________________
२६०
अथ सम्भोग:
साहित्यदर्पणः ।
[ तृतीय::
२५० दर्शनस्पर्शनादीनि निषेवेते विलासिनौ ।
यत्रानुरक्तावन्योन्यं सम्भोगोऽयमुदाहृतः ॥ २४० ॥ आदिशब्दादन्योऽन्याधरपानचुम्बनादीनि । यथा- 'शून्यं वासगृहं.' इत्यादौ । २५१ सङ्ख्यातुमशक्यतया चुम्बनपरिरम्भणादिबहुभेदात् । अमेक एव धीरेः कथितः सम्भोगशृङ्गारः ॥ २४१ ॥ २५२ तत्र स्याहतुषट्कं चन्द्रादित्यौ तथोदयास्तमयः ।
जलकेलि - वनविहार- प्रभात - मधुपान - यामिनीप्रभृतिः ॥ २४२ ॥
एवं विप्रलम्भं सप्रभेदं लक्ष्यलक्षणाभ्यांनिरूप्य सम्भोगं तथा निरूपयितुमाह-अथेत्यादिना !
अथ विप्रलम्भ निरूपणानन्तरम् । सम्भोगः निरूप्यते - २५० 'दर्शन.. इत्यादिना ।
२५० यत्र । विलासिनौ विलासिनी च विलासी चेति तथोक्तौ । अन्योऽन्यम् । अनुरक्तौ । अत एवैकतरस्यानुरकत्वे शृङ्गाराभास इति वक्ष्यते । ' सन्ता' विति शेषः । दर्शनस्पर्शनादीनि । निषेवेते । 'स' इति शेषः । अयम् । सम्भोगः । उदाहृतः कथितः । तथोक्तम्- ' अनुकूलौ निषेवेते यत्रान्योऽन्यं विलासिनौ । दर्शनस्पर्शनादीनि स सम्भोगो मुदान्वितः ॥ इति ॥ २४० ॥
आदिपदार्थमाह-आदिशब्दादादिशब्दोपादानादितिभावः । अन्योऽन्याधरपानचुम्वनादीनि । अत्र पुंस्त्वेन निर्देशस्तु न स्थाने, कारिकायां, 'सामान्ये नपुंसक' मिति न्यायसिद्धवार्तिकेनाऽऽदिपदस्य क्लीबत्वेन निर्देशात् । उदाहरतियथा- 'शून्यं वासगृहं..' इत्यादौ । उदाहृतपूर्वमिदम् । इदं तु बोध्यम् - सम्भोगो द्विविधः, नायिकाssध नायकारब्धश्च; तत्राद्यो यथा - 'शून्यं वासगृहं..' इत्यादौ । द्वितीयो यथा - ' त्वं मुग्धाक्षि ! विनैव कञ्चुलिकया घत्से मनोहारिणीं लक्ष्मीमित्यभिधायिनि प्रियतमे तद्वीटिकासंस्पृशि । शय्योपान्त निविष्टसस्मितसखी नेत्रोत्सवानन्दितो निर्यातः शनकैरलीकवचनोपन्यासमालीजनः ॥' इति ।
अयं चैकविध एव गण्यत इत्याह- २५१ सङ्ख्यातुमित्यादिना ।
२५१ चुम्बनपरिरम्भणादिबहुभेदाच्चुम्बनं च पाररम्भणमालिङ्गनं चेति ते आदौ येषां (सम्भाषणादीनां ), तैः ( कृतः ) बहुभेद: प्रचुरो भेदस्तस्मात् । सङ्ख्यातुम् । अशक्यतया । अयम् । सम्भोगशृङ्गारः । एको Sवान्तरभेदशून्यः । एव । धीरैः कथितः । तथोक्तम्- 'सम्भोगस्य परस्परावलोकनसम्भाषणा लिङ्गनचुम्वनाद्यनेकव्यापारमयत्वेनानन्त्यादेकविधत्वेन गणना कृता ।' इति । इदमुक्तम्- ' प्राधान्येन व्यपदेशा भवन्ती'ति नयेन चुम्बनादीनामनुभावानां प्राधान्येन तेषां चानन्त्येन तत्तदुपाधिवशाद्भिद्यमानोऽप्ययमेकविध एव मन्यते । तथाहि - चुम्बनानुभावप्राधान्येन भिद्यमानश्चुम्बनसम्भोग:, चुम्बनं च क्वचिन्नायिकाऽऽख्धं क्वचिन्नायकारब्धं च तत्रापि नायिकाऽपि स्वीयादिभेदादनेकविधा, नायकोऽप्येवं धीरोदात्तादिभेदात् । एवं च तत्तदुपाधिवशाद्भिद्यमानस्यानेकविधस्य चुम्वनस्य सम्भोगोऽप्यनेकविधः, किं पुनस्तत्तद्भेदप्रभेदात्मा; तदेक एवायं स्वीक्रियते । इति । अत्रार्या छन्दः, तलक्षणं चोक्तं प्राक् ॥ २४१ ॥
अस्योद्दीपनविभावान्निर्दिशति - २५२ तत्रेत्यादिना ।
२५२ तत्र तस्मिन् सम्भोग इत्यर्थः । ऋतुषट्कमृतूनां वसन्तादीनां षट्कमिति तथोक्तम् । स्यात् । ' उद्दीपनतयाऽभिमत' मिति शेषः । तथा चन्द्रादित्यो चन्द्रश्चादित्यश्वेति तौ । वचनविपरिणामेन 'स्याता' मिति योज्यम् । तथा । उदयास्तमय उदयास्ताभ्यां प्रचुर इति तथोक्तः, 'काल' इति शेषः । ' स्यादिति पूर्वतोऽन्वेति एवं परत्र | 'उदितास्तमिता' विति पाठे तु - 'चन्द्रादित्या' वित्यस्य विशेषणत्वेन बोध्यम् । तथा जलकेलि - वनविहार- प्रभात