________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । २५७ ईषद्विकासिनयनं स्मितं स्यात्स्पन्दिताधरम् ।
किञ्चिलक्ष्यद्विजं तत्र हसितं कथितं बुधैः ॥ २४८ ॥ मधुरस्वरं विहसितं, सांसशिर कम्पमवहसितम् । अपहसितं सास्राक्षं, विक्षिप्ताङ्गं च भवत्यतिहसितम् ॥ २४९ ॥
यथा
'गुरोगिरः पञ्च दिनान्यधीत्य वेदान्तशास्त्राणि दिनत्रयं च । अमी समाघ्राय च तर्कवादान् समागताः कुकुटमिश्रपादाः ॥ १४५ ॥'
ननु स्मितादीनां किं स्वरूपमित्याशङ्कयाह-२५७ ईषदित्यादिना ।।
२५७ तत्र तेषु । ईषद्विकासिनयनमीषद् ( अल्प) विकासिनी विकासिते नयने यस्मात्तथोक्तम । स्पति ताधरं स्पन्दितावीषच्चलितावधरौ यत्र तत्तथोक्तम् । 'हसन' मिति शेषः । स्मितम् । स्यात् तदुक्तम्-'ईषतफलकपोलाभ्यां कटाक्षैरप्यनुल्बणैः । अदृश्यदशनो हासो मधुरः स्मितमुच्यते ॥' इति । किश्चिलक्ष्यदि किजिलया द्विजा दन्ता यस्मात्तथोक्तम् । 'दन्तविप्राण्डजा द्विजाः।' इत्यमरः । 'हसन'मिति शेषः । हसितम् । बुधैः। कथितम । तदुक्तम्-'वक्रनेत्रकपोलैश्चेदुत्फुल्लैरुपलक्षितः । किञ्चिल्लक्षितदन्तश्च तदा हसितमिष्यते॥' मधुरस्वरम्मधुरो मिष्टो मनोरमः इती यावत् खरो यत्र तथोक्तम् । 'हसन' मिति शेषः । विहसितम् । तदुक्तम्-‘सशब्दं मधुरं कालगतं वदनरागवत् । आकुश्चिताक्षि मन्द्रं च विदुर्विहसितं बुधाः ॥' इति। सांसशिरकम्पमंसी च शिरश्चेति तेषां कम्पा तया सह वर्तत इति तथोक्तम् । यद्वा-अंसाभ्यां सह वर्तत इति साशं, तच्च शिरश्चेति तयोः कम्पा, सा यथा स्यात्तथेति तथोक्तम् । क्रियाविशेषणत्वेन क्लीबत्वम् । 'हसन' मिति शेषः । अवहसितम् । तदुक्तम्-'विकुञ्चितांसशीर्षव जिह्मदष्टिविलोकनः । उत्फुल्लनासिको हासो नानोपहसितम्मतम् ॥' इति । साम्राक्षं सारे राजले अक्षिणी यम्माद्यत्र वेति तथोक्तम । 'अत्रः कोणे कचे पुंसि क्लीबमचणि शोणिते ।' इति मेदिनी । 'हसन' मिति शेषः । अपहसितम । तदक्तम-'अस्थानजः साश्रष्टिराकम्पस्कन्धमूर्धजः । शाईदेवेन गदिती हासोऽपहसितायः ॥' इति । विक्षिप्ताडं विक्षिप्तानि स्थानाचलितान्यङ्गानि पार्थादीनि यत्र तथोक्तम् । 'हसन' मिति शेषः । च । अतिहसितम् । भवति । तदुक्तम्-'स्थूलकर्णकटुवानो बाष्पपूरप्लुतेक्षणः । करोपगूढपार्श्वश्च हासोऽतिहसितं मतम् ॥” इति। अत्रोपगीतिश्छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ २४८ ॥ २४९ ॥
उदाहरति-यथा
'गुरो प्रभाकरस्य । गिरो वाचो वासोति यावत् । 'मीमांसाशास्त्ररूपा' इति शेषः । पञ्चदिनानि । अधीत्य पठित्वा । च तथा । वेदान्तशास्त्राणि । दिनत्रयम् । 'अधीत्येति पूर्वतोऽन्वेति । तर्कवादास्तर्कस्य न्यायशास्त्रस्य वादा वचनानि तांस्तथोक्तान् । च पुनः । समानाय लक्षणया किञ्चिदधीत्येत्यर्थः । अमी। कुकटमिश्रपादाः । कुकुटाश्च ते मिश्रपादा इति तथोक्ताः । मिश्रशब्दः श्रेष्टवाची, पादशब्दव पूज्यवाची, तथा च कुक्कुटनामानः परमपूज्या इति निर्गलितोऽर्थः । समागताः। कमपि पण्डितम्मन्यं कुक्कुटनामानं सभायां शास्त्रार्थावसरे प्रविशन्तमवलोक्योपहासोक्तिरियम् । तथा च-कुक्कुट आलम्बनं, तदीयं पण्डितम्मन्यत्वमुद्दीपनं, गौरवेणाभिधानमनुभावः, तदभिव्यङ्गयं चापल्यं सञ्चारी चेति हास्यः सामाजिकेनानुभूयते। इति बोध्यम् । अनेन्द्रवजोपेन्द्रवज्रयोरुपजातिश्छदः, तलक्षणं चोक्तं प्राक् ॥ १४५ ॥'
यथा वा-'श्रीतातपादैर्विहिते प्रबन्धे निरूपिता नूतनयुक्तिरेषा । अङ्ग गवां पूर्वमहो पवित्र, कथं न वा रासभधर्मपत्न्याः ॥' इति । अत्र हि तार्किकपुत्र आलम्बनं, तदीया निःशङ्कोक्तिरुद्दीपनं, व्यज्यमानो दन्तविकाशोऽनुभाव उद्वेगश्च व्यभिचारी भावः ।
३४