________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः।
युद्धवीरो यथा, श्रीरामचन्द्रः
'भो लङ्केश्वर ! दीयतां जनकजा, रामः स्वयं याचते, कोऽयं ते मतिविभ्रमः, स्मर नयं, नाद्यापि किश्चिद्गतम् । नैवं चेत्खरदूषणत्रिशिरसां कण्ठासृजा पङ्किलः
पत्री नैष सहिष्यते मम धनुाबन्धबन्धूकृतः ॥ १५० ॥' इति । दयावीरो यथा, जीमूतवाहनः,'शिरामुखैः स्यन्दत एक रक्तमद्यापि देहे मम मांसमस्ति । तृप्तिं न पश्यामि तवापि तावत् , किं भक्षणात्त्वं विरतो गरुत्मन् ॥ १५१ ॥' इति । . .
.. युद्धवीरमुदाहरति-युद्धवीरः। यथा श्रीरामचन्द्रः। 'रावणं प्रत्याहेति शेषः । भोः।लङ्केश्वर ! जनकजा जनकसुता सीतेत्यर्थः । दीयताम् । 'मह्य'-मिति शेषः । रामः खरदूषणादिहन्ता । स्वयम् । याचते 'त्वा'-मिति शेषः । ते तव । कः किमात्मकः । अयं सीताप्रत्यवरोधात्मेत्यर्थः । मतिविभ्रमो बुद्धिवैपरीत्यमिति भावः । 'अस्ती'ति शेषः । नयं नीतिं सन्मार्गमिति यावत् । स्मर चिन्तय कर्त्तव्यत्वेनानुसन्धत्स्व । अद्य । अपि । किश्चित् राज्यपुत्रादीत्यर्थः । न 1 गतं नष्टमिति भावः । एवं नीतिमनुष्टाय सीता देयेत्येवमिति भावः । न ‘अङ्गीकरिष्यत' इति शेषः। चेत् । 'तहीति शेषः । खरदूषणत्रिशिरखां तत्तदाख्यानां राक्षसानामित्यर्थः । कण्ठासृजा कण्ठानामसृग्रुधिरं तेन । पङ्किलः सकर्दमो लक्षणया कर्दमेनेव लिप्त इत्यर्थः । 'सजम्बाले तु पङ्किलः ।' इत्यमरः । धनुर्ध्यावन्धबन्धूकृतो धनुषो ज्याबन्धस्तेन बन्धूकृतो बान्धववत् कृत इति तथोक्तः। धनुष्यारोपित इत्यर्थः । एषः। मम राक्षसकुलसंहारायावतीर्णस्य रामस्येत्यर्थः । पत्री बाणः । 'पत्री रोप इषुईयोः।' इत्यमरः । न । सहि. प्यते 'तव जीवितमपनयं चेति शेषः । यदि प्रार्थनयाऽपि न त्वया जनकजा समर्पयिष्यते, तदा न मयि पुनर्दोषआरोपयिष्यते, एष बाणो यथा खरादीनां शिरांसि निकृत्य तेषां कण्ठरुधिरेण भूषितस्तथा तवापि कण्ठरुधिरेण स्वं भूषयिष्यति, नेतः परमपराधं सहिष्यते । त्वयि विनाशिते एतद्राज्यादि तु स्वयं नक्ष्यति अतः एतत्पूर्वमेव जनकनन्दिनीं प्रत्यर्प्य स्वजीवितेन सहैतद्राज्यपुत्रादि परिपालयेति भावः । एवं च-अत्र स्वासहनं पत्रिण्यारोप्याभिधानमूलम् । बालरामायणस्येदं पद्यम् । शार्दूलविक्रीडितं छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ १५० ॥' इति ।
इदम्बोध्यम्-अत्र रामस्य युद्ध उत्साहो रावणेनालम्बनेन तदनयेनोद्दीपनेनेतः परमसहनाभिधानेनानुभावेन तद भिव्यङ्गयेन क्रोधादिना सञ्चारिणा चास्वाद्यतां प्रतिपद्यमानः सामाजिकानां रसतामापद्यते । इति । यथा वा-'क्षुदाः । सन्त्रासमेते विजहत हरयः क्षुण्णशकेभकुम्भा युष्मद्देहेषु लज्जां दधति परममी सायका निष्पतन्तः। सौमित्रे । तिष्ठ, पात्रं त्वमसि नहि रुषां, नन्वहम्मेघनादः किश्चिभ्रूभङ्गसज्ञानियमितजलधिं राममन्वेषयामि ॥' इति, अत्र राम आलम्बनं तत्कारित सेतुबन्धनमुद्दीपनं, क्षुद्रेषूपेक्षापराक्रमशालिनि रामे चातिस्पर्धाऽनुभावो, 'लज्जां दधतीति व्यङ्गयो गर्वः, 'क्षुण्णशक्रेभकुम्भा' इतिव्यङ्गया स्मृतिश्च व्यभिचारीत्येषां संयोगान्मेघनादस्य युद्ध उत्साहः सामाजिकानां रसतामापद्यते । इति ।
दयावीरमुदाहरति-दयावीरः। यथा, जीमूतवाहनः-'हे गरुत्मन् गरुड ! 'पक्षिताक्ष्या गरुत्मन्ता' वित्यमरः । शिरामुखः। शिराणां नाडीनाम्मुखानि द्वाराणीति तैस्तथोक्तः । 'नाडीतु धमनिः शिरा।' इति, 'मुखं० निस्सरण'मिति चामरः । रक्तं रुधिरम् । स्यन्दते क्षरति । 'स्यन्दू'प्रस्रवणे । एव । अद्यास्मिन् दिवसे, लक्षणयाऽस्मिन् समये । अपि । मम 'जीमूतवाहनस्य'ति शेषः । देहे शरीरे । मांसम् । अस्ति वर्त्तते । तव क्षुधाऽत्यन्तं पीडितस्य विपुलकायस्यात एवैतावताऽतृप्तस्य भवत इत्यर्थः । अपि पुनः । तावत् । तप्ति सन्तोषम् ।