________________
२७२ साहित्यदर्पणः।
[ तृतीयःअत्र परशुरामस्य त्याग उत्साहः स्थायिभावः सम्प्रदानभूतरालम्बनविभावैः सत्वाध्यवसायादिभिश्चोद्दीपनविभावविभावितः सर्वस्वत्यागादिभिरनुभावितो हर्षधृत्यादिभिः सनारिभिः पुष्टिं नीतो दानवीरतां भजते । धर्मवीरो यथा, युधिष्ठिरः
'राज्यं च वसु देहश्व भार्या भ्रातृसुताश्च ये । यच्च लोके ममायत्तं तत्परस्मै सदोद्यतम् ॥ १४९॥ इति ।
उदाहरणं सङ्गमयति-अवेत्यादिना ।
अत्रास्मिन्नुदाहृते पद्यांश इत्यर्थः । परशुरामस्य । त्यागे दाने । 'त्यागो विहापितं दान' मित्यमरः । उत्साहः ‘कार्यारम्भेषु संरम्भः स्थयानुत्साह उच्यते ।' इत्युक्तलक्षण उद्यम इत्यर्थः । स्थायिभावः । सम्प्रदान भूतैः संप्रदानोचितस्वरूपैः । संप्रदीयते एभ्य इति संप्रदानास्तद्भूतास्तैः । ‘कृत्यल्युटो बहुलम् ।' ३।३।११३ इति ल्युट् । सम्प्रदानोचितत्वं च ब्रह्मवित्त्वादिनैव,-तथोक्तम् 'न विद्यया केवलया तपसा वाऽपि पात्रता । यत्र दानमिमे चोभे तद्धि पात्रं प्रचक्षते ॥' इति । आलम्बनविभावैः । 'कश्यपादिभिरिति शेषः । अत्राभेदे तृतीया । सत्वा. ध्यवसायादिभिः सत्त्वस्य शान्तत्वदान्तत्वादिकारणभूतस्य गुणविशेषस्याध्यवसाय उद्रेक आदिर्येषां (प्ररोचनादीनां) तैस्तथोक्तः । तेषा' मिति शेषः । तथा च-सत्त्वोद्रेकजनितैः शान्तत्वदान्तत्वादिभिः प्ररोचनादिवाक्यैश्चेति निस्कृष्टोऽर्थः । उद्दीपनविभावैः । अत्राप्यभेदे तृतीया । च (इदं समुच्चयार्थम् ) विभावितः । सर्वस्वत्यागादिभिः । आदिना सादरवाक्यादीनां ग्रहणम्। 'अनुभाव' रिति शेषः । अभेदे तृतीया । अनुभावितः । हर्षधृत्यादिभिहर्षधृती आदी येषां (आवेगादीनाम् । ) तैः । सञ्चारिभिः । पुष्टिम् । नीतःप्रापितः । दानवीरतां दानवीररसखरूपत्वमित्यर्थः । भजते । इदम्बोध्यम्-उत्साहस्थायिको वीर, उत्साहस्य च दानविषयकत्वाद् वीरोऽपि तद्विशषितः, न च तेनास्य शृङ्गारहास्यादीनामिव पार्थक्यम्, अतस्त्यागादीनामभिधानेऽपि न खशब्दवाच्यत्वम् , यदि तु विप्रल' म्भादीनामिवास्य खशब्देनाभिधानं विरुद्धं स्वीक्रियेत, तहदिं नोदाहाय॑म् । किन्तु - क्रियदिदमधिकं में यद् द्विजायार्थयित्रे कवचमरमणीयं कुण्डले चार्पयामि । अकरणमवकृत्य द्राक् कृपाणन निर्यदहलरुधिरचारं मौलिमावदयामि ॥' इति, अत्र हि द्विजवेषेण याचमान इन्द्र आलम्बनं, तस्याभ्यर्थनमुद्दीपनं, कवचकुण्डलवितरणापेक्षया मौलिनिवेदनार्थमुद्यमनमनुभावो, हर्षधृत्यादिश्च सञ्चारी । इति ।। __ एवं दानवीरमुदाहृत्य धर्मवीरमुदाहरति-धर्मवीर इत्यादिना । धर्मवीरः। यथा । युधिष्ठिरः। 'प्रतिजानीते' इति शेषः ।
'राज्यम् । च । वसु धनम् । 'धने वसु' इत्यमरः । देहः शरीरम् । च। भाा दौपदी नाम ति शेषः । ये। च । भ्रातृसुता भ्रातृणां भीमसेनादीनां सुताः पुत्राः । यत् । च । लोके संसारे । 'लोकस्तु भुवने जने ।' इत्यमरः। मम। आयत्तमधीनम् । 'अधीनी निन्न आयत्तोऽस्वच्छन्दो गृह्यकोऽप्यसौ ।' इत्यमरः । तत् राज्यादीत्यर्थः । 'सर्व' मिति शेषः । परस्मै परमात्मन इत्यर्थः । सदा विपत्तावपि किं पुनः सम्पत्ताविति भावः । उद्यतम् । इदं कस्यापि नाटकस्य पद्यम् ॥ १४९ ॥' इति ।
इदम्बोध्यम्-अत्र युधिष्ठिरस्य धर्म उत्साहः स्थायी, परमात्माऽऽलम्बनं, 'न जातु कामान्न भयान्न लोभान्यजेद्धम्म जीवितस्यापि हेतोः ।' इत्यादिवाक्यस्मरणमुद्दीपनं, स्वार्थताऽभिनिवेशाभावोऽनुभावो धृत्यादिः सञ्चारी चेति सामाजिकानां चेतसि धर्मवीरोऽभिव्यज्यते । इति । यथा वा मम-'अशुभमुदयतां मे लीयतां वा शुभश्री: सपदि शमयतां वा जीविताशा कृतान्तः । अनभिमतमशेष वर्धतामन्यदेव पुनरपि न कदाचित्नोज्झिता वान्तमद्धा ॥' इति । यत्तूदाहतम्- सपदि विलयमेतु राज्यलक्ष्मी-रुपार पतन्त्वथवा कृपाणधाराः । अपहरतुतरां शिरः कृतान्तो मम तु म तिर्न मनागपैति धर्मात् ॥' इति, तत्र 'धर्मा' दिति शब्देन धर्मवीरस्याभिधानं दुष्टम् । एवं 'सत्या' दिति पाठे सत्यवीरस्यापीति बोध्यम् । रसस्य वाच्यत्वापत्तेः ।