________________
परिच्छेदः]
रुचिराख्यया व्याख्यया समेतः । शोकोऽत्र स्थायिभावः स्या-च्छोच्यमालम्बनं मतम् । तस्य दाहादिकाऽवस्था भवेदुद्दीपनं पुनः ॥ २५३ ॥ अनुभावा दैवनिन्दा-भूपातकन्दितादयः । वैवोच्छ्वासनिःश्वास-स्तम्भप्रलपनानि च ॥ २५४ ॥ निर्वेदमोहापस्मार-व्याधिग्लानिस्मृतिश्रमाः।
विषादजडतोन्माद-चिन्ताऽऽद्या व्यभिचारिणः ॥ २५५ ॥ शोच्य विनष्टबन्धुप्रभृति । यथा मम राघवविलासे
_ 'विपिने क्व जटानिबन्धनं, तव चेदं व मनोहरं वपुः ।
अनयोर्घटनाविधेः स्फुटं ननु खड्नेन शिरीषकर्त्तनम् ॥ १४६ ॥' इति । __ अत्र हि रामवनवासजनितशोकार्तस्य दशरथस्य दैवनिन्दा । यमदैवतो यमो दैवतं यस्य तथा भूतः । कथितः अत्रास्मिन् करुणे रस इति यावत् । शोक आधिविशेषः । स्थायिभावः । स्यात् । शोच्यं यत्कृते शोकस्तत् । सामान्ये नपुंसकम् । आलम्बनम् । मतम् । तस्य शोच्यस्थेत्यर्थः । दाहादिका दाहादिरूपा । आदिपदेन ध्वंसादिरूपा । अवस्था। पुनः । उद्दीपनम् । भवेत् । देवनिन्दाभूपातक्रन्दनादयो देवस्य प्रारब्धस्य देव (परमेश्वर) सम्बन्धिनः कार्यविशेषस्य वा ि पातो भूपातः, स च कन्दितं (रोदनं') चेति तान्यादौ येषां ( उरःपीडनादीनाम) ते तथोक्ताः । च तथा । वैवर्योच्छास-निःश्वासस्तम्भप्रलपनानि वैवर्ण्य म्लानाकारत्वं चोच्छ्रासोन्तर्मुखः श्वासश्च निःश्वासो बहिर्मुखः श्वासश्च स्तम्भो जडीभावश्च प्रलपनं चेति तथोक्तानि । अनुभावाः । 'तस्य'ति पूर्वतोऽन्वेति । निर्वेदमोहापस्मारव्याधिग्लानिस्मृतिश्रमाः । विषादजडतोन्मादचिन्ताऽऽद्याः । आद्यपदेन दैन्यसन्त्रासादीनां ग्रहणम् । व्यभिचारिणः । 'तस्ये'ति शेषः ॥ २५३ ॥ २५४ ॥ २५५ ॥
कारिकाः स्पष्टार्था इति द्योतयन् (शोच्य) मित्येकमेव पदं व्याचष्टे-शोच्यं शोचितुं योग्यमिति तथोक्तम् । 'इत्यस्येति शेषः । विनष्टबन्धुप्रभृति विनष्टा बन्धवो बान्धवाः पुत्राद्या इति ते प्रभृतौ यत्र तथोक्तम् । 'इत्यर्थ' इति शेषः ।
उदाहरति-यथा। मम ‘विश्वनाथस्य'ति शेषः । राघवविलासे-'विपिने..' इत्यादौ ।
'विपिने वने । जटानिवन्धनं जटाया अप्रसाधितकेशजालस्य निबन्धनं निबध्य धारणमिति तथोक्तम् । क्व कस्यामवस्थायामिति भावः । अयि राम ! तव । इदम् । मनोहरं खमार्दवसौभगत्वादिना मनोहारीति भावः । वपुः शरीरम् । च । क कस्यामवस्थायामित्यर्थः । अनयोर्जटानिबन्धनमनोहरवपुषोरित्यर्थः। घटना संयोजनम् । विधेर्विधातृदेवस्येत्यर्थः । ननु निश्चितम् । स्फुटं प्रत्यक्षम् । खडेन खड्गद्वारा। शिरीषकर्तनं शिरीषस्योपचारात्तत्पुष्पस्य कर्त्तनं छेदनमिति तथोक्तम् । तदभिन्नमिति भावः । 'कर्तन'मित्यत्र 'कृन्तन'मिति पाठान्तरेऽपि स एवार्थः । अत्र वैतालीयं छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ १४६ ॥' इति । . उदाहायं सङ्गमयति-अत्रेत्यादिना । __ अत्रास्मिन्नुदाहृते पद्य इत्यर्थः । हि रामवनवासजनितशोकार्तस्य । दशरथस्य । देवनिन्दा । 'अनुभावस्तस्मात् करुण'इति शेषः । अयम्भावः-अत्र रामस्य वनवास आलम्बनं, तत्र जटानिबन्धनायोग्यमपि तदीयं मनोहरं स्मर्यमाणं शरीरमुद्दीपनम् , दैववनिन्दनमनुभावः, तेनाक्षिप्तो मोहादिः सञ्चारी चेति दशरथस्य तदभेदाध्यवसायेन सामाजिकस्य ( सहृदयस्य ) करुणः । इति ।