________________
परिच्छेदः
. रुचिराख्यया व्याख्यया समेतः । ___ २६५ भयानको भयस्थाय-भावः कालाधिदैवतः ।
स्त्रीनीचप्रकृतिः कृष्णो मतस्तत्त्वविशारदैः ॥ २६८ ॥
यस्मादुत्पद्यते भीतिस्तदत्रालम्बनं मतम् । चेष्टा घोरतरास्तस्य भवेदुद्दीपनं पुनः ॥ २६९ ॥ अनुभावश्च वैवर्ण्य गद्गदस्वरभाषणम् ।। प्रलयस्वेदरोमाञ्च-कम्पदिक्प्रेक्षणादयः ॥ २७० ॥ जुगुप्साऽऽवेगसम्मोह-सन्त्रासग्लानिदीनताः ।।
शङ्काऽपस्मारसम्भ्रान्ति-मृत्य्वाद्या व्यभिचारिणः ॥ २७१ ॥ यथा-'नष्टं वर्षवरैः...' इत्यादि ।
२६५ भयस्थायिभावो भयं स्थायिभावो यत्र तथोक्तः । कालाधिदेवतः कालोऽधिदैवतमधिष्ठातृदेवो यस्य तथोक्तः । स्त्रीनीचप्रकृतिः स्त्रियश्च नीचाश्चोपलक्षणेन वालाश्चेति ते प्रकृतयो यस्य तादृशः । 'बालस्त्रीनीचनायकः ।' इति रुद्रभट्टः । कृष्णः कृष्णवर्णः । भयानको विभेत्यम्मादिति तथोक्तः । 'आनक: शीभियः ।' इत्यानक: । तत्त्वविशारदैस्तत्त्वस्य भयानकखरूपस्य विशारदा अभिशास्तैः । मतः स्वीकृतः । यस्मात् । यदृष्टेत्यर्थः । त्यब्लोपे पञ्चमी । 'भीत्रार्थानां भयहेतुः ।' १।४।२५ इति वा पञ्चमी। भीतिर्भयम् । 'भीतिीः साध्वयं भयम् ।' इत्यमरः । उत्पद्यते । तत्-'व्याघ्रादीति शेषः । अत्रास्मिन् भयानक इति शेषः । आलम्बनम्। मतम् । तस्यालम्बनस्येत्यर्थः । घोरतरा अत्यन्तं घोराः । चेष्टा विभीषकारूपाणि चेष्टितानीति भावः । पुनः । उद्दीपनम् । भवेत् । 'वेदाः प्रमाण'मितिवदुद्देश्यविधेयभावेनान्वयोपपत्तिरूह्या । वैवयं विवर्णमुखत्वम् । गद्गद. स्वरभाषणं गद्गदखरं यथा भवेत्तथा भाषणमित्यर्थः । तथा-प्रलयस्वेदरोमानकम्पदिकप्रेक्षणादयः । आदिना-भूपतनादीनां ग्रह्णम् । तत्र प्रलयो निश्चेष्टत्वम् , स्वेदः प्रसिद्धः, रोमाञ्चो रोमोहासः, कम्पः कम्पिताङ्गत्वम् , दिकप्रेक्षणमितस्ततः कातरतया दृष्टिप्रक्षेपः, भूपतनं प्रसिद्धम् । इति दिक । अनुभावः। अत्रापि 'वेदाः प्रमाण' मितिवत् । च ( इदं समुच्चयार्थम् ) । 'अत्रे'ति पाठान्तरम् जुगुप्साऽवेगसम्मोहसन्त्रासग्लानिदीनताः। जुगुप्सा घृणा बीभत्सस्य स्थायिरूपेति यावत् । आवेगादयोऽन्ये स्पष्टाः । शङ्काऽपस्मारसम्भ्रान्तिमृत्य्वाद्याः। सम्भ्रान्तिरुन्मादः । आद्यपदेन विषादादीनां ग्रहणम् । व्यभिचारिणः। तथा च-भयस्थायिभावको भयङ्करालम्वनकस्त चेष्टितोद्दीपनको विवर्णत्वाद्यनुभावको जुगुप्साऽऽदिसञ्चारिको भयानको नाम रस., सच कालाधिष्ठातक: कृष्णवर्ण उक्त इति निर्गलितोऽर्थः ।। २६८ ॥ २६९ ॥ २७० ॥ २७१ ॥
उदाहरति-यथा-'नष्टं वर्षवरैः...' इत्यादि । अयम्भावः-वामनषण्ढायुदाहरणरूपेणापि निरूपितपूर्वमिदम् , अत्र च वर्षवरादीनां नीचानां वानरवेषेणान्तःपुरं प्रविष्ट विदूषकमवलोकयतां भयं स्थायिभावो, । प्रविष्टेन विदूषकेनालम्बनेन तादृशतच्चेष्टयोद्दीपनेन वर्षवरादीनामदर्शनादिनाऽनुभावेन दैन्यादिना सञ्चारिणा य राम्भूयाखाद्यमानं सामाजिकानां भयानकरसरूपतामापद्यते । इति । . यथा वा-'ग्रीवाभङ्गाभिराम महरनुपतति स्यन्दने बदृष्टिः पश्चार्धेन प्रविष्टः शरपतनभया भूयसा पूर्वकायम् । दर्भेर॰वलीद्वैः श्रमविवृतमुख_शिभिः कीर्णवर्मा पश्योदग्रप्लतत्वाद्वियति बहुतरं स्तोका प्रयाति ॥' इति । अभिज्ञानशाकुन्तले प्रथमेऽङ्के मृगं निहन्तुं धावितस्यन्दनस्य दुष्यन्तस्य राज्ञः सुतं प्रति 'अयं पुनरिदानीमपि' इत्युपक्रम्योक्तिरियम् । अत्र धावितस्यन्दनो राजाऽऽलम्बनं, शरपतनभयं स्यन्दनस्य चानुगतनमुद्दीपनं, ग्रीवाभा--पलायन-पूर्वकायप्रवेशार्दावलीढदर्भविकिरणायनुभावः श्रमशङ्कात्रासादिर्व्यभिचारी चेत्येषां संयोगान्मृगस्य पशुतया नीचस्य