________________
साहित्यदर्पणः।
[ तृतीयःतथा नेत्रविकाशाद्या अनुभावाः प्रकीर्तिताः ।
वितर्कावेगसम्भ्रान्ति हर्षाद्या व्यभिचारिणः ॥ २७७ ॥ यथा
'दोर्दण्डाश्चितचन्द्रशेखरधनुर्दण्डावभङ्गोधतटद्वारध्वनिरार्यबालचरितप्रस्तावनाडिण्डिमः। द्रापर्य्यस्तकपालसम्पुटमिलद्रह्माण्डभाण्डोदर
भ्राम्यत्पिण्डितचण्डिमा कथमहो नाद्यापि विश्राम्यति ॥ १५३ ॥' तथा। नेत्रविकाशाद्या नेत्रविस्फारा निमिषत्वादय इत्यर्थः । अनुभावाः। तस्य'ति पूर्वतोऽन्वेति । प्रकीर्तिताः। एवम्-वितर्कवेगसम्भ्रान्तिहर्षाद्या वितर्कश्चावेगश्च सम्भ्रान्तिश्च (उन्मादश्च ) हर्षाद्याश्चेति तथोक्ताः । आधपदेनौगम्यादीनां ग्रहणम् । व्यभिचारिणः । 'तस्थे ति पूर्वतोऽत्राप्यनुवृत्तम् ॥ २७५ ॥ २७६ ॥ २७७ ॥
उदाहरति-यथा-'दोर्दण्डाश्चित..' इत्यादौ।
'दोर्दण्डाश्चितचन्द्रशेखरधनुर्दण्डावभनोद्यतो दोषौ भुजावेव दण्डौ ताभ्यामञ्चित आकुञ्चितो यश्चन्द्रः शेखरे यस्य तस्य चन्द्रशेखरस्य महेशस्य धनु: पिनाकाख्यश्चाप एव दण्ड इति धनुर्दण्डरतस्यावभानावज्ञाय मानेनोगत उत्थित इति तथोक्ताः । भुजाभ्यां यन्महेशधनुराकुच्य खण्डितं तजन्य इति भावः । “गुजबाह प्रवेष्टोदोः स्या' दित्यमरः । अत्र दण्डस्य द्विरुक्ते: पुनरुक्तत्वं दोषः । द्राक्पर्य्यस्तकपालसम्पुटमिल ब्रह्माण्टुभाण्डोदरभ्राम्यतूपिण्डितचण्डिमा दाग झटिति प्रतियातस्य महिम्ना पर्यस्तः परितः क्षिप्तो यः कपालसम्पुटे मिलत् श्लिष्यमाणं यद्रह्माण्डं तदेव भाण्डं तस्योदरं तत्र भ्राम्यन् पिण्डितो घनीभूतश्चण्डिमोग्रत्वं स यस्य तथोक्तः । कपालयोस्तत्सदृशयोरुपरितनाधस्तनयोः पिधानपात्रयोः सम्पुट इत्यर्थः । अयम्भाव:-यथा कस्मिंश्चित् सम्पुटे निहितं भाण्डमुत्क्षिप्तं सदनवस्थितं भवति, तथा ब्रह्माण्डमपि, तादृशस्य चास्यान्तभ्राम्यन्नितस्ततोऽविश्राम सञ्चलन् (व्याप्नुवन् ) पिण्डीभूतमुग्रत्वं यस्य तथाभूतः । एतेन-टङ्कारध्वनिरेव न विष्वग्व्याप्ता, किन्तु तच्चण्डिना ब्रह्माण्डमपि सम्पुटस्थं भाण्डमिवोरिक्षप्तमिवाभूत् । इति । चण्डस्य भावश्चण्डिमा। पृथ्वादित्वादिमनिच् । अत्र पिण्डो जातो यस्येति तथोक्तत्वमारोपितम्, अमूर्तस्य मूर्तत्वमन्यथा नोपपद्येत । आर्य्यबालचरितप्रस्तावनाडिण्डिम आर्यो गाम्भीर्योदाऱ्यादिना धन्यमान्य: सोऽसौ वालो बालत्वेनास्थितो रामस्तस्य चरितानि तेषां प्रस्तावना कीर्तनारम्भस्तस्या डिण्डिमो राजाऽऽज्ञानिशामनार्थी वाद्यविशेष उपचादात्तध्वनिस्वरूपभूत इति तथोक्तः । टङ्कारध्वनिष्टडि' त्याकारस्याव्यक्तशब्दस्य कारः सोऽसौ ध्वनिरिति तथोक्तः । कथम् । अहो। अद्यास्मिन्नहीत्यर्थः । अपि । न। विश्राम्यति विरमति निवर्तत इति यावत् । दीर्घकालव्यापिना भग्नस्य पिनाकस्य टङ्कारेण चकितस्य लक्ष्मणस्योक्तिरियम् । वालरामायणस्य पद्यमिदम् । अत्र शार्दूलविक्रीडितं वृत्तम् , तल्लक्षणं चोक्तं प्राक् ॥ १५३ ॥'
अत्रायम्भावः-रामेण यन्महेश्वरस्य धनुराकुच्य खण्डितं, तध्वनिना च यदेतद्ब्रह्माण्डं परिपूरितं तत्वबालचरितानां प्रस्तावनाडिण्डिमेनेव अत एव टङ्कारध्वनिप्रस्तावनाडिण्डिमयोरभेदाध्यवसायोऽत्र सङ्गच्छते। अयं च ध्वनिरुच्चैस्तिष्टन् लक्ष्मणं चकितं कृतवान् , अत एव किश्चित्समयानन्तरमेव लक्ष्मणस्य भ्रान्तिारयमुदयत, यत्, बहन् दिवसान् व्याप्याय ध्वनिः, अन्यथा 'अद्यापी' त्यत्रापः सार्थक्यं मा भृत् । तथा च-टङ्कारधनिनाऽऽलम्बनेन तद्दीर्घकालव्यापित्वेनोद्दीपनेन घनेरुद्भवे दिनान्तरभ्रान्तिरूपेणानुभावन हर्षादिना समारिणा च लक्ष्मणगतो विस्मयो रसतामापद्यमानः सामाजिकै. रनुभूयते । इति । नच 'चित्रं महानेषवतावतारः क्व कान्तिरेषाऽभिनवैव भङ्गिः। लोकोत्तरं धैर्यमहो प्रभावः कायाकृतिनूतन एष सर्गः ॥' इत्युदाहाय॑म्, स्तोतृभक्तेः प्राधान्योन विस्मयस्य गुणीभूतत्वात् । इदं तदाहाय॑म्-'एते किन्ननु रात्यमेव तरवश्चञ्चत्प्रसूनोत्कराः, किं वा काचन वाटिके यमनघा यस्याममी कोकिलाः । चित्रं कुत्र तिरोहिता मरुपरा सा पत्र में पत्तनं नानानिर्झरवैभवं कुत इदं सद्यः समुन्मीलितम् ॥' इति । ऐन्द्रजालमहिम्ना खदेशे पुष्पवाटिकाss. विर्भावं दृष्टवतः कस्यचिन्मरुदेशीयस्यमुक्तिः ।