________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। २६१ रौद्रः क्रोधस्थायिभावो रक्तो रक्ताधिदैवतः ।
आलम्बनमरिस्तत्र तच्चेष्टोद्दीपनम्मतम् ॥ २५७ ॥ मुष्टिप्रहारपातन-विकृतच्छेदावदारणैश्चैवम् । सयामसम्भ्रमाद्यै-रस्योद्दीप्तिर्भवेत्प्रौढा ॥ २५८ ॥ भूविभङ्गोष्ठनिर्देश-बाहुस्फोटनतर्जनाः । आत्मावदानकथन-मायुधोत्क्षेपणानि च ॥ २५९ ॥ उग्रताऽऽवेगरोमाञ्च स्वेदवेपथवो मदः। अनुभावास्तथाऽऽक्षेप-क्रूरसन्दर्शनादयः ॥ २६० ॥
मोहामर्षादयस्तत्र भावाः स्युर्यभिचारिणः । यथा‘कृतमनुमतं दृष्टं वा यैरिदं गुरुपातकम्मनुजपशुभिर्निर्मर्यादैर्भवद्भिदायुधैः ।
२६१ क्रोधस्थायिभावः क्रोधः स्थायी भावो यस्य तथोक्तः । रक्तस्तद्वर्ण इत्यर्थः । रक्ताधिदैवतो रकं रुधिरमधिदैवतं यस्य तथोक्तः । रौद्रस्तदाख्यो रस इत्यर्थः । 'स्या'दिति शेषः । तत्र तस्मिन् रौद्र इत्यर्थः । अरिः शत्रुद्वेषविषय इति यावत् । आलम्बनम् । तदाख्यो विभाव इत्यर्थः। तच्चेष्टा तस्यारे: (शत्रोः) चेष्टा शस्त्रप्रहरणोद्योगादिरूपो व्यापार इति यावत्तथोक्ता । उद्दीपनम् । तदाख्यो विभाव इत्यर्थः । पूज्यैः मतम् । अत एवाह-मुष्टिप्रहारपातनविकतच्छेदावदारणैर्मुट्या प्रहारः स च पातनं शस्त्राघातादिना भूमावुपरिष्टात्पतनविषीकरणं, यद्वा-मुष्टिप्रहारेण पातनं तच, विकृतं विरुद्धाचरणं च च्छेदः ख हननविषयीकरणं चेति तैस्तथोक्तः । च पुनः । एवम् । सङ्कामसम्भ्रमाद्यैः सङ्ग्रामो युद्धं च सम्भ्रमस्तदर्थ त्वरणं चेति तावाद्यौ येषां (दुर्भाषणादीनाम् ) तैः । अस्य रोद्रस्य ध्रुविभङ्गौष्ठनिर्दशबाहुस्फोटनतर्जना भ्रूविभङ्गश्चौष्टनिर्दशश्च बाहुस्फोटनं च तर्जना चेति तथोक्ताः । आत्मावदानकथनम् आत्मनोऽवदानकर्मणामितिवृत्तं तस्य कथनं प्रशंसनमिति तथोक्तम् । 'अवदानं कर्मवृत्त' मित्यमरः । आयुधोत्क्षेपणान्यायुधानामुत्क्षेपणान्यनेकवारं प्रहरणानि तथोक्तानि । च । उग्रताऽऽवेगरोमा. श्वस्वेदवेपथवः । वेपथुः शरीरकम्पः । मदः । तथा । आक्षेपकरसन्दर्शनादयः । आदिना क्रूरप्रतिज्ञाविधान फ्रूरकर्मणि प्रवृत्तिः क्रूरजनसङ्गादयश्च गृह्यन्ते। अनुभावाः कथिताः तत्र। मोहामर्षादयः। आदिनोग्रताऽऽवेगादीनां ग्रहणम् । व्यभिचारिणः । भावाः। स्युः। तथा च-क्रोधस्थायिभावकः शत्रुजनालम्बनकः शत्रुकृतापकाराग्रुद्दीपनको मुष्टिप्रहारायनुभावको मोहादिसञ्चारिभावको रक्तवर्णो रक्तदैवतो रौद्र इति निष्कृष्टोऽर्थः ॥२५७॥२५८॥२५॥
उदाहरति-यथेत्यादिना । यथा-यत्रायं तत्-'कृत...'इत्यादिना ।
'यैः । मनुजपशुभिर्मनुजा मनुष्या एव पशवस्तैस्तथोक्तैः । 'मनुजा मानवा नराः । इत्यमरः । अत एव-निर्मर्यादनिरस्ता मर्यादा धर्मविचाररूपा सीमा येषां तैस्तथोक्तैः । तत एव-उदायुधैरुद्यतान्यायुधानि यैस्तथोक्तैः । भवद्भिः। अत्र युष्मच्छब्देनानिर्दिश्यभवच्छब्देन निदेशः परेषामतिरथित्वं जाननप्यहं प्रतिपक्षित्वेन विभेमीति द्योतनार्थः । इदं द्रोणाचार्य्यस्य हननरूपमिति शेषः । गुरु महत् । पातकमात्मनः पतनहेतुकं पापाचरणमित्यर्थः । यद्वा-इदं निर्दिश्यमानम् । गुरुपातकं गुरोर्दोणस्य पातकं वधरूपं पापाचरणम् । इत्यर्थः । कृतम् । अनुमतमनु