________________
३७१
परिच्छेदः
रुचिराख्यया व्याख्यया समेतः । क्रोधाभिमानहास-प्रमुखव्यभिचारिभिः पुष्टः । २६४ स च दानधर्मयुद्ध-दयया च समन्वितश्चतुर्धा स्यात् ॥ २६४ ॥ स च वीरो दानवीरो, धर्मवीरो, युद्धवीरो, दयावीरश्चेति चतुर्विधो मतः । तत्र दानवीरो यथा
'त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः ॥ १४८ ॥' इति ।
ताभ्यामन्वित इति तथोक्तः । इदं तु बोध्यम्-दानवीरे प्रतिनायको याचकस्य दारिद्रयम् , धर्मवीरेऽधर्मः, युवीरे शत्रुः, दयावीरे पुनः परस्य दुःखमालम्बनविभावः, तत्तदुत्कर्षश्चैषामुद्दीपकः । इति । चातुर्यामन्त्रणस्थैर्यप्रसादाद्यनुभावभूश्चातुर्य्य ( चतुरता ) चामन्त्रणं (मित्रादिभिः समं कर्तव्यस्य स्थिरीकरण( च स्थैर्य्य ( स्थिरता धैर्यमिति यावत् ) च प्रसादः (प्रसन्नता) चेति ते आदौ येषां (सहायान्वेषणादीनां) तेऽमी अनुभावास्तेषां भूरुत्पत्तिस्थानमिति तथोक्तः । क्रोधाभिमानहासप्रमुखव्यभिचारिभिः क्रोधाभिमानहासाः प्रमुखा आद्या येषां ( शोकादीनां ) तेऽमी व्यभिचारिणस्तैः । पुष्टः । अयम् । वीरः । समुदाहतः। अत्र सार्द्ध श्लोकद्वयस्यैकवाक्यत्वम् ॥ २६२ ॥ २६३ ॥
अस्य भेदानाह-२६४ स चेत्यादिना ।
२६४ स वीर इत्यर्थः । च । दानधर्मयुद्धैः। 'विशेषणीभूतैरिति शेषः । दयया। 'विशेषणीभूतये'ति शेषः । च । समन्वितो विशेषित इति भावः । 'स'निति शेषः । चतुर्धा चतुर्विधः । स्यात् । अत्रोद्गीतिदछन्दः, तलक्षणं चोक्तं प्राक् ॥ २६४ ॥
तदेव विवृणोति-सचेत्यादिना ।
स निरूपितस्वरूपः । वीरः । च पुनः । दानवीरः । धर्मवीरः। युद्धवीरः । दयावीरः। च (इद समुच्चयार्थम् ) । इतीत्येवम् । चतुर्विधः। मतः । ननु निरुपपदस्य वीरपदस्य युद्धवीर एव शक्तिः, न तु दानवीरादौ, दानाद्यत्साहस्य भावात्मकतोपपत्तेः । इति चेत्, न, युद्धोत्साहस्येव दानाद्युत्साहस्यापि भावात्मकताऽनुपपत्तेः, निरुपपदस्यैवोत्साहस्य भावात्मकताऽङ्गीकारात् । यद्यपि दानवीरदयावीरयोधर्मवीरान्तर्भावो युज्यते, अन्यथा तयोरिव सत्यवीरपाण्डित्यवीरादीनामपि पार्थक्यमुपपद्येत, तथाऽपि तयोर्धानन्तभावः प्राशस्त्यार्थः प्राचां वाऽनुरोधस्य ज्यायस्त्वादिति मन्तव्यम् , अन्यथा पलायनवीरनिष्ठुरतावीरादीनामपि तथाऽङ्गीकारापत्तावुच्छृङ्खलताऽऽपत्तिः स्यात् ।
उदाहर्तुमुपक्रान्त आह-तत्रेत्यादिना ।। तत्र तेषु दानवीरादिषु मध्य इत्यर्थः। दानवीरः । यथा-'त्यागः..'इत्यादौ ।
सप्तसमुद्रमुद्रितमहीनिाजदानावधिः सप्त च ते समुद्रास्तैः सप्तानां समुद्राणां वा समाहारः सप्तसमुद्र तेन मुद्रिता वेष्टिता मही पृथिवी तस्या नियाजं निष्कपटं विख्यात्याद्यपेक्षाशून्यं यद् दानं तदेवावधिः सीमा यत्र यस्य वेति तथोक्तः । 'सप्तसमुद्र'मिति पक्षे पात्रादित्वात् क्लीबत्वम् । 'अवधाने परिच्छेदे सीम्नि काले बलेऽवधिः ।' इति रत्नमाला । त्यागः कश्यपादिभ्यः संप्रदानमित्यर्थः । 'भवत'इति शेषः । अयम्भाव:-"उत्पत्तिर्जमदग्नितः, स भगवान् देवः पिनाकी गुरुः शौयं यत्तु न तद्गिरां पथि ननु व्यक्तं हि तत्कर्मभिः । त्यागः सप्तसमुद्रमुद्रितमहीनिर्व्याजदानावधिः क्षत्रब्रह्मतपोनिधेर्भगवतः किं वा न लोकोत्तरम् ॥' इति समस्तं पद्यं महावीरचरितस्य द्वितीयाके रामस्य परशुरामप्रशंसनपरम् । अस्य च तृतीयः पादः 'त्याग'इत्यादिः, अत्र च परशुरामकर्तृकस्य त्यागस्य (दानस्य) सप्तसमुद्रवेष्टितायाः पृथिव्याः सम्बन्धित्वादत्र परशुरामस्योत्साहो दानवीरस्य स्थायी । इति । अत्र शार्दूलविक्रीडितं छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ १४८ ॥ इति।