________________
२७० साहित्यदर्पणः।
[तृतीयःनरकरिपुणासाधं तेषां सभीमकिरीटिनामयमहमसृङ्मेदोमांसैः करोमि दिशा बलिम्॥१४७॥' अस्य युद्धवीराद्भेदमाह
२६२ रक्तास्यनेत्रता चात्र भेदिनी युद्धवीरतः ॥ २६१ ॥ अथ वीरः२६३ उत्तमप्रकृतिवीर उत्साहस्थायिभावकः ।
महेन्द्रदैवतो हेम-वर्णोऽयं समुदाहृतः ॥ २६२ ॥ प्रतिनेतृ-तदुत्कर्षा-लम्बनोद्दीपनान्वितः । चातुर्यामन्त्रणस्थैर्य-प्रसादाद्यनुभावभूः ॥ २६३ ॥
ज्ञातम् । वाऽथवा । दृष्टमवलोकितमनिराकृतं वेत्यर्थः । तेषां गुरुपातकस्य कारिणो धृष्टद्युम्नस्यानुज्ञाकारिणां सात्यक्यादीनां दर्शिनां वाऽन्येषां सर्वेषामिति भावः । नरकरिपुणा नरकस्य नरकासुरस्य रिपुस्तेन, श्रीकृष्णेनेत्यर्थः । सार्धम् । सभीमकिरीटिनां भीमश्च किरीटी (अर्जुनः ) चेति ताभ्यां सह वर्तन्त इति तेषां तथोक्तानाम् । भीमार्जुनसहितानामित्यर्थः । अमृङमेदोमांसैरसमधिरं च मेदश्च मांसश्चेति तैस्तथोक्तैः । अयं पातकिनां भवतामुच्छेत्तेत्यर्थः । . अहम् । दिशां लक्षणया तदधिष्ठात्रीणां देवतानामित्यर्थः । बलिम्। करोमि । मृषाऽऽत्ममरणं निशम्य त्यक्तशस्त्रस्यान्तःश्वासस्य योगिनः पितुर्दोणाचार्य्यस्य वधेन सन्तप्तस्याश्वत्थाम्नोऽर्जुनादीन् प्रत्युक्तिरियम् । यद्यपि धृष्टद्युम्नस्य सम्बुद्धिः क्रमप्राप्ता, तथाऽपि महापातकितयाऽनुच्चार्य्यनामानं तमवज्ञाय पराक्रमोचिततया 'अरे रे अर्जुनार्जुन ! सात्यके सात्यके'इति सम्बोध्ययोक्तिः । वेणीसंहारस्येदं पद्यम् । अत्र हरिणीछन्दः, तल्लक्षणं चोक्तं प्राक् ॥१४७॥' .
अत्रापकारिणोऽर्जुनादय आलम्बनं, पितृहन्तृत्वमुद्दीपनं, प्रतिज्ञाऽनुभावोऽन्यनरपेक्ष्यव्यङ्गयो गर्वः सञ्चारी चेत्येतैः क्रोधो रौद्रतां प्रतिपद्यमानः सामाजिकेऽभिव्यज्यते, अस्याभिव्यञ्जिकाया वृत्तेरप्रयोगात् कवेरशक्तिश्च । न चैतावताऽस्यानुदाहार्य्यत्वम्, अस्य सद्भावे तथाक्षत्यनवतारात्, सद्भावेनैवास्योदाहार्यत्वाच्च । यथा वा-'नवोच्छलितयौवनस्फुरदखर्वगर्वज्वरे मदीयगुरुकार्मुकं गलितसाध्वसं वृश्चति । अयं पततु निर्दयं दलितहप्तभूभृद्गलस्खलनुधिरघस्मरो मम परश्वधो भैरवः ॥'इति, अत्र च गुरुका कभञ्जक आलम्बनं, निःशङ्ककार्मुकभङ्ग उद्दीपनं, परुषोक्तिरनुभावो, गर्वोग्रताऽऽद्याः सञ्चारिणश्च । इति । - ननु रौद्रयुद्धवीरयोः को भेद उभयत्र विभावादेः साम्यादिति चेनैवमित्यनयोर्मेदं वक्तुं प्रतिजानीतेअस्येत्यादिना ।
अस्य रौद्रस्येत्यर्थः । युद्धवीरात् । भेदं विशेषम् । आह-२६२ रक्तास्येत्यादिना ।
२६२ अत्रास्मिन् रौद्ररस इति यावत् । च। रक्तास्यनेत्रता लक्षणया तद्व्यङ्गयः क्रोध इत्यर्थः । युद्धवीरतः। पञ्चम्यास्तसिल ।' ५।३१७ इति तसिल । भेदिनी भेदकारणम् । अनयोर्दिषदालम्वनत्वेनैक्येऽपि क्रोधस्थायिको रौद्रः, उत्साहस्थायिकश्च युद्धवीर इति भिन्नत्वमवगन्तव्यमिति भावः ।
एवं रौद्रं निरूप्य वीरं निरूपयितुमुपक्रमते-अथेत्यादिना । । - अथ रौद्ररसनिरूपणानन्तरमित्यर्थः । वीर: निरूप्यते-२६३ उत्तमेत्यादिना ।
२६३ उत्तमप्रकृतिरुत्तमा कुलीनत्वादिनोत्कृष्टा प्रकृतिः स्वभावो यस्मात्तथोक्तः । यद्वा-उत्तमः प्रकृतिनायको यस्य तथोक्तः । एतेन-शठधृष्टयोर्भुदासः । 'प्रकृतिर्गुणासाम्ये स्यादमात्यादिस्वभावयोः । योनी लिङ्गे पौरवर्ग' इति मेदिनी। उत्साहस्थायिभावक उत्साहः कर्त्तव्यार्थेषु दृढोद्यमः स्थायी भावो यस्य तथोक्तः । महेन्द्रदेवतो महेन्द्रो देवराजो देवतमधिपतिर्यस्य तथोक्तः । हेमवर्गों हेमवत्सुवर्णवद्वर्णो यस्य तथोक्तः । 'हिरण्यं हेम हाटकम् ।' इत्यमरः । प्रतिनेतृतदुत्कर्षालम्बनोद्दीपनान्वितः प्रतिनेता (प्रतिनायिक:) च तदुत्कर्षश्चेति तावालम्बनोद्दीपने