________________
यथा--
पारच्छेदः]
रुचिराख्यया व्याख्यया समेतः। अथ शान्तः२६८ शान्तः शमस्थायिभाव उत्तमप्रकृतिमतः ।
कुन्देन्दुसुन्दरच्छायः श्रीनारायणदेवतः ॥ २७८ ॥ अनित्यत्वादिनाऽशेष-वस्तुनिःसारता तु या। परमात्मस्वरूपं वा तस्यालम्बनमिष्यते ॥ २७९ ॥ पुण्याश्रमहरिक्षेत्र-तीर्थरम्यवनादयः । महापुरुषसङ्गाद्या-स्तथोद्दीपनरूपिणः ॥ २८० ॥ अनुभावाश्च रोमाञ्च-तोषभूतदयाऽऽदयः ।
निर्वेदहर्षस्मृतय-स्तथा स्युर्व्यभिचारिणः ॥ २८१ ॥ 'रथ्याऽन्तश्चरतस्तथा धृतजरस्कन्थालवस्याध्वगैः सवासं च सकौतुकं च सदयं दृष्टस्य तै गरैः । निर्व्याजीकृतचित्सुधारसमुदा निद्रायमाणस्य मे
निःशङ्कः करटः कदा करपुटीभिक्षां विलुण्ठिष्यति ॥ १५४॥' अथ नवम शान्तं लक्षयितुमुपक्रमते-अथेत्यादिना । अथाद्भुतनिरूपणानन्तरम् । शान्तः। लक्ष्यते-२६८ शान्त इत्यादिना ।
२६८ शमस्थायिभावः शमः स्थायी भावो यत्र तथोक्तः। उत्तमप्रकतिरुत्तमः प्रकृतिनायको यस्य तथोक्तः । कुन्देन्दुसुन्दरच्छायः कुन्देन्दुवत्सुन्दरच्छाया यस्य तथोक्तः । 'छाया सूर्यप्रभा कान्तिः प्रतिबिम्बमनातपः ।' इत्यमरः । श्रीनारायणदेवतः श्रिया युक्तो नारायणः स दैवतं यस्य तथोक्तः। शान्तस्तन्नामा रसः । मतः । या। तु पुनः । अनित्यत्वादिना। आदिना नीरसत्वादीनां ग्रहणम् । 'ज्ञायमानेने ति शेषः । अशेषवस्तुनिःसारता। वाऽथवा। परमात्मस्वरूपं परमात्मनः खरूपं 'ज्ञायमान' मिति शेषः । तथा च-'सर्व खल्विदं ब्रह्मे' त्यायुक्तदिशा जगतो ब्रह्माभिन्नत्वं, ब्रह्मणश्च ‘सत्यं ज्ञानमनन्तं ब्रह्मे' त्याद्युतदिशा सत्यखरूपत्वादि ज्ञायमानमिति निर्गलितोऽर्थः। तस्य शान्तस्येत्यर्थः । आलम्बनम् । इष्यते स्वीक्रियते ॥ पुण्याश्रमहरिक्षेत्रतीर्थरम्यवनादयः । आदिना सरोवरमहीधरादीनां ग्रहणम् । तथा। महापुरुषसङ्गाद्याः । आद्यपदेन तेषां संवादोपदेशादीनां ग्रहणम्। उद्दीपनरूपिणः॥रोमाश्चतोषमतदयाऽऽदयः। आदिना चिन्ताविरहादीनां ग्रहणम् । च। अनुभावाः मताः । तथा । निर्वदहर्षस्मृतयः । इदमुपलक्षणं मत्यादीनाम् । व्यभिचारिणः । स्युः । अत्र प्रायः "रोमाञ्चाद्याश्चानुभावास्तथा स्युर्व्यभिचारिणः । निर्वेदहर्षस्मरणमतिभूतदयादयः ॥' इति पाठान्तरमुपलभ्यते, अत आद्यपदेनामोदोन्मोदादीनां ग्रहणम् , आदिपदेन धैर्यादीनां चेति बोध्यम् । भूतदया च दैन्यविशेषरूपत्वाद्भावः । यथोक्तं 'भूतदया चदैन्यविशेष एव परदुःखेन परोपचिकीर्षया वा स्वदुःखेन स्वानौजस्यस्य दयात्वेन कोडीकरणा'दिति ॥२७८ ॥ २७९ ॥२८०॥२८१ ॥
उदाहरति-यथा-'रथ्याऽन्त'इत्यादौ ।
'निःशङ्को निर्गता मत्क्रोधसम्भावनमूला शङ्का यस्य तथाभूतः । करटः काकः । 'काके तु करटारिष्टबलिपुष्टसकृत्प्रजाः ।'इत्यमरः । रथ्याऽन्तो रथ्यानां पथां चत्वराणां वान्तरिति तथोक्तम् । 'रथ्या तु रथसङ्घाते प्रतोल्यां पथि चत्वरे ।' इति मेदिनी । चरतः पर्यटतः । तथा । धृतजरत्कन्थालवस्य जरन् पुरातनः कन्थालवः कन्थाया भिक्षूणामाच्छदनीयस्य वस्त्रस्य लवो लेशः खण्डमिति यावत् यस्य (आच्छादनीयत्वेन) तस्य तथाभूतस्य । तैः प्रसिद्धैर्बहशः परिचितैरित्यर्थः । अध्वगैः पथिकैः । तथा-नागरैर्नगरभवैर्जनैरित्यर्थः । अत्र बहुत्वेनेदमपि विवेदिषितं, यत् तत्र केचिदाऱ्याः केचिच्चाना• इति । अत एव-सत्रासं सोद्वेगं यथा स्यात्तथा। अहह किमिति