________________
साहित्यदर्पणः ।
एष्वपि विभावादयः पूर्वोदाहरणवदूह्याः । अथ भयानकः
न । पश्यामि । किं कस्माद्धेतोरिति भावः । भक्षणाद्भक्षणमारभ्येत्यर्थः । त्वमनपगतक्षुधार्त्तिर्भवानिति भाः । विरतो निवृत्तः । नागानन्दस्येदं पद्यम्, वध्यवेषधारिणो नागस्य परित्राणकामनया शंखचूडस्य वध्यवेषं कृत्वा तत्प्र तिनिधित्वेन गरुडाय स्वात्मानं समर्प्य भक्षयतो जीमूतवाहनस्य तं प्रत्युक्तिरियम् । अत्रेन्द्रवज्रोपेन्द्रवज्रयोरुपजातिश्छन्दः, तल्लक्षणं चोक्तं प्राक् ।' इति । अत्र रुदत्या मात्राऽनुगतो वध्यदेषो नाग आलम्बनं तद्दैन्यमुद्दीपनं, स्वकलेवरे भक्षितेऽपि तत्तृप्त्यभावनिवेदनमनुभावो हर्ष वृत्यादिः सञ्चारी चेत्येषां संयोगात् शंखचूडविषयिण्यां करुणायामुत्साह आस्वादनीयतां प्रतिपद्यमानः सामाजिकानां रसतामवलम्बते । इति बोध्यम् ॥ १५१ ॥
२७४
[ तृतीय:
दानवीर इव धर्मवीरादिष्वपि विभावाद्यह्यमित्याह - एषु धर्म्मवीरादिष्वित्यर्थः । अपि । पूर्वोदाहरणवत पूर्वस्य दानवीरस्योदाहरणं तत्रैवेति तथोक्तम् । 'तत्र तस्येव । ' ५ । १ । ११६ इति वतिः । विभावादयः आलम्ब- नोद्दीपनानुभावसञ्चारिण इति भावः । ऊह्याः स्वयं यथायथं बोध्या इति भावः । अत्रायं पय्यालोकः - 'वीरो युद्धविषय एव, उत्साहस्य तादृशत्व एव तत्स्थायिकत्वोपपत्तेः ।' इति केचित्, 'वीरस्त्रिविधः, युद्धदानदयाभेदात् । इति बहवः 'वीरश्चतुर्विधः, दानधर्म्मयुद्धदयाभेदात् ।' इति प्राञ्चः, 'वीरोऽसङ्ख्येयप्रकारः, सत्यवीरादीनामपि युद्धवीरस्येव गणन चित्यात् । इति नव्याः, अत एव - ' एवं पाण्डित्यवीरोऽपि प्रतीयते । यथा - 'अपि वक्ति गिरां पतिः स्वयं यदि तासामत्रिदेवताऽपि वा । अयमस्मि पुरो हयाननस्मरणोल्लङ्घितवाङ्मयाम्बुधिः ॥' अत्र बृहस्पत्यालम्बनः सभाऽऽदिदर्शनोद्दीपितो निखिलविद्वत्तिरस्कारानुभावितो गर्वेण सञ्चारिणा परिपोषित उत्साहो वक्तः प्रतीयते । नचात्र युद्धवीरः, युद्धस्य वादसाधारणवाच्यत्वात् इति चेत्, क्षमावीरे किं ब्रूयाः । यथा - ' अपि बहलदहनजालं मूर्ध्नि रिपुर्मे निरन्तरं धमतु । पातयतु वाऽसिधारा महमणुमात्रं न किञ्चिदाभाषे ।' क्षमावत उक्तिरियम् । बलवीरे वा किं समादध्याः । यथा'परिहरतु धरां फणिप्रवीरः सुखमयतां कमठोऽपि तां विहाय । अहमिह पुरुहूत ! पक्षकोणे निखिलमिदं जगदक्कमं हामि ॥ पुरुहूतं प्रत्येषा गरुत्मत उक्तिः । ननु 'अपि वक्ति - ' 'परिहरतु धरां -' इति पद्यद्वये गर्व एव नोत्साहः । मध्यस्थे ( 'अपि बहलदहनजालं -' इति ) पद्ये तु धृतिरेव धन्यते इति भावध्वनय एवैते न रसध्वनय इति चेत्, तर्हि युद्धवीरादिष्वपि गर्वादिध्वनितामेव किन्न ब्रूया: ? रसध्वनिसामान्यमेव वा किन्न तद्व्यभिचारध्वननेन गतार्थयेः । स्थायिप्रतीतिर्दुरपह्नवा चेत्तुल्यं प्रकृतेऽपि । अनन्तरोक्तपद्ये तु नोत्साहः प्रतीयते, दयावीरादिषु प्रतीयत इति तु राज्ञामाज्ञामात्रम् । इति रसगङ्गाधरेऽप्युक्तम् ।' इति । 'वीरचतुर्विध एव न त्वसङ्ख्येयप्रकारः, तथैव प्राचां स्वीकारात् । - एवं च-- 'अपि वक्ति... ' इत्यत्र युद्धवीर एव, प्रतिस्पर्धिताजागरूकत्वात् प्रकारान्तरस्वीकारानावश्यकत्वाच्च । अपि बहलदहनजालम्' इत्यत्र धृतिरिति न राज्ञामाज्ञायितम्, अन्यथा - ' सन्तापयामि हृदयं धावंधावं घरातले किमहम् । अस्ति मम शिरसि सततं नन्दकुमारः प्रभुः परमः ॥' इत्यत्रोपतिविषयको त्साहात्तद्वीर एवास्तु, मा भूदयं वा, किन्तु धृतिवीरं को निवारयितुमीश: ? 'अस्ति मम शिरसि' इत्यनेन धृत्युत्साहस्योद्दीपितत्वात् । 'परिहरतु धरां... ' इत्यत्रापि गर्व एव, अन्यथा - 'आमूलाद्रत्नसानोर्मलयवलयितादा च कूलात्पयोधेः, यावन्तः सन्ति काव्यप्रणयनपटवस्ते विशङ्कं वदन्तु । मृद्वीकामध्यनिर्यन्मसृणरसझरीमाधुरी भाग्यभाजां वाचामाचार्यतायाः पदमनुभवितुं कोऽस्ति धन्यो मदन्यः ॥ इत्यत्र सुकवितावीर एव स्यात् । किं वाऽधिकं ब्रूमः, सर्वथोच्छ्रुडूखलत्वमापद्येत । अतः - यथाऽवस्थितं ज्यायः ।' इति तु नव्यतराः प्राहुः । इति दिक् ।
एवं वीरं निरूप्य भयानकं निरूपयितुमुपक्रमते - अथ वीरनिरूपणानन्तरम् । भयानकः । निरूप्यते - २५५ भया... इत्यादिना ।