________________
२६६
साहित्यदर्पणः।
[ तृतीयः अस्य 'लटकमेलक' प्रभृतिषु परिपोषो द्रष्टव्यः । अत्र च२५८ यस्य हासः स चेत्वापि साक्षान्नैव निबध्यते ।
तथाऽप्येष विभावादि-सामर्थ्यादुपलभ्यते ॥ २५० ॥ अभेदेन विभावादि-साधरण्यात्प्रतीयते ।
सामाजिकैस्ततो हास्य-रसोऽयमनुभूयते ॥ २५१ ॥ एवमन्येष्वपि रसेषु बोद्धव्यम् । अथ करुणः
२५९ इष्टनाशादनिष्टाप्तेः करुणाख्यो रसो भवेत् ।
धीरैः कपोतवर्णोऽयं कथितो यमदेवतः ॥ २५२ ॥ अयं च महावाक्यविशेषे परिपुष्यमाण उपलभ्यत इत्याशयेनाह-अस्येत्यादिना ।
अस्य हास्यस्य । 'लटकमेलक' प्रभृतिषु । लटकानां धूर्तानाम्मेलकं, तत्प्रभृति तदादि तेषु । प्रभृतिपदेन 'हास्यार्णवा' दीनां ग्रहणम् । 'महावाक्यविशेषेषु' इति शेषः । परिपोषः । द्रष्टव्योऽनुभवितव्यः ।।
नन नायकसामाजिकयोरभेदे रसोदयः, नायकसामाजिकयोरभेदश्च नायके निबध्यमान एव, अन्यथा तदयोगात्, नायकसामाजिकयोरभेदाभावे रसोदयोऽपि न स्यादिति चेत् ? एवमित्युत्तरयति-अवेत्यादिना ।
अत्रास्मिन् हास्य उपलक्षणेन, रसान्तरेऽपीत्यर्थः । च
२५८ चेद यद्यपीत्यर्थः । यस्य 'नायकस्येति शेषः । हासः। उपलक्षणेन स्थाय्यन्तरमपीत्यर्थः । 'स्या, दिति शेषः । स 'नायक' इति शेषः । क्वापि क्वचित् । साक्षात् स्वरूपसन् । न । एव । निबध्यते । तथाऽपि । एष नायक इत्यर्थः । विभावादिसामर्थ्यात् विभावादेः सामर्थ्य यद्विना रसानुदयस्तद्रूपं तस्मात्तथोक्तात् । उपलभ्यतेऽधिगम्यतेऽनुमीयत इति यावत् । अयम्भावः-'विभावादिं विना रसाभाव इति यत्र न तदन्यतमस्य साक्षान्निदेशस्तत्रोद्दीपनादिवदालम्बनस्याप्यङ्गीकार्यत्वे तेन समं सामाजिकस्याप्यभेदोऽङ्गीकर्तव्य' इति । ननु कथमभेदोऽकी कृतः स्यात् इत्याह-विभावादिसाधारण्याद्विभावादीनां साधारण्यं साधारणीकरणव्यापारस्तस्मात् । अभेदेनाभेदरूपेण । 'सामाजिकस्य विभावादि'रिति शेषः । 'विभावादिः साधारण्या' दिति पाठान्तरे तु-साधारण्यात् । विभावादिः । अभेदेन 'सामाजिकस्थे'ति शेषः । इत्यन्वितार्थो बोद्धव्यः । प्रतीयते । ततस्तस्मात् कारणात् । सामाजिकस्य विभावादिना सममभेदप्रत्ययरूपात् कारणादिति भावः । सामाजिकैः सहृदयैः । एवं श्रव्यकाव्यत्वेऽपि न क्षतिरिति बोध्यम । अयम । हास्यरस उपलक्षणेन रसान्तरमपीत्यर्थः । अनुभूयते ॥ २५० ॥ २५१॥
अत्र हासादि स्थाव्यन्तरादेरप्युपलक्षकमिति सूचयति-एवमित्यादिना ।
एवं यथाऽस्मिन् हास्य एवं तथेति भावः । अन्येषु । रसेषु शृङ्गारादिकेष्वित्यर्थः । अपि । बोद्धव्यम् । 'आलम्बनादिसत्त्व' मिति शेषः ।
एवं हास्यं निरूप्य करुणं निरूपयितुमुपक्रमते-अथेत्यादिना । अथ हास्यनिरूपणानन्तरम् । करुणः । निरूप्यते-२५९ इष्ट..इत्यादिना ।
२५९ इष्टनाशादिष्टस्य पुत्रादेर्नाशो विनाशस्तस्मात् । तथा-अनिष्टाप्तेरनिष्टस्य शोकादेराप्तिः प्राप्तिस्तस्याः । करुणाख्यः। रसः। भवेत् । अयम् । 'चे'ति शेषः । धीरैः । कपोतवर्णः कपोतवद्वर्णो यस्य तथोक्तः ।