________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः।
अथाद्भुतः२६७ अद्भुतो विस्मयस्थायि-भावो गन्धर्वदैवतः ।
पीतवर्णो वस्तु लोका-तिगमालम्बनं मतम् ॥ २७५ ॥ गुणानां तस्य महिमा भवेदुद्दीपनं पुनः ।
स्तम्भः स्वेदोऽथ रोमाञ्च-गद्गदस्वरसम्भ्रमाः ॥ २७६ ॥ त्यात्सप्तमीसमासः । 'प्रेतोभूतान्तरे पुंसि मृते स्याद्वाच्यलिङ्गकः। इति मेदिनी। रक्षः कृपणमन्दयोः।' इति गोपालः । प्रथमं 'मांसोद्धाटनादपी'ति शेषः । कृत्तिं चर्म । 'मृतशरीरस्येति शेषः । 'अजिनं चर्म कृत्तिः स्त्री'त्यमरः । उस्कृत्यो. स्कृत्योत्पाट्योत्पाट्येत्यर्थः । अत्र वीप्सायां द्विर्भावः । अथानन्तरम् । पृथूत्सेधभूयांसि पृथुर्विपुलश्चासावत्सेध उन्नतत्वमुच्छूनत्वमिति यावत् , तेन भूयांसि बहुलानीति तथोक्तानि । अंसस्फिपृष्ठपिण्डाद्यवयवसुलभान्यसो (स्कन्धौ) च स्फिचौ (कटिस्थमांसपिण्डौ) च पृष्टं च पिण्डाद्यवयवाः (पिण्डी जानुनोरधोभागौ आदी येषां [जानूर्वभागादीनां ] चेति, तेषु सुलभानीति तथोक्तानि । 'स्कन्धो भुजशिरोऽसोऽस्त्री।' स्त्रियां स्फिचौ कटिप्रोथौ ।' 'पृष्टं तु चरमं तनोः ।' इति चामरः । “पिण्डी स्यात् पिण्डिकायां स्त्री'ति गोपालः । उग्रपूतीन्युनोत्कटा सोढुमक्षभेति यावत्, पूतिर्दुगन्धो येषां तथाभूतानि । 'पूतिगन्धस्तु दुर्गन्धः'इत्यमरः । मांसानि । जग्ध्वा भक्षयित्वा । अङ्कस्थादुत्सङ्गे स्थितादित्यर्थः । 'उत्सङ्गचिह्नयोरङ्क'इत्यमरः । करडान्मस्तकात् । करको मस्तक'इति मेदिनी। अस्थिसंस्थमस्थिषु लग्नम् । स्थपुटगतं स्थपुटं विषमोन्नतं शरीरभागं गतमिति तत्तथोक्तम् । 'स्थपुटं विधमोन्नतम् ।' इति गोपालः | अपि किं पुनरन्यदिति शेषः । क्रव्यं मांसम् । 'पललं क्रव्यमामिषम् ।' इत्यमरः । अव्यग्रं न व्यग्रो यस्मात्तादृशो यथा भवेत्तथेत्यर्थः । अत्यन्तं क्षुधार्ततया बलवत्प्रेतान्तरभीतत्वेन तावताऽपि क्षुधानिवृत्त्यभावाच सति व्यमस्वमिति भावः । यद्वा-शनैरित्यर्थः । मांसान्तरस्य कृतभक्षणत्वेनोदरपर्याप्तेर्व्यग्रतामपहायेति भावः । अति भक्षयति (अत एवास्य दरिद्रत्वम्) । मालतीमाधवस्येदं पद्यम , इमशाने शवभोजनं कशित पिशाचं दृष्ट्वा बीभत्मिनस्य माधवम्योतिरियम् । अत्र च स्रग्धराछन्दः, तलक्षणं चोक्तं प्राक् ॥ १५ ॥
अत्रेदम्बोध्यम्-प्रेतरतेनालम्बनेन कृत्त्युत्कर्त्तनादिनोद्दीपनेन तदद्रष्टर्निष्टीवनमुखसंवरणादिनाऽनुभावन मोहादिना सञ्चारिणा च प्रेतरकव्यापारे जुगुप्सासामाजिके रसतामापद्यते । इति । यथा वा-'नखैर्विदारितान्त्राणां शवानां पूयशोणितम्। आननेष्वनुलिम्पन्ति हणा वेतालयोषितः' इति । अत्र हि शव आलम्बनमन्त्रविदारणागुद्दीपनमाक्षिप्तो नेत्रनिमीलननिष्टीवनरामोद्गमादिरनुभाव आवेगादिय॑भिचारिभावश्चेत्येतैः सम्भूयमाना द्रष्टणां जुगुप्सा सामाजिकेषु रसतामापद्यते । अत्राहुः पण्डितराजाः-'ननु रतिक्रोधोत्साहभयशोकविस्मयनिर्वेदे (शमे) पु प्रागुदाहतेषु यथाऽऽलम्बनाश्रययोः सम्प्रत्ययो, न तथा हासे जुगुप्सायां च, तत्रालम्बनस्यैव प्रतीतेः, पदाधीतुश्च रसास्वादाधिकरणत्वेन लौकिकहासजुगुप्साऽऽश्रयत्वानुपपत्तेः, इति चेत्सत्यम् ! तदाश्रयस्य पुरुषविशेषस्य तत्राक्षेप्यत्वात् , तदनाक्षेपे तु श्रोतु: खीयकान्तावर्णनपद्यादिव रसोद्वोधे बाधकाभावात् ।' इति ।
अथाद्भुतं निरूपयितुमुपक्रमते-अथेत्यादिना । , अथ बीभत्सनिरूपणानन्तरम् । अद्भुतो निरूप्यते-२६७ अद्भुत इत्यादिना ।
२६७ विस्मयस्थायिभावो विस्मयः स्थायिभावो यस्य तादृशः । गन्धर्वदैवतो गन्धवों दैवतं यस्य तभोक्तः । 'ब्रह्माधिदैवत' इति तु युक्तः पाठः ‘अद्भुतो ब्रह्मदैवतः ।' इति भरतोत्तेः । पीतवर्णः। अद्धतः । तस्य (इदमुत्तरश्लोकादाकृष्यते)। 'अद्भुतस्येति शेषः । लोकातिगं लोकं संसारमतिगच्छत्यतिक्रामतीति तथोक्तम् । लोकविलक्षणमिति भावः । वस्तु । आलम्बनम् । मतं स्वीकृतम् ॥ तस्य-गुणानां 'विम्मयोत्पादकहेतुभूताना' मिति शेषः । महिमा महत्त्वमुत्कृष्टत्वमिति यावत् । महतो भावो महिमा। 'पृथ्वादिभ्य इमनिज वा।'५।१।१२२ इतीमनिचि टेः ।' ६।४।११५ इति टेर्लोपः। पुनः । उद्दीपनम् । भवेत् । अथ । स्तम्भो जाड्यम् । स्वेदः। रोमाश्चगद्दस्वरसम्भ्रमा रोमाञ्चश्च गद्गदखरश्च सम्भ्रमश्च (भयजनितस्त्वराविशेषश्च) इति ते तथोक्ता मता इति शेषः।