________________
२६२ साहित्यदर्पणः।'
[ तृतीय:तत्रपूर्वरागानन्तरः सम्भोगो यथा-कुमारसम्भवे पार्वतीपरमेश्वरयोः । मानानन्तरो यथा
'सन्दष्टेऽधरपल्लवे सचकितं हस्ताग्रमाधुन्वती, मामा मुश्च शठेति कोपवचनैरानर्तितभ्रलता। सीत्काराञ्चितलोचना सरभसं यैश्चुम्बिता मानिनी,
प्राप्तं तैरमृतं, माय मथितो मूहः सुरैः सागरः ॥ १४३ ॥' इति । प्रवासानन्तरसम्भोगो यथा मम तातपादानाम
अस्य चतुरो भेदान् क्रमादुदाहरति-तत्रेत्यादिना ।
तत्र तेषु पूर्वरागानन्तरादिषु सम्भोगेषु मध्य इत्यर्थः । पूर्वरागानन्तरः पूर्वरागस्यानन्तरभावीत्यर्थः । सम्भोगः । यथा-कुमारसम्भवे कुमारसम्भवमुद्दिश्य कालिदासेन निम्मिते महाकाव्य इत्यर्थः । पार्वतीपरमेश्वरयोगौरीशङ्करयोः। 'चरित'इति शेषः । इदं तत्त्वम्-नारदेन परमेश्वरेणैव समं परिणययोग्येयमिति खात्मनस्तथा योग्यतामवगम्य तत्र जातानुरागा तस्सम्पादनार्थ तपसे प्रवृत्ताऽऽसीत् देवी, तदेवं शनैशनैः । पूर्वरागोदयं तस्या अभिधाय सम्भोगो वर्णितः, इति सुव्यक्तं कुमारसम्भवं विदुषाम् । सुष्टूक्तं ततः, पूर्वरागानन्तरः सम्भोगो यथा कुमारसम्भव इत्यादि ।
मानानन्तरः । 'सम्भोग'इति शेषः । यथा-'सन्दष्टे..' इत्यादौ ।
'अधरपल्लवेऽधरः पल्लव इवेति तत्र तथोक्ते । सन्दष्टे सम्यग् दष्टे सति । 'नायकेने ति शेषः । सचकितं सभयं यथा स्यात्तथेत्यर्थः । 'चक'भ्रान्तौ, भावे क्तः । हस्ताग्रम् । आधुन्वती कम्पयन्ती सतीत्यर्थः । मामा नन । सम्भ्रमोक्तौ द्विरुक्तिः । मा दाङ्कीर्मा दाङ्क्षीरिति भावः । हे शठ निर्लज्ज धृष्ट! मुश्च'मा' मिति शेषः । इतीत्येवम्। कोपवचनैः कोपस्य (व्यञ्जकानि) वचनानि तैः । सहायं तृतीया । आनर्तितभ्रलता परिकम्पितभृकुटिका । सीत्काराश्चितलोचना 'सी'दिति पीडाऽतिशयव्यञ्जकस्य ध्वनेरनुकरणार्थमव्ययम्, तस्य कारेण विधानेनाञ्चिते पूजिते लक्षणया निमीलिते लोचने ययेति तथोक्ता। मानिनी मानोऽभिमान आग्रहः कोपो वास्त्यस्या इति तथोक्ता 'मानोऽभिमाने कोपे चाग्रहे'इति गोपालः । सरभसं सहर्षे सौत्सुक्यं सत्वरं वा । 'रभसो हर्षवेगयोः' । पौर्वापर्याविचारे च पुंस्यौत्सुक्ये च सम्भ्रमे ।' इति गोपालः । यैः । चुम्बिता । तैः। अमृतम् । प्राप्तं लब्धम् । ननु किं पुनस्तत्कृते पयोनिधिदेवैर्मथित इत्याशङ्कयोत्तरयति-मूढैयर्थ श्रान्तत्वात् स्पष्टमौख्यैरिति भावः । सुरैर्देवैः। श्रमाय । 'केवल'मिति शेषः । सागरः समुद्रः क्षीरोद इति यावत् । मथितः। केवलं श्रम एव क्षीरनिधिमथनेन देवैरुपलब्धः, न पुनरमृतमिति ते मूढा एवेति भावः । इदं कस्यापि सुभाषितरत्नभाण्डागारेऽप्युपलभ्यते । अत्र च शार्दूलविक्रीडितं छन्दः, तल्लक्षणं चोक्तं प्राक् ॥ १४३ ॥' इति ।
इदं वोध्यम्-मानिन्याः-'मामा मुख शठे'त्याद्युक्त्या हस्तानाधूननादिरूपया चेष्टया च व्यज्यमानस्य मानस्यानन्तरं मानिन्यालम्बनः पेयत्वाभिमताधरोद्दीपनोऽधरपानानुभाव आवेगसञ्चारिकः सम्भोगस्तद्रतिज्ञ 'प्राप्तं तैरमृतं..' इत्यभिधायिनि व्यज्यते। इति ।
प्रवासानन्तरसम्भोगः प्रवासानन्तरोऽसौ सम्भोग इति तथोक्तः । यथा। मम । 'विश्वनाथस्येति शेषः । तातपादानां ताताः पितरोऽमी पादाः पूज्यास्तेषां, तथाभूतानां चन्द्रशेखराणामित्यर्थः । संस्कृतप्राकृतकाव्यरूपे-'क्षम..'इत्यादौ।