________________
२६८
साहित्यदर्पणः । .
[ तृतीयःएवं-बन्धुवियोगविभवनाशादावप्युदाहार्य्यम् । परिपोषस्तु महाभारते स्त्रीपर्वणि द्रष्टव्यः । अस्य करुणविप्रलम्भाद्भेदमाह२६० शोकस्थायितया भिन्नो विप्रलम्भादयं रसः।
विप्रलम्भे रतिः स्थायी पुनःसम्भोगहेतुकः ॥ २५६ ॥ अथ रौद्रः
नन्वेतदघटनीयस्य घटनायां करुणसत्त्वोदाहरणम् . अथ प्रतिज्ञातमिष्टनाशादौ कथं न प्रदर्शितं तदित्याशङ्कयाहएवमित्यादिना।
एवं यथाऽत्राघटनीयस्य घटनायां दैवस्यायोग्यकारित्वेन करुणसत्त्वमुदाहृतं, तथेत्यर्थः । बन्धुवियोगविभवनाशादौ बन्धूनामिष्टजनानां पुत्रादीनां वियोग आत्यन्तिको विरहो मरणमिति यावत् स च, विभवनाशो विभवस्य राज्यादे शो व्याघात इति स चैतावादी यस्य (वनवासादिरूपस्यानिष्टस्य ) तस्मिंस्तथोक्ते । अपि । उदाहार्यम् । 'करुणसत्त्व'मिति शेषः ।
तत्र बन्धुवियोगे यथा-'अपहाय सकलबान्धव-चिन्तामुद्रास्य गुरुकुलप्रणयम् । हा तनय ! विनयशालिन् ! कथमिव परलोकपथिकोऽभूत् ।' इति, 'गृहिणी सचिवः, सखी मिथः, प्रियशिष्या ललिते कलाविधौ। करुणाविमुखेन मृत्युना हरता त्वां वद किन्न मे हृतम् ॥ इति च, अन हि शवशरीरमालम्बनं, स्मर्य्यमाणं तदीयं गुणवैभवमुद्दीपनं, रोदनमनुभावो दैन्यं मोहच सञ्चारिणौ भावौ । इति, विभवनाश यथा-'प्रातर्भवामि वसुधाऽधिपचक्रवर्ती सोऽहं ब्रजामि विपिने जटिलस्तपस्वी । यचिन्तितं तदिह दूरतरं प्रयाति यच्चेतसा न गणितं तदिहाभ्युपैति ॥' इति, अत्र च भावितथा निश्चितस्य राज्यसम्भारसम्भृतत्वस्य विनाशपूर्वकं तद्विपरीतस्य वनवासादे रूपस्थितिरालम्बनं, तदानींतनं चेष्टितदृश्यमुद्दीपनं, तन्नि वेदनेनानिष्टसूचनमनुभावः तेनावेग: सञ्चारी च । इति।
उदाहरणभूयस्त्वं त्वस्य महाप्रवन्धे द्रष्टव्यमित्याशयेनाह-परिपोषस्त्वित्यादिना । परिपोषः । तु पुनः । 'अस्येति शेषः । महाभारते लक्षणया तदन्तर्गते । स्त्रीपर्वणि । द्रष्टव्यः।
ननु करुणविप्रलम्भादस्य को भेदः, उभयत्र विलापादेः साम्येनानुभूयमानत्वादित्याशङ्कय तं प्रदर्शयितुं प्रतिजानीते-अस्येत्यादिना ।
अस्य करुणस्येत्यर्थः । करुणविप्रलम्भात् । भेदं विलक्षणत्वम् । आह-२६० शोक..इत्यादिना ।
२६. अयं करुणाख्यः । रसः । शोकस्थायितया शोकः स्थायी यस्य तस्य भावस्तत्ता तया तथोक्तया । विप्रलम्भात करुणविप्रलम्भादित्यर्थः । भिन्नः । अयम्भावः-करुणः शोकस्थायिभावः, न त्वेवंविधः करुणविप्रलम्भ इत्यनयोर्भेदः । इति । ननु करुणविप्रलम्भेऽपि करुणवद्विलापादीति तस्य कथं न शोकस्थायिकत्वमित्याशङ्कयाह-विप्रलम्भे करुणविप्रलम्भे इत्यर्थः । पुनःसम्भोगहेतुकः पुनःसम्भोगः कियत्कायिकान्तरन्तरायापातेऽप्यन्ततस्तथैव भाविसम्भोगस्तस्य हेतुको हेतुभूत इति तथोक्तः । रतिनीमे'ति शेषः । स्थायी स्थायिभावः । भावस्थविशेषणत्वमेवोद्दिश्य स्थायी'तिं पुंस्त्वेन निर्देशः । तथा च-करुणविप्रलम्भे पुनःसम्भोगस्य कारणभूतो रत्याख्यो भावः स्थायी भावः, केवले करुणे पुनः शोकाख्यः, इत्यनयोभिन्नस्थायिकतया भेद इति निर्गलितोऽर्थः ॥ २५६ ॥
एवं करुण निरूप्य रौद्रनिरूपयितुमुपक्रमते-अथेत्यादिना । अथ करुणनिरूपणानन्तरम् । रौद्रः। निरूप्यते-२६१ रौद्र इत्यादिना ।