________________
२६३
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः। 'क्षेमं ते ननु पक्ष्मलाक्षि ! किस खेमं मदंगं दिलं, एतादृकृशता कुतः, तुह पुणो पुटं सरीरं जदो । केनाहं पृथुलः प्रिये, पणइणीदेहस्स संमेलणात,
त्वत्तस्तन्वि ! न काऽपि मे, जइ इदं खेमं कुदो पुच्छसि ॥ १४४ ॥ करुणानन्तरसम्भोगो यथोत्तरकादम्बाम् । अथ हास्यः२५४ विकृताकारवाग्वेषचेष्टादेः कुतुकाद्भवेत् ।
हास्यो हासस्थायिभावः श्वेतः प्रमथदेवतः ॥ २४४ ॥
'हे पक्ष्मलाक्षि पश्मले पक्ष्मशालिनी अक्षिणी नत्रे यस्यास्तत्सम्बुद्धौ तथोक्ते ! “सिध्मादिभ्यश्च ।' ५।२।९७ इति लच् । ननु पृच्छयत इति भावः ।' प्रश्नावधारणानुज्ञाऽनुनयामन्त्रणे ननु ।' इत्यमरः । ते तव । क्षेमम । 'अस्ती'ति शेषः । (इति परदेशत आगतस्य प्रेयस: प्रेयस्यै प्रश्नः)। मदंगं मदङ्गम् । मम त्वया परित्यक्ताया अङ्गं शरीरमिति तथोक्तम् । 'अझं गात्रे...'इति मेदिनी। दिदं दृढमत्यन्तमिति यावत् । 'दृढः स्थूले नितान्ते च प्रगाढे बलवत्यपि । इति मेदिनी। किसअं कृशकं कृशमिति यावत् । 'अस्तीत्येतावृत्'इति शेषः । खेमं क्षेमम् । (इति तं प्रति तस्या उत्तरम्)। एतादृकू। कृशता। कुतः। 'जाते'ति शेषः । (इति तस्यै तस्य प्रश्नः)। तुह तव मां परित्यज्य दूरं गतवत इति यावत् । पुणो पुनः । जदो यतो यस्मात्कारणादिति यावत् । पुढें पुष्टम् । सरीरं शरीरम् । 'अस्ति तत'इति शेषः । (इति तं प्रति तस्या उत्तरम् )। हे प्रिये! केन हेतुने ति शेषः । पृथुल: पुष्टः । अहम् । 'अस्मीति शेषः । (इति तस्यै तस्य प्रश्नः)। पणइणीदेहस्स प्रणयिनीदेहस्य ।' प्रणयिन्याः प्रेमास्पदभुताया (मद्भिन्नायाः) देहस्तस्य । संमेलणात् सम्बोलनात् सामादिति यावत् । त्वं पुष्ट'इति शेषः । परत्र कयाऽपि समं प्रेम विधाय त्वया रमितं, तदानन्देन त्वं पुष्टः, मया तु न केनापि समं प्रेम कृतं न वा रमितं, तदाा कृशशरीराऽस्मीति निकृष्टोऽर्थः । ( इति तं प्रति तस्या उत्तरम्)। हे तन्वि ! 'सुर्घ'इति त्वपपाठः, ह्रखान्ततानुपपत्तेः, तथाऽनुप्रासस्याप्युलासाच । त्वत्तः । 'अन्येति शेषः । मे मम । काऽपि । 'प्रणयिनीति शेषः । न नास्ति । यद्देहसजादहं पुष्टः स्यां सा त्वमेव, न त्वदन्या, न तत्त्वया शङ्कितव्यमिति वाक्यार्थः । एतेन प्रेयसोऽपि कृशशरीरत्वमित्यावेदितम् । (इति तां प्रति तस्य प्रत्युत्तरम् )। जइ यदि । इदं इदम् । 'त्वत्तस्तन्वि न काऽपि मे'इत्येवमवगम्यते। 'तंहीं'ति शेषः । कुदो कुतः । खेमं क्षेमम् । पुच्छसि पृच्छसि । यथा मम विरहे तव शरीर तथा तव विरहे ममापि कृशमिति भावः । (इति तं प्रति तस्याः पुनः प्रत्युत्तरम्) । अत्र च संस्कृतभाषया प्रेयसः, प्राकृतभाषया च प्रेयस्या उक्तिः । प्रोषित्वाऽऽगतस्य स्खविरहेण क्लिश्यन्ती प्रति क्षेमं ते नन्वि'त्यादि, तथा क्लिश्यन्त्याश्च स्त्रविरहेण क्लिश्यन्तं तं प्रति किसअंइत्याद्युक्तिः । अत्र शार्दूलविक्रीडित छन्दः, तल्लक्षणं चोक्तं प्राक्॥१४४॥'
करुणानन्तरसम्भोगः। यथा । उत्तरकादम्बा कादम्वर्या उत्तरभागे 'पुण्डरीकस्य प्रत्युज्जीवने महाश्वेतायाः, चन्द्रापीडस्य प्रत्युज्जीवने कादम्वधेिति शेषः ।।
एवं शशारं निरूप्य हास्यं निरूपयितुमुपक्रमते-अथेत्यादिना । अथ शृङ्गारनिरूपणानन्तरम् । हास्यः। निरूप्यते-२५४ विकृता...इत्यादिना।।
२५४ विकृताकारवाग्वेषचेष्टाऽऽदेविकृतानि विपरीतान्याकारवाग्वेषचेष्टादीनि यत्र तस्मात् तथोक्तात् । आकार आकृतिः । वाग्भाषणम् । वेषो वस्त्रादिना नेपथ्यरचना । चेटा हस्तादिचालनादिरूपा । आदिनोन्मादादीनि । कुतुकात कुतूहलात्तन्निमित्तीकृत्येति यावत् । ल्यब्लोपे पञ्चमीयम् । 'दृश्यमानाद्वर्षमानाद्वे'ति शेषः । 'कुतुकं च कुतूहलम् ।'इत्यमरः । 'कुहका दिति पाठान्तरे तु नर्तकादुपलक्षणेन श्रव्यकाव्याचेत्यर्थः। ‘नर्तका दिति पक्षे विकृतान्याकारवाग्वेषचेष्टादीनि यस्य तस्मादिति व्याख्येयम् । 'कुहको नर्तको नटः ।' इति गोपालः । श्वेतः। प्रमथदैवतः प्रमथो दैवतं यस्येति तथोक्तः । हासस्थायिभावो हासः स्थायिभावो यत्र तथोक्तः । हास्यः । भवेत् ॥ २४४ ॥