________________
२६४ . . वाहित्यदर्पणः।
तृतीयःविकृताकारवाग्वेषं यदालोक्य हसेज्जनः । तदत्रालम्बनं प्रोक्तं तन्चेष्टोद्दीपनं मतम् ॥ २४५ ॥ अनुभावोऽक्षिसङ्कोच-वदनस्मेरताऽऽदिकः ।
हर्षावहित्थचापल्या-वेगाश्च व्यभिचारिणः ॥ २४६ ॥ अस्यानुभावभेदेन भेदानाह२५५ ज्येष्ठानां स्मितहसिते, मध्यानां विहसितावह सिते च ।
नीचानामपहसितं तथाऽतिहसितं तदेष पइभेदः ॥ २४७ ।।
विभावादीनाह-विक्रताकारवाग्वेषं विकृता आकारवाग्वेषा उपलक्षणेन चेष्टा च यस्य यत्र वा तत्तथोक्तम् । यत । सामान्य विवक्षया नपुंसकत्वेन निर्देशः । आलोक्य दृष्टोपलक्षणेन स्मृत्वा श्रुत्वा मत्वा वेत्यर्थः । जनः । हसेत विकसितमुखो भवेत् । तत् पुरुषादिकमित्यर्थः । अत्रास्मिन हास्य इत्यर्थः । आलम्बनम् । प्रोक्तम। तच्चेष्टा तस्य विकृताकारादेश्चेष्टा । 'वर्ण्यमाना दृश्यमाना वेति शेषः । उद्दीपनम् । मतम् । अक्षिसडोचवदनस्मेरताऽऽदिकः ।, अक्ष्णो नेत्रयोः सङ्कोचः । वदनस्य मुखस्य स्मेरता विकासः । आदिना -गलफुल्लादिः । अनुभावः । 'अत्रे'ति 'मत'इति लिङ्गविपरिणामेन चानुषज्यते । च तथा । हर्षावहित्थचापल्यावेगाः । हर्षावहित्थप्रमुखास्तथा स्युः इति पाठान्तरे प्रमुखशब्देन चापल्यावेगादीनां ग्रहणम् । व्यभिचारिणः । 'अत्रे'ति 'मता'इति च लिङ्गवचनविपरिणामेनानुषज्ते इदं च बोध्यम्-अयं हासश्चात्ममतः परगतश्चेति द्विविधो भवति, तदाहः-'आत्मस्थः परनिष्ठश्चेत्यस्य भेदद्वयं मतम् । आत्मस्थो द्रष्टुरुत्पन्नो विभावेक्षणमात्रतः ॥ हसन्तमपरं दृष्ट्वा विभावश्चोपजायते । योऽसौ हास्यरसस्तज्ज्ञैः परस्थः परिकीर्तितः ॥ २४५ ॥२४६ ॥' इति ।
अयं चात्मस्थ: परस्थश्चेति द्विविधः, तत्रात्मपरयोरुत्तममध्यमाधमभावभेदेन त्रिभेदत्वं तत्राप्युत्कृष्टत्वानुत्कृष्टत्वाभ्यां - पुनभेद्यमिति निर्देष्यमुपक्रमते-अस्येत्यादिना ।
अस्य हास्यस्यात्मस्थत्वपरस्थत्वाभ्यां द्विभेदस्येति भावः । अनुभावभेदेनानुभावानामनुभवित्रोरात्मपरयोरुत्तमत्वादिभेदेन त्रिभेदयोरुत्कृष्टत्वानुत्कृष्टत्वाभ्यां भिद्यमानानां स्मितादीनां भेदस्तेन तथोक्तेन । अभेदे तृतीयेयम् । भेदान् । आह-२५५ ज्येष्ठानामित्यादिना ।
२५५ ज्येष्ठानामुत्तमानामिति भावः । स्मितहसिते स्मितं च हसितं चेति तथोक्ते । 'अनुभावा' विति शेषः । तथा य-उत्कृष्टानामुत्तमानां हास्योदये स्मितं, तद्भिनानां हसितं चानुभावो मन्तव्य इति निष्कृष्टम् । उत्तमानामनुत्कृष्टत्वं चोत्तमानामुत्कृष्टत्वापेक्षाकृतमेवेति बोध्यम्, एवं परत्रापि। मध्यानामुत्तमत्वमप्राप्तानामधमत्वतश्चोन्नतानामिति भावः । विहसितावहसिते विहसितं चावह सितं चेति तथोक्ते । 'अनुभावा' विति शेषः । तथा च-गुणजात्यादिना मध्यमानामपि केनापि विशेषेणोत्कृष्टानां विहसितमनुत्कृष्टानां पुनरवहसितमनुभाव इति निष्कर्षः । च तथा । नीचानामुत्तमत्वमध्यमत्वाभ्यां च्युतानामत एव गुणजात्यादिनाऽधमानामिति भावः । अपहसितम् । तथा । अतिहसितम् । 'अनुभावा' विति शेषः । तथा च तेषामपि केनापि विशेषेणोत्कृष्टानामपहसितमनुत्कृष्टानां पुनरतिहसितमनुभावः स्यादिति भावः । तत्तरमाद्धेतोः । एष हास्यः । षड्भेदः। तदुक्तम्-'उत्तमानां मध्यमानां नीचानामप्ययं भवेत् । व्यवस्थः कथितस्तस्य षड्भेदाः सन्ति चापदे ॥ स्मितं च हसितं प्रोक्तमुत्तमे पुरुषे बुधैः । भवेद्विहसितं चावहसितं मध्यमे नरे ॥ नीचेऽपहसितं चातिहसितं परिकीर्तितम् ।' इति । अत्र गीतिश्छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ २४७ ॥