयमुक्तिः-तथा च, अत्र शमः स्थायीभावो निःसारतया ज्ञातन जगता, अस्य वा सर्व खल्विदं ब्रह्मेति नयेन परमात्मताज्ञानेनालम्बनेन ब्रह्मानुभवानन्दे देहाध्यासशैथिल्येनोद्दीपनेन भिक्षाऽन्नापहरणादावपि निरुद्वेगादिनाऽनुभावेन निर्वेदादिना सञ्चारिणा च सम्भूय रसतामापद्यमानः सामाजिकैरनुभूयते । इति निष्कृष्टम् । शार्दूलविक्रीडितं वृत्तम् , एतल्लक्षणं चोक्तं प्राक् ॥ १५४॥'
यथा वा मलयानिलकालकूटयो रमणीकुन्तलभोगिभोगयोः । पचात्मभुवोनिरन्तरा मम जाता परमात्मनि स्थितिः ॥'इनि. अन हि सर्वस्मिन्नपि प्रपने परमात्मभावनयाऽऽलम्बनेनाक्षिप्तेन वदान्तशात्रोपदेशेनोद्दीपनेन सर्वत्र साम्यमूलन रागदूषराहित्येनानुभावन मत्यादिना समारणा निर्विष्णस्य शमा रगतामापद्यमान: सामाजिक रनुभूयते । यथा वा-शिलं किमनलं भवेदनलमादरं बाधितुं ! पयःप्रतिपूरक किमु न धारक सारकम् । अयनमलमल्पकं पथि पटचर कचरं भजन्ति विबुधा मुधा हहह कुक्षितः कुक्षितः ॥' इति, अत्र हि जगताऽनित्यनाजाननालम्बनेन पुण्यविशेषेणोद्दीपनेन तृष्णाराहित्यादिनाऽनुभावेन निर्वेदादिना सञ्चारिणा च शमो रसतामापयगानीऽनुभूयत इति बोध्यम् ।
ननु दयावीरधर्मवीरंदेवताविषयकरतिभावश्वेवास्य कथं नान्तर्भावः, उभयत्र कारुण्याद्यतिशयाद्यनुभाव्यमानत्वात् , इत्याशस्योत्तरयितुमुपक्रमते-अस्येत्यादिना ।
अस्य शान्तस्य । दयावीरादेः । सकाशात् । भेदम् । आह-२६९ निरहङ्काररूपत्वादित्यादिना ।
२६९ पष शान्त इत्यर्थः । निरहङ्काररूपत्वानिर्गतोऽहकारी यस्मात्, स रूपं स्वरूपं यस्य तस्य भावस्तत्व तस्मात् । शमस्थायिकतयाऽह'मिति प्रलयावष्टम्भकत्वादिति भावः । दयावीरादिस्तत्स्वरूपभूत'इति शेषः । आदिना धर्मवीरादीनां ग्रहणम् । नो न भवतीत्यर्थः । 'अभाव नह्य नो नापी'त्यमरः ॥ २८८ ॥
तंदेवोपपादयति-दयावीरादावित्यादिना ।
नागानन्दादौ नागानन्दं नाम श्रीहर्षप्रणीतं तदादौ यस्य (चण्डकौशिकादेः) तत्र। हि यतः । 'हि हेताववधारण ।' इत्यमरः । जीमूतवाहनादेर्जीमूतवाहनो मलवत्या वल्लभ आदौ यस्य (हरिश्चन्द्रप्रहादादेः) तस्य । दयावीरादौ दयावीरधर्मवीरादौ विषये । दर्शनात् । अहङ्कारोपशमः । न नैष । दृश्यते। कुत इत्याह- अन्तरा मध्ये नागानन्दादेराद्याङ्कादाविति यावत् । 'अथान्तरेऽन्तरा । अन्तरेण च मध्ये स्युः' इत्यमरः । मलवत्याद्यनुरागादेः । आदिना शैब्यादीनामभिधानम् । अन्तेऽन्त्येऽङ्क इति भावः । च । विद्याधरचक्रवर्तित्वाद्याप्तः । आदिना राज्यैश्वर्यदिव्यसुखभोक्तृत्वादीनां ग्रहणम् । अयम्भावः-दयावीरादे यका जीमूतवाहनादयस्तेषां तत्त्वे सत्यपि नायिकाऽनुरागादीनां सद्भावेन 'अह' मिति प्रत्ययालम्बनत्वं, तन्नैषां निरहकारत्वम् । इति । शान्तः। तु पुनः । सकारेण सर्वथा सर्वप्रकारेणेति यावत् । अहङ्कारप्रशमैकरूपत्वात् । अन्यथा शमस्थायिकत्वानुदये तस्येव