________________
परिच्छेदः ] रुचिराख्यया व्याख्यया समेतः ।
२६१ अनुलेपनभूषाद्याः शुचि मेध्यं वाच्यमन्यच्च । तथा च भरत:-'यत् किञ्चिल्लोके शुचि मेध्यमुज्वलं दर्शनीयं वा तत्सर्वं शृङ्गारेणोपमीयते।' इति । किश्च--
२५३ कथितश्चतुर्विधोऽसावानन्तर्यात्तु पूर्वरागादेः ॥ २४३ ॥ यदुक्तम्'न विना विप्रलम्भेन सम्भोगः पुष्टिमश्नुते। कथायिते हि वस्त्रादौ भूयात्रागो विवर्धते॥' इति ।
मधुपानयामिनीप्रभृतिः । प्रभृतिपदेन मलयाचलमारतादिग्रहणम् अथ-अनुलेपनभूषाद्याः । आद्यपदेन कन्दुकलीलाऽऽदिग्रहणम् । 'उद्दीपनतयाऽभिमता: स्यु' रिति शेषः । तथा-शुचि निर्मलं जनान्तरसञ्चारादिदोषशून्यमिति यावत् । मेध्यं पवित्रम् । नैरुज्यकारितया सङ्गमाहमिति यावत् । अन्यद्धंसदर्शनादीति भावः । च वाच्यम् । 'उद्दीपनविभावतयेति शेषः । तथोक्तम्-'ऋतुमाल्यालङ्कारैः प्रियजनगान्धर्वकाव्यसेवनतः । उपवनगमनविहारैः शृङ्गाररसः समुद्भवति ॥ २४२ ॥' इति । • ननु स्यादेवं वसन्तादीनामुद्दीपनत्वं, किन्तु शुच्यादीनां कथं मन्यावहे इत्याचार्य्यसम्मतिं दर्शयति तथा-चेत्यादिना ।
तथा यथाऽस्माभिरुक्तं तद्वत् । च पुनः । भरतः खनामधन्यो नाट्याचार्यः । 'आहे 'ति शेषः । किमित्याह-'यत् । किञ्चित् किमपि । सामान्यविवक्षया नपुंसकत्वेन निर्देशः । लोके जगति । 'लोकस्तु भुवने जने ।' इत्यमरः । शचि निर्मलम् । मेध्यं पवित्रम् । 'पूतं पवित्रं मेध्यं चे त्यमरः । उज्ज्वलं दोप्तिमत् । दर्शनीयम् । वा । तत् । सर्वम् । शृङ्गारेण । उपमीयत उपमितिविषयः क्रियते।' इति । इदं तत्त्वम्-'तत्र शृङ्गारो नाम रतिस्थायिभावप्रभव उज्ज्वलवेषात्मकः, यत् किञ्चिल्लोके शुचि मेध्यमुज्ज्वलं दर्शनीयं वा तत्सर्व शृङ्गारेणोपमीयते । यस्तावदुज्ज्वलवेषवान् स शृङ्गारवानित्युच्यते । यथा-गोत्रकुलाचारोत्पन्नान्याप्तोपदेशसिद्धानि पुंसां नामानि भवन्ति, तथैषां रसानां भावानां च नाव्याश्रितानां चार्थानामाचारोत्पन्नान्याप्तोपदेशसिद्धानि नामानि । एवमेष आचारसिद्धो हृद्योज्ज्वलवेषात्मकत्वाच्छारो रसः ।' इति भरताचाय्यरुक्तम्, तेन गुच्यादीनां शृङ्गारेणोपमितत्वाच्छङ्गारस्योद्दीपनात्मनाऽङ्गीकारः । इति ।
अथाप्येतस्य प्रसिद्धान् भेदान् निर्देष्टुमाह-किञ्च किन्त्वित्यर्थः । यद्यपि-असख्यभेदतयैकविध एवायमङ्गीकृतस्तथाऽपीति भावः ।
वक्तव्यं निर्दिशति-२५३ कथित इत्यादिना ।
२५३ पूर्वरागादेः पूर्वरागमानप्रवास करुणानामित्यर्थः । आनन्तय्यांदनन्तरंभव आनन्तरस्तस्य भाव आनन्तयं तस्मात् । आनन्तरभवत्वमङ्गीकृत्येति भावः । तु एव (निपातानामनेकार्थत्वात् )। असौ सम्भोग इत्यर्थः । चतुर्विधश्चतस्रो विधाः प्रकारा यस्य स इति तथोक्तः । पूर्वरागानन्तरो, मानानन्तरः, प्रवासानन्तरः, करुणानन्तरश्चेति चतुर्भेद इति भावः । कथितः ॥ २४३ ॥
ननु कथमयं पूर्वरागादीनामानन्तर उच्यत इत्याशङ्कय प्राचां सम्मतिमुपन्यस्यति-यदित्यादिना । यद् यतो हेतोरित्यर्थः । उक्तम् । किमित्यत आह-न विनेत्यादिना ।
'विप्रलम्भेन पूर्वरागादिहेतुकेन स्वविशेषेण । विना। सम्भोगः । पुष्टिं परिस्फुरत्स्वरूपत्वमिति भावः । न । अश्रुते प्राप्नोति । तत्र हेतुमाह-हि यतः । कषायिते कषायो रागविशेषो जातो यस्य तस्मिंस्तथोक्ते । वस्त्रादौ। भूयान् अतिशयितः प्रचुरः । रागः। विवर्धते विशिष्टतया वृद्धि प्राप्नोतीति भावः । तथा च-यथा वस्त्रादौ कषायितत्वोत्त; रागः पुष्टिमधिगच्छति न तथा कपायितत्वतः पूर्वम् । एवं, यथा सम्भोगे पूर्वरागाद्यनन्तरं रसः, न तथा पूर्वरागादेः पूर्वम् । तस्मात् पूर्वरागादिकमन्तराऽपि 'सम्भोगः सम्भवतीति व्यजितम् । पूर्वरागाद्यनन्तरं विप्रलम्भं विना, एतस्य पूर्वरागादिहेतुकत्वात् ।' इति ।