________________
२७६
अथ बीभत्स:
साहित्यदर्पणः ।
२६६ जुगुप्सास्थायिभावश्च बीभत्सः कथ्यते रसः । नीलवर्णो महाकाल - दैवतोऽयमुदाहृतः ॥ २७२ ॥ दुर्गन्धमांसरुधिर- मेदांस्यालम्बनं मतम् । तत्रैव कृमिपाताद्य - मुद्दीपनमुदाहृतम् ॥ २७३ ॥ निष्ठीवनास्यवलन - नेत्रसङ्कोचनादयः ।
अनुभावाश्च मोहाद्यास्तथा स्युर्व्यभिचारिणः ॥ २७४ ॥
यथा
'उत्कृत्योत्कृत्य कृतिं प्रथममथ पृथुत्सेधभूयांसि मांसान्यंसस्फिक पृष्टपिण्डाद्यवयवसुलभान्युग्रपूतीनि जग्धा । आर्त्तः पर्यस्तनेत्रः प्रकटितदशनः प्रेतरङ्कः करङ्कादङ्कस्थादस्थिसंस्थं स्थपुटगतमपि क्रव्यमव्यग्रमत्ति ॥ १५२ ॥ '
[ तृतीय:
भयं सामाजिके रसतामापद्यते । यथा वा मम - सिंहवन विनय दरेन्द्र ध्यातवान् प्रथितविक्रमघन्यः । योषितो रिपुअनय सहास्तैस्तत्यजुः सपदि सौभगतृष्णाम् ॥' इति, अत्र च रिपुस्त्रीणां भयं ससिंहनादं शङ्खमानेनालम्बनेन तद्भयङ्करत्नदीपनेन रोदनेन पतिजीवननैराश्येन चानुभावाभ्यां दैन्यमाहादिना व्यभिचारिणा च सम्भूय रसतामापद्यमानः सामाजिक भूयते । यथा वा घोरमम्भाघरध्वानं निशम्य बजवालकाः । मातुर के निलीयन्ते सकम्पविकृतस्वराः ॥' इति, अत्र व्रजबालानां भयमम्भोधरश्वाननालम्बनंन तंत्र कन्येनोद्दीपनेन मातृणामुत्सङ्गेषु निलयनेन सकम्पस्वरवैकृत्येन वानुभावाभ्यां त्रासावेगाभ्यां सनारिभ्यां च सामाजिकानां रसतामापद्यते । इति दिक ।
एवं भयानकं निरूप्य बीभत्सं निरूपयितुमुपक्रमते - अथेत्यादिना ।
अथ भयानक निरूपणानन्तरम् । बीभत्सः निरूप्यते - २६६ जुगुप्सा इत्यादिना ।
२६६ जुगुप्सास्थायिभावो जुगुप्सा घृणा कुत्सितत्वेनावगमनमिति यावत् स्थायी भावो यस्य स तथोक्तः । व । बीभत्सो बीभत्स्यते जुगुप्स्यत इति तथोक्तः । 'वध' कुत्सायाम्, कुत्मायां सन, भावे घना रसः । कथ्यते । अयं बीभत्सो नाम रसः । नीलवर्णः । महाकालदैवतो महाकालो दैवतं यस्य तथोक्तः । उदाहृतः कथितः । तत्र तस्मिन् बीभत्स इत्यर्थः । एव । दुर्गन्धमांसरुधिरमेदांसि । भालम्बनम् । मतम् । अत्र 'वेदाः प्रमाण' मित्तिवदुद्देश्य विधेयत्वमिति बोध्यम् । तथा कृमिपाताद्यम् । आद्यपदेन दुर्गन्धित्वादीनां प्रणम् । उद्दीपनम् । उदाहृतम् 'आचार्य' रिति शेषः । च निष्ठीवना-स्यवलननेत्र सङ्कोचनादयो निष्ठीवनं ( मुखेन श्लेष्मणो निष्कास) चास्यवलनं ( आस्यस्य वलनमाच्छादनम् ) च नेत्रसङ्कोचनादयः (नेत्रयोः गोचनमादिर्येषां [ वमनवैचित्यादीनाम् ] तथोक्ताः ) चेति तथोक्ताः । अनुभावाः । तथा । मोहाद्याः | आयपदेनापस्मारादीनां ग्रहणम् । व्यभिचारिणः । स्युः । ' अनुभावास्तत्र मतास्तथा स्युर्व्यभिचारिणः । मोहोऽपम्मार आवेगो व्याधिश्व मरणादयः ॥ ' इति पाठान्तरम् । तथा च जुगुप्सास्थायिभावको नीलवर्णो महाकालाधिष्ठानको दुर्गन्धितमांसाद्यालम्बनको दुर्गन्धत्वाद्दीपनको निष्ठीवनाद्यनुभावको मोहापस्मारादिसञ्चारिको रसो बीभत्सनामा भवतीति निष्कृष्टम् ॥ २७२ ॥ २७३ ॥ २७४ ॥
उदाहरति-यथा- 'उत्कृत्योत्कृत्य..' इत्यादौ ।
'आर्त्तः पीडितः । ' क्षुधये 'ति शेषः । अत एव - पर्यस्तनेत्रः पर्यस्ते अन्तः प्रविष्टत्वेन पतिते बलवत्सजातीयान्तरभीतत्वेन विक्षिप्ते वा नेत्रे यस्य येन वेति तथोक्तः । प्रकटितदशनः प्रकटिताः ( दैन्यात् स्थपुटगतमांसग्रहणार्थं वा) दशना दन्ता येन तथोक्तः । प्रेतरङ्कः प्रेतेषु पिशाचविशेषेषु रङ्कः (कृपणो दरिद्र इति यावत् ) इति तथोक्तः । शौण्डादि