________________
परिच्छेदः ]
रुचिराख्यया व्याख्यया समेतः । पुनरलभ्ये शरीरान्तरेण वा लभ्ये तु करुणाख्य एव रसः। किश्च--'अत्राकाशसरस्वतीभाषाऽनन्तरमेव शृङ्गारः, सङ्गमप्रत्याशया रतेरुद्भवात् । प्रथमन्तु-करुण एव ।'इत्यभियुक्ता मन्यन्ते।
यच्च-अत्र, 'सङ्गमप्रत्याशाऽनन्तरमपि भवतो विप्रलम्भशृङ्गारस्य प्रवासाख्यो भेद एवेति केचिदाहुः, तदन्ये-'मरणरूपविशेषसम्भवात्तद्भिन्न एवेति मन्यन्ते ।
मवलोकनानन्तरं वयस्याभिः कथमपि भवनं प्रति नीतायां महाश्वेतायां पुण्डरीको भुवनान्तरं प्रति तद्विरहपीडितो गतवान् , अथ तया प्रेयसो भुवनमध्यारोटुं निश्चीयमाने केनापि 'वत्से महाश्वेते! न त्याज्यास्त्वया प्राणाः, पुनरपि तवानेन भविष्यति समागमः ।' इत्याश्वास्यमानया प्रोषितभर्तृक एव तं झटिति साक्षात्कर्तुं तपसे प्रवृत्तम् ।' इति ।
अथ-करुणविप्रलम्भव्यवस्थां दर्शयति-पुनरलभ्य इत्यादिना । '
पुनरलभ्ये प्रत्युज्जीवनाशारहिते तादृशेनैव शरीरान्तरेण वा सङ्गमानह इति भावः । शरीरान्तरेणान्यत्तादृशातिरिक्तं यच्छरीरं तेन । वा । लभ्ये 'यूनोरेकतरस्मि निति शेषः । तु पुनः । (इदं तादृशशरीरलभ्यस्य व्यवच्छेदार्थम्)। करुणाख्यः। एव न तु करुणविप्रलम्भः । रसः। 'रत्यालम्बनस्य विच्छेदे रतेवैक्लव्यहेतुकत्वेनावतारा'दिति शेषः । इदं बोध्यम्-पुण्डरीको लोकान्तरं गतोऽपि पुनस्तादृशेनैव शरीरेण लब्ध इति महाश्वेतायाः करुणविप्रलम्भ एव । अथ यथा मदनो लोकान्तरं गतस्तत आगतोऽपि 'शरीरान्तरेणे ति रतेः करुणायैवाभूत् , तथाऽन्यत्रापि । इति ।
पुण्डरीकमहाश्वेतावृत्तान्ते तु करुणविप्रलम्भ एव, स च यथा, तत् प्राचां समीक्षाऽनुपदं समर्थयते-किश्चेत्यादिना ।
किश्च । 'अत्रास्मिन् पुण्डरीकस्य महाश्वेतया वर्ण्यमाने वृत्तान्त इति यावत् । आकाशसरस्वतीभाषानन्तरमाकाशस्य सरखतीभाषा वागुच्चारणं तस्या अनन्तरं पश्चादिति तथोक्तम् । आकाशते परितः प्रकाशत इत्याकाशों देवादिः । अशरीरवाक्सम्भवपक्षेऽप्येवं न दोषः, दिव्यानां शरीरस्फुरणस्य तदिच्छाऽधीनत्वात् । एव न तु प्रथममिति शेषः । अत एव-'प्रथमन्त्वि'ति वक्ष्यते । शङ्कारः । कुत इत्याशकथाह-समप्रत्याशया सङ्गमस्य तादृशेनैव शरीरेण सम्भोगहेतुकत्वेन लाभस्य प्रत्याशा रत्यालम्बनस्य प्रत्युज्जीवनवासनया पुनर्जाताऽऽशा तयेति तथोक्तया । रतेः। उद्भवात् । प्रथममाकाशसरस्वतीभाषायाः पूर्वमित्यर्थः । तु पुनः । करुणः। एव'न तु शृङ्गार'इति शेषः । तावत् सङ्गमाशाया अनुदयाच्छोकस्यैवोदयादिति भावः ।' इतीत्येवम् । अभियुक्ता आलङ्कारिकगुरवः । मन्यन्ते । अत्रेयं व्यवस्था-रत्यालम्बनस्य लोकान्तरं गतवतो यावन्न तस्य ततः प्रतिनिवृत्त्याशा तावद्रतेः शोकात्मना परिणामात् करुणः, तदनन्तरं यावन्न सङ्गमः, किन्तु जातः प्रत्ययस्तत्प्रतिनिवृत्तेः, तावद्विप्रलम्भः, अथ सङ्गमे सम्भोगः । न चैवम्मदनस्य सङ्गमप्रत्याशायां रतेर्विप्रलम्भ इति शङ्कयम्, शरीरान्तरेण तदुदयात् । तथा च-अत्र यावन्न सङ्गमस्तावत् सङ्गम प्रत्याशाया उदयेऽपि करुणः, तस्याः शरीरान्तरीणत्वेन शोकनिवृत्तावकिञ्चित्करत्वात् । तदनन्तरं सम्भोगः । इति ।
स्थूणानिखननन्यानैतदेव द्रढयितुं केषाश्चिन्मतं निर्दिश्यान्येषां मतं दर्शयति-यच्च ( इति केचिदित्यनेन सम्बन्धः ) । अत्रास्मिन् पुण्डरीकमहाश्वेतावृत्तान्त इति यावत् । 'सङ्गमप्रत्याशाऽनन्तरम् । अपि पुनः । भवतः सम्भवतः । विप्रलम्भशङ्कारस्य । प्रवासाख्यः। भेदः। एव न तु करुणाख्य इत्यर्थः । 'तथोक्तं प्रदीपकारैः-'करुणशृङ्गारस्याप्यत्रैवान्तर्भावः । इति । अत्रैव प्रवास एवेत्यर्थः । इतीत्येवम् । केचित् । आहुः । तदन्ये तेभ्योऽन्ये भिन्ना इत्यर्थः (इति मन्यन्ते इत्यनेन सम्बन्धः) । 'मरणरूपविशेषसम्भवान्मरणरूपो यो विशेषोऽधिकोऽवच्छेदक इति यावत् तत्सम्भवस्तस्मात्तं निमित्तीकृत्येत्यर्थः । तद्भिन्नस्तस्मात्प्रवासाद्भिन्नो द्वितीयो विजातीय इति यावत् । एव न तु प्रवास इति शेषः ।' इतीत्येवम् । मन्यन्ते। इदमुक्तम्-देशान्तरगमनहेतुकः प्रवासः, स च मृतस्यापि पुनः सङ्गमाशायाम् , लोकान्तरस्यापि देशान्तरत्वानतिरेकात् । इति यत्किञ्चिदाहुस्तन्मन्दम् , प्रवासस्य जीवद्दशायामेव देशान्तरगमनमूलत्वात् , मृतज्ञानानन्तरं सङ्गमप्रत्याशाया उद्भवेऽपि यावन्नासौ तावद्रतेवैक्लव्यात्मना परिणामात् । प्रोषितज्ञानानन्तरं तथाऽनवतारात्, किन्तु विप्रकृष्टत्वेनैव । अत एव-प्रवासानन्तरं तेनैव शरीरेण सङ्गमप्रत्याशा, मरणानन्तरं तु तद्भिन्नेन तादृशेन । इति परे प्राहुः । इति ।